________________
ज्ञान-प्रदीपिका। प्रहस्थितिवलेनैव सर्व ब्रूयात् शुभाशुभम् । चरोभयस्थिराः सौम्याः सर्वकामार्थसाधकाः ॥६॥ आरूढछनलग्नेषु फरेष्वस्तं गतेषु च । परेणापहृतं ब्रूयात् तसिध्यति शुभेषु च ॥१०॥ पञ्चमो नवमस्तेन नष्टलाभः शुभोदये । येषु पापेन नष्टाविरुदयादिति केषु च ॥११॥ भ्रातृस्थानयुते पापे पञ्चमै वाऽशुभस्थिते । नष्टद्रव्याणि केनापि दीयन्ते स्वयमेव च ॥१२॥ प्रश्नकाले शकचापे धूमेन परिवेष्टिते । दृष्टनष्ट न भवति तत्तदाशालु तिष्ठति ॥१३॥ पृष्ठोदये शशांकस्थे नष्ट द्रव्यं न गच्छति । तदाशिः शनिश्चेन्नष्ट व्याग्नि कुजेऽग्निना ॥१४॥ बृहस्पत्युदये स्वर्ण नष्टं नास्ति विनिर्दिशेत् । शुक्र चतुर्थके रौप्य नष्ट' नास्ति वदेधुवम् ॥१५॥ सप्तमस्थे शनो कन्जालौहं नष्ट न जायते ।। बुधोदये त्रपुर्नष्टं नास्ति चन्द्र चतुर्थके ॥१६॥ फांस नष्ट न भवति अंगना चैव सप्तमे । आरे भानौ दशमगे तात्र रीतिन नश्यति ॥१॥ दशमे पापसंयुक्त च नष्टं च चतुष्पदम् । चतुष्पादुये राही स्थिते नष्टाश्चतुष्पदाः ॥१८॥ वन्धनस्था भवेयुस्ते तद्वद्विपदराशयः । बहुपादुदये राहो बहुपान्नष्टमादिशेत् ॥१६॥ पक्षिराशौ तथा नष्टे एतेषां बन्धमादिशेत् । कर्कवृश्चिकयोलग्ने नष्ट सद्मनि कीर्तयेत् ॥२०॥ मृगमीनोदये नष्ट कपोतान्तरयोर्वदेत् । कलशे भूमिजे सौम्ये घटे रक्तघटे गुरौ ॥२१॥ शुक्र व करके भग्नघटे भास्करनन्दने । पारनालघटे भानौ चन्द्र लवणभाण्डक ॥२२॥ नष्टद्रव्याश्रितस्थानं सद्मनीति विनिर्दिशेत् । पुराशौ पुंग्रहैप्टे पुरुषस्तस्करो भवेत् ॥२३॥
Aho ! Shrutgyanam