________________
ज्ञान-प्रदीपिका। सारहीनाः शनीन्द्वर्का अन्तस्सारौ कधीज्यको । बहिस्साराः स्वराशिस्थशनिशकुजपन्नगाः ॥६॥ अन्तस्साराः स्वराशिस्था बहिस्सारास्तदन्यके ।
इति मूलकाण्डः
अथ मूलधातुकाण्डः
त्वक्कन्दपुष्पछदनफलपक्कफलानि च । मूलं लता च सूर्याद्याः स्वस्वक्षेत्रषु ते तथा ॥१॥ मुद्गशस्याढकः श्वेतः भृगोश्च चणक' कुजः। तिलं शशांको निष्पावं रविर्जीवोऽरुणाढक ॥२॥ माषं शनिभुजंगौ च तथान्यत् धान्यमुच्यते । प्रियगुर्भूमिपुत्रस्य बुधस्य व्रीहयः स्मृताः ॥३॥ स्वस्वरूपानुरूपेण तेषां धान्यानि निर्दिशेत् । उन्नते भानुकुजयोवल्मीक बुधभोगिनौ ॥४॥ सलिले चन्द्रसितयोः गुरोः शैलतटे तथा । शनेः कृष्णशिला स्थाने मूलान्येतानि भूमिषु ॥५॥ वर्ण रसकुल रत्नमायस' चोक्तमूलिका । पत्रफलं पक्वफलं त्वङ्मूलं पूर्वभाषितम् ॥६॥ ग्रहोक्तमालिकां ज्ञात्वा कथयेदुदयादिभिः ।
इति मूलधातुकाण्डः
अथ पञ्चभूतकाण्डः चन्द्रो माता पितादित्यः सर्वेषां जगतामपि । गुरुशुक्रारमन्दज्ञाः पञ्च भूतस्वरूपिणः ॥१॥ श्रोत्रत्वकचतूरसनाघ्राणाः पञ्चन्द्रियाण्यमी । शब्दस्पर्शी रूपरसौ गन्धश्च विषया अमी ॥२॥ शानं गुर्वादिपञ्चानां ग्रहाणां कथयेत् क्रमात् । गुरोः पञ्च भृगोश्वान्धिः ज्ञस्य द्विस्त्रिः कुजस्य च ॥३॥ एकं ज्ञानं शनेरुक्त शास्त्र ज्ञान-प्रदीपके ।
Aho ! Shrutgyanam