________________
फकिकारत्नमञ्जूषायाम्-- अनडादिकार्यस्याऽङ्गाधिकारीयत्वेनाऽङ्गस्येत्यधिकारेण तं प्रति सखिशब्दस्य विशेषणत्वात् 'येन विधिस्तदन्तस्ये ति तदन्तविधौ सखिशब्दान्तस्यानडित्यर्थे सुसखिशब्देऽप्यनकादि कार्यस्य सौलभ्यमेवेति भावः । नचैवं सखिशब्दस्यैवाऽनडादिकायं न स्यात्केवलस्य तस्य सखिशब्दान्तत्वाऽभावादिति बाच्यम् । केवले तस्मिन् व्यपदेशिवद्भावेन तत्तत्कायं. प्रवृत्ते रित्यलम् ॥
ननु 'शेषोऽध्यसखीतिसूत्रेऽसमर्थसमासादिदोषभिया प्रसज्यप्रतिषेधीयस्य नमोऽ ग्रहणेन पर्युदासस्य ग्रहणोत्तस्य च सदृशग्राहित्वेन सखिसादृश्यच समुदायस्य नास्तीत्यभिप्रायेणाऽऽचष्टे-समुदायस्य सखिरूपत्वाभावादित्यादि । एतस्या इत्थमाशयं वर्णयति नागेशः, तथा हि असखीत्यस्य सखिभिन्नावयवयोरिदुतोधित्वमिति वर्णसंज्ञापक्षेऽर्थः, सखिभिन्नावयवौ याविकारोकारौ तदन्तयोपित्वमिति तदन्तसंज्ञापले चार्थः, । तथा च समुदायस्य सुपखीत्यस्य सखिभिन्नत्वात्सलभैव घिसंज्ञा । भाष्यकृन्मते तु प्रकृते घिसंज्ञा नैव लभ्यते सखिशब्दस्य तदवयवे लक्षणया सख्यवयवभिन्नयोरिदुतोस्त. योर्वा धित्वमित्यर्थे सुसखिघटकेकारस्य सख्यवयवत्वेन तद्भिन्नत्वाभावात्सुत्राऽप्रवृत्ते रिति दिक् ।।
ननु परमश्चासौ सखा चेति विग्रहे पूजार्थस्याऽगम्यमानत्वेन न पूजनादिति निषेधाऽ प्रवृत्या 'राजाहः सखिभ्या इति टच दुरि इत्याशङ्कय समाधत्ते-परमः सखा यस्ये. ति विग्रह इति । तत्पुरुषे टचः प्रवृत्तिरयन्तु बहुव्रीहिरिति नोक्कापत्तिलेश इति भावः ॥
ननु परमः सखा यस्येति बहुब्रीही प्राचीनमतसिद्धस्येतरपदार्थनिष्ठविशेष्यतानिरुपित. प्रकारताप्रयोजकत्वरूपगौणत्वस्य सत्त्वात् (१)(गौणमुख्य) न्यायप्रवृन्या कथमनहादि कार्यप्रवृत्तिरिति सन्देहस्य प्रादुर्भावे ताम्बरयति-गौणत्वेऽपीति । यथा गौणेऽपि परमा ऽस्थ्यादिशब्दे भवत्यनकादिस्तद्वदिहापीति भावः । न च शंकादलीयोक्तन्यायस्य बाधक. रूपस्य सस्वादनकादिकार्यन्न स्यादिति वाच्यम् । प्रकृते वक्ष्यमाणगौणत्वाभावादुक्तन्या. याप्रवृत्तः । अप्रसिद्धत्व-गौणलाक्षणिकत्वोभयविधस्यैव गौणत्वस्याभ्युपगमात् । किञ्चोक्त. न्यायस्य पदकार्यविषयकत्वेन स्त्रीत्वानिमित्तकत्वे सति सुविभक्स्यनिमित्तकत्वरूपपदकार्य. त्वाभावात्तदप्रवृत्तेश्च । प्राचीनोक्तं लक्षणं तूपसर्जनस्य न तु गौणत्वस्येति न ताशगौण. त्वस्येह ग्रहणमित्यलम् ॥
ननु 'सख्यशिस्वीति भाषायामिति डीषन्तेऽपि सखीशब्दे (२)(लिङ्गविशिष्ट) परि. भाषया सखिशब्दकार्य्यस्याऽनडादेरापत्तेरित्यत आह-अनिस्यत्वादिति । अनित्यत्वे प्रमाणञ्च, (शक्तिलाङ्गलाकुशतोमरयष्टिघटघटी ग्रहणेब्धि)ति वार्तिके घटशब्दात्पृथक् घटीग्रहणमेवेति ।
(१) *गौण-मुख्येति गौण-मुख्ययोर्मुख्य कार्यसंप्रत्यय इति तत्स्वरूपम् । गौणमुख्य. योरथयोर्मध्ये मुख्य एवाथै कार्यसंप्रत्ययः, मुख्यार्थबोधक 'एव शब्दे कार्यप्रवृत्तिरित्यर्थः । अर्थवद्ग्रहणपरिभाषाया विशिष्टरूपोपादान एवं प्रवृत्या तदङ्गत्वेनास्या अपि तत्रैव प्रवृत्ति रचितेत्येवं बीजम् ।
(२) लिङ्गविशिष्टेति प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति परिभाषा स्वरूपम् ।
Aho ! Shrutgyanam