________________
शान-प्रदीपिका। धात्वृक्षस्थे मूलखेटे जीवमाहुर्विपश्चितः । जीवराशौ धातुखगे दृष्टे वा जीवमूलका ॥२॥ मूलराशौ जीवखगे धातुचिन्ता प्रकीर्तिता। त्रिवर्गखेटकैटे युक्त बलवशाद्वदेत् ॥३॥ पभ्यन्ति चन्द्र चेदन्ये वदेत्तत्तद्ग्रहाकृातम् । धातुमूलञ्च जीवञ्च वंशं वर्ण स्मृति वदेत् ॥४॥ उदयारूढयोश्छत्रे ग्रहयोगेक्षणे तथा। ज्ञात्वा नष्टञ्च मुष्टिश्च चिन्तनां क्रमशो वदेत् ॥५॥ कण्टकादिचतुष्केषु स्वोच्चमित्रग्रहैर्युते । दृष्टे वा सर्वकार्याणां सिद्धि व याच चिन्तनम् ॥६॥ उदये धातुचिन्तास्यादारूढे मूलचिन्तनम् । छो तु जीवचिन्ता स्यादिति कैश्चिदुदाहृतम् ॥७॥ केन्द्र फणपरं प्रोक्तमापो क्लीवं कमात्रयम् । चिन्ता तु मुष्टिनष्टानि कथयेत् कार्यसिद्धये ॥८॥
इति धातुकाण्डः
अथारूढकाण्डः
उदयारूढगे चन्द्र न नष्टा शाश्वती स्थितिः । श्रारूढादशमे वृद्धिश्चतुर्थे पूर्ववद्वदेत् ॥१॥ नष्टद्रव्यस्य लोभः स्याद्रोगहानिश्च सप्तमे । उदयाद्वादशे षष्ठे अष्टमारूढगे सति ॥२॥ चिन्तितार्थो न भवति धनहानिर्विषं फलम् । तनुं कुटुम्बं सहज मातरं तनयं रिपुम् ॥३॥ कलत्रनिधनञ्चैव गुरुकर्मफलं व्ययम् । उदयादिक्रमाद्भावस्तस्य तस्य फलं वदेत् ॥४॥ रवीन्दुशुक्रजीवशा नृराशिषु यदि स्थिताः । महँचिन्ता ततः शौरिदृष्टे नष्टं भवेत्तथा ॥५॥ कुजस्य कलहः शौरेस्तस्कर गलितं भवेत्
Aho ! Shrutgyanam