________________
•35
ܪ̈ܐ
ज्ञान- प्रदीपिका ।
arrat स्त्री है तस्करी च बधू भवेत् । उदयादोजराशिस्थे पुग्रहे पुरुषो भवेत् ||२४|| समराभ्युदये चोरी समस्तैः स्त्रीप्रहैर्वधूः । उदयारूढयोश्चैव बलाबलवशाद्वदेत् ॥२५॥ फर्किनत्रपुरंध्रीषु नष्टद्रव्यं न सिध्यति । तुलावृषभ कुभेषु नष्टद्रव्यन्तु सिध्यति ॥ २६ ॥ जीवं विना सर्वखगे सप्तमस्थे न सिध्यति । पश्यन्ति ये ग्रहाश्चन्द्र चौरास्तद्वत्स्वरूपिणः ||२७|| द्रव्याणि च तथैव स्युरिति ज्ञात्वा वदेत्सुधीः । स्यामारूपो याति तस्यां दिशि गतं वदेत् ॥ २८ ॥ तत्तद्ग्रहांशुसंख्याभिस्तत्तत्संख्यादिनाडिकाः । भावाधिवशादेव अन्यदृष्टिवशाद्वदेत् ॥२६॥ चन्द्रस्थानादुदयभं यावत्तावद्दिनं भवेत् । चरस्थिरोभयवशादेकद्वित्रिगुणान् वदेत् ||३०||
इति नष्टकाण्ड:
**----
अथ लाभालाभकाण्डः ।
सुवस्तुलाभं रम्यञ्च राष्ट्र ग्रामं स्त्रिया यतिः । उपायनं स्वकार्याणि लाभालाभान् वदेत्सुधीः ॥१॥ उदद्यादिविकान् खेदाः पश्यन्त्युच्चेश्वरा यदि । चिन्तितार्थागमचैव स्त्रीलाभो राज्यसिद्धयः ||२| तानीचद्विपदः खेटाः पश्यन्ति यदि नाशयेत् । एवं विवाहकार्याणां शुभाशुभनिरूपणम् ॥३॥ उदद्यारुढ छत्राणि पश्यन्ति सुहृदो यदि । शत्रुर्मित्रत्वमायाति रिपुः पश्यति चेद्रिपुम् ||४|| उदयं चन्द्रलग्नं चेद्रिपुः पश्यति वा युतः । आयुर्हानी रिवुस्थानं गतश्च बंधनं भवेत् ॥५॥ गतो नायाति नष्टं चेद्र हिरेव गतिं वदेत् । बलवचन्द्रजीवाभ्यां केन्द्रषु सहितेषु च ॥ ६॥
Aho! Shrutgyanam