________________
शान-प्रदीपिका। सूर्यारजीवविच्छुक्रशनिचन्द्रभुजङ्गमाः ॥५४॥ प्रागादिदिक्षु क्रमशश्चरेयुर्यामसंख्यया । प्रागादीशादिशः स्वस्ववारेशाद्या भवन्ति हि ॥५५॥ प्रभाते प्रहरे चाद्य द्वितीयेऽग्न्यादिकोणतः । एवं याम्यतृतीये च क्रमेण परिकल्पयेत् ॥५६॥ भूतं भव्यं वर्तमानं वारेशाद्या भवन्ति च ।। रन्यग्निनिधिषट्केषु मुनिव्योमाम्बुभूषु च ॥५॥ वस्वायशरयुग्मेषु वारूढ़े चोदयात्क्रमात् । भूतञ्च वर्तमानञ्च भविष्यत्कर्कमादिशेत् ॥८॥ तदिने चन्द्रयुक्तर्दा यावद्भिरुदयादिकम् । तावद्भिर्वासरैः सिद्ध केचिदंशाधिपाद्विदुः ॥५६॥ सूर्यस्योदयमारभ्य साविघटिकाः क्रमात् । यलग्नं तत्र दृश्येत तल्लग्नेन फलं भवेत् ॥६०॥ प्रश्ननाडीविनिश्चित्य सार्द्ध द्विघटिकाः क्रमात् । वृषादिगणयेद्धीमान् यल्लग्नं तद्वशात्कलम् ॥६॥ प्रश्ने निश्चित्य घटिकाः सार्द्ध द्विघटिकाः क्रमात् । सार्द्ध द्विनाड़िपर्यन्तमर्कलग्न प्रचक्षते ॥६॥ तद्यथा काललग्न तु ज्ञात्वा पूर्वादिक न्यसेत् । तद्वशात्प्रष्टुरारूद ज्ञात्वा चारूढ़केश्वरान् ॥६३॥
आरूढाधिपतिर्यत्र प्रभाते नष्टनिर्गमः । मेषकर्कितुलानक्राश्चत्वारो धातुराशयः ॥४॥ कुभसिंहालिवृषभाः श्रूयन्ते मूलराशयः । धनुर्माननयुक्कन्या राशयो जीवस ज्ञकाः ॥६५॥ कुजेन्दुसौरिभुजगा धातवः परिकीर्तिताः । मूलं भृगुदिनाधीशौ जीवौ धिषणसौम्यजौ ॥६६॥ स्वक्षेत्नभानुरुञ्चन्द्रो धातुरन्यत्र पूर्ववत् । स्वक्षेत्रभानुजो मूलं स्वक्षेत्र धातुरिन्दुजः ॥६७॥ ताम्रो भौमत्रपुर्शश्च काञ्चन धिषणो भवेत् । रौप्यं शुक्रः शशी कांस्यः यस मन्दभोगिनौ ॥६॥ भौमार्कमन्दशुक्रास्तु स्वस्वलोहस्वभे स्थिताः। चन्द्रगुरवः स्वस्वलोहाः स्वक्षेत्रमित्रगाः ॥६॥
Aho ! Shrutgyanam