________________
शान-प्रदीपिका। हरिस्थे भूमिजे ज्याघ्र रवीन्द्वोस्तत्र केशरी ॥५॥ शुक्र श्वा वासरः सौम्ये त्वन्ये स्वाकृतयो मृगाः । तुलागते भृगोर्वत्सश्चन्द्र गौः परिकीर्तिता ॥६॥ धनुः स्थितेषु जोवेन्दुकुजेषु तुरगो भवेत् । मन्दादित्यस्थितौ तत्र मतङ्गज उदाहृतः ॥७॥ सर्पस्थे तत्र महिषो वानरो बुधशुक्रयोः।। शुक्रामृतांशुसौम्येषु स्थितेषु पशुरुच्यते ॥८॥ जीवार्किभुजगे गर्भ वन्ध्या स्त्री च शनीक्षिते। अंगारकेक्षिते शुक्रस्तत्र ज्ञात्वा वदेत् सुधीः ॥६॥ . इति मृगादिजीवकाण्डः
अथ चिन्तनकाण्डः
वक्ष्येऽहं चिन्तनां सूक्ष्मां जनैस्तु परिचिन्तिताम् । धिषणे कुंभराशिस्थे त्रिकोणे वाथ पश्यति ॥१॥ मृगराजे स्थिते सौम्ये धनुषि वीक्षिते शुभे । स्मृतो गजस्ततो मीनधनुषि वीक्षिते शुभैः ॥२॥ स्मृतः कपिर्मेषगते भानो ब्रूयान्मतङ्गाजम् । फुजे मेषगते छागं बुधे नर्तकगायकान् ॥३॥ गुरुशुक्रदिनेशेषु वणिज वस्त्रजीविनम् । चन्द्र तथा वदेन्मन्दे सिंहस्थे रिपुचिन्तनम् ॥४॥ वृषस्थे महिषी तौले चक्रिणं वृश्चिके गदम् । मेषगे सूर्यतनये मृत्युः क्ले शादयस्तथा ॥५॥ मित्रादिपञ्चवर्गञ्च ज्ञात्वा ब्रूयात्पुरोक्तितः ।
इति चिन्तनकाण्डः
अथ धातुकाण्डः धातुराशौ धातुखगे दृष्टे तच्छत्रसंयुते । धातुचिन्ता भवेत्तद्वत् मूलजीवौ तथा भवेत् ॥१॥
Aho ! Shrutgyanam