________________
ज्ञान-प्रदीपिका।
मिश्रे मिश्रफलं ब्रूयात् ग्रहाणाञ्च बलं क्रमात् । शिला भानोर्बुधस्याहुः मृत्पात्र तूषरं विधोः ॥७०|| सितस्य मुक्तास्फटिक प्रवालं भूसुतस्य च । अयस भानुपुत्रस्य मन्त्रिणः स्यान्मनःशिला ॥७॥ नील शनेश्च वैडूर्य भृगोर्मरकतं विदुः । सूर्यकान्तो दिनेशस्य चन्द्रकान्तो निशापतेः ॥७२॥ तत्तद्ग्रहवशाद्वर्ण तत्तद्राशिवशादपि । बलाबलविभागेन मिश्रे मिश्रफल वदेत् ॥७३॥ नृराशौ नृखगैर्दष्टे युक्त वा मर्त्यभूषणम् । तत्तद्राशिवशादन्ये तत्तद्र, पं विनिर्दिशेत् ॥४॥
इति धातुचिन्ता
अथ मूलकाण्डः
मूलचिन्ताविधौ मूलान्युच्यन्ते मूलशास्त्रतः । क्षुद्रसस्यानि भौमस्य सस्यानि बुधशुक्रयोः ॥१॥ कक्षाणि शस्य भानोश्च वृक्षश्चन्द्रस्य वल्लरी । गुरोरितु गोश्चिञ्चा भूरुहाः परिकीर्तिताः ॥२॥ शनिधूमोरगाणाश्च तिक्तकण्टकभूरुहाः । अजालिक्षुद्रसस्यानि वृषकर्कितुलालता ॥३॥ कन्यकामिथुने वृक्षाः कण्टक्रदुर्थ टे मृगे । इतुर्मानक्रमाच्चैव केचिदाहुर्मनीषिणः ॥४॥ अकण्टकद्रुमाः सौम्याः ऋराः कण्टकभूरुहाः। युग्मकण्टकमादित्यो भूमिजो ह्रस्वकण्टकः ॥५॥ वक्राश्च कण्टकाः प्रोक्ताः शनैश्चरभुजंगयोः । पापग्रहाणां क्षेत्राणि तथाकण्टकिनो द्रुमाः ॥६॥ शिष्टकक्षाणि सौम्यस्य भृगोनिष्कण्टकद्रुमाः । कदली चौषधीशस्य गिरिवृक्षा विवस्वतः ॥७॥ बृहत्पत्त्रयुता वृत्तो नारिकेलादयो गुरोः । तालाशन श्च राहोश्च सारासारौ तरू वदेत् ॥६॥
Aho ! Shrutgyanam