________________
शान-प्रदीपिका।
रविदृष्टऽथवा युक्त चिन्तना देवभूपतेः ॥६॥ शुभचिन्ता गुरौ शेया विवाहो गुरुशुक्रयोः ।
इत्यारूढकाण्डः
अथ छत्रकाण्डः द्वितीये द्वादशे छत्रे सर्वकार्य विनश्यति । गुरौ पश्यति युक्त वा तत्र कार्य शुभं वदेत् ॥१॥ तृतीयैकादशे छत्रे सर्वकार्य शुभं भवेत् । तस्मिन्पापयुते दृष्ट विनाशो भवति ध्रु बम् ॥२॥ तस्मिन् सौम्ययुते दृष्टे सर्वकार्य शुभं वदेत् । मिश्रे मिश्रफलं ब्रूयात् शास्त्र ज्ञानप्रदीपके ॥३॥ पञ्चमे नवमे छः सर्वसिद्धिर्भविष्यति । तद्वच्छभाशुभे दृष्टे मिश्रे मिश्रफलं वदेत् ॥४॥ द्वितीये चाष्टमे षष्ठे द्वादशे छत्रसंयुते । नष्टद्रव्यागमो नास्ति न व्याधिशमनं भवेत् ॥५॥ न कार्यसिद्धिनद्वषशांतिग्रहवशाद्वदेत् ।
इति छत्रकाण्डः
-0:*:0--
अथ उदयारूढकाण्डः बृहस्पत्युदये श्रेयो धनं विजयमागमः । द्वेषशांतिः सर्वकार्यसिद्धिरेव न संशयः ॥१॥ सौम्यौदये रणोद्योगी जित्वा तद्धनमाहरेत् । पुनरेष्यति सिद्धिः स्यात् छत्रसंदर्शने तथा ॥२॥ व्यवहारस्य विजयं छत्र प्येवमुदाहृतम् । चन्द्रोदयेऽर्थलाभश्चेत् प्रयाणे गमनं भवेत् ॥३॥ चिंतितार्थस्य सिद्धिःस्याच्छनारूढस्थितेऽपि च । शुक्रोदयेऽर्थलाभः स्यात् स्त्रीलाभो ब्याधिमोचनम् ॥
Aho ! Shrutgyanam