________________
अजन्तपुल्लिङ्गप्रकरणम् ।
५३.
इत्यर्थेनैव सकलेष्टसिद्धिः, न च तदभावे लिटू घुगित्यादौ स्लोपानापत्तिरिति वाच्यम् । तत्र 'संयोगान्तस्य लोप' इत्यनेनैव तदुपपत्तेः एवञ्च व्यर्थमेव तद्ग्रहणमित्याशयेनाऽऽशते प्रथमहलू किमिति । समाधत्ते - राजेति । अयम्भावः, अत्र संयोगान्तलोपस्यासिद्धत्वेन नलोपानापत्ताबुक्तरूपाऽसिद्धिरिति तद्ग्रहणमावश्यकं तस्मिन् सति प्रकृतसूत्रेण सुलोपेऽस्य नलोपदृष्ट्याऽसिद्धत्वाऽभावेन नलोपे रूपसिद्धिरिति । न च 'न डिसम्बुद्धयोरिति सूत्रस्थसम्बुद्धिग्रहणेन नलोपे कर्त्तव्ये संयोगान्तलोपस्यासिद्धत्वाभावज्ञापनान्न दोषः, अन्यथा सम्बुद्धौ हेराजन्नित्यत्राप्युक्तलोपस्यासिद्धत्वेन नलोपाऽप्राप्त्या तदर्थं कृतस्य सम्बुद्धिग्रहणस्य स्पष्टमेव वैयर्थ्यमिति वाच्यम् । क्लीवे हे ब्रह्मन्नित्यत्र 'स्वमोर्नपुंसकादिति सोलु कि तद्दृष्ट्या नलोपस्य सिद्धत्वेन प्राप्तनलोपव्यावृत्त्यर्थं सम्बुद्धिग्रहणस्याऽऽवश्यकत्वेन सार्थक्यात् । न च ( सम्बुद्धौ नपुंसकानां नलोपो वा वाच्यः ) इति . इतिवार्तिकेनैवोक्तप्रयोगसिद्धौ सम्बुद्धिग्रहणस्य युक्तमेव ज्ञापकत्वमिति वाच्यम् । तथा सति गोमानित्यत्रापि नलोपापत्तेः । न च ज्ञापकसाजात्यादुक्तज्ञापनस्य सम्बुद्धिविषयक - त्वाभ्युपगमेन नियमानाऽऽक्रान्तत्वात्संयोगान्तलोपस्यासिद्धत्वाऽभावाऽभावेन नोक्तदोपस्य सम्भव इति वाच्यम् । लक्ष्याऽनुरोधेन सामान्याऽपेक्षस्य ज्ञापनस्य सम्भवे विशेषापेक्षस्य तस्य त्याज्यत्वात् । एवञ्च सामान्याऽपेक्षनियमेन न राजेत्यत्र नलोपाऽनुपपत्तिः । न चैवं गोमानित्यत्रापि नलोपो दुर्बार एवेति वाच्यम् । ज्ञापकसाजात्येन यत्र नकारविभक्त्योरानन्तय्यं तद्विषयकोऽयन्नियम इत्यभ्युपगमेन प्रकृते तकाव्यवधानान्नकारविभक्त्योंवानन्तर्य्याऽभावेनाऽद्दोषात् । एवञ्च पुनर्व्यर्थमेव हल्ग्रहणमिति चेदुच्यते, तदभावेऽभिनोत्रेत्यन्न संयोगान्तलोपस्यासिद्धत्वेन 'सिपि दश्चेति रुत्वानापत्तिः, सति तु तस्मिन्ननेन लोपेऽस्य रुत्वदृष्ट्या सिद्धत्वान्न तदनुपपत्तिः । न च रोरुत्वे कर्त्तव्ये न संयोगान्तलोपो ऽसिद्ध इत्यर्थकेन ( संयोगान्तलोपोऽसिद्ध इत्यर्थकेन ( संयोगान्तलोपो रोरुत्वे ) इति वार्त्तिकेनैवाऽभिनोऽत्रेत्यत्र संयोगान्तलोपस्यासिद्धत्वाभावेन दोषाऽभावादव्यर्थन्तदिति वाच्यम् । अविभर्भवान्, अजागर्भवानित्यत्र नलोपानुपपत्तिवारणाय तदावश्यकत्वात् । तस्मादावश्यकं हल्ग्रहणम् । तदुक्तम्
संयोगान्तस्य लोपे हि नलोपाssदिर्न सिद्ध्यति । रातु तेनैव लोपः स्याद्धलस्तस्माद्विधीयते ॥
इति । न च रात्सस्येति सूत्रे तकारस्याऽपि प्रश्लेषेण तत्र लोपोपपत्ताव किञ्चित्कर. मेव तद्ग्रहणमिति वाच्यम् ! प्रश्लषे प्रमाणाऽभावेन तदुपपत्त्यर्थं तस्य साफल्यात् । प्रश्लेपाऽभ्युपगमे अववर्त्तदित्यत्र तलोपापत्तेश्चेति दिक् ।।
ननु शोभनः सखेति विग्रहे 'राजाहः सखिभ्य' इति रचि सख इत्येवं रूपस्य लक्षणसम्मतत्वे सुसखेति रूपोल्लेखस्य कथं संगतिरिति चेन्मैवम् । 'न पूजनादिति निषेमेन चोsप्रवृत्तेरित्यत आहह - शोभनः सखा सुसखेति । एवमतिशयितः सखाऽतिसखेत्यत्रापि टवोऽप्रवृत्तिरिति बोध्यम् ॥
ननु 'असा' वित्यादौ सखिशब्दस्य ग्रहणात्तस्यैवाऽनङादिकाय्यं स्यान्न तु उस खिशब्दस्य तत्र तस्याऽग्रहणादित्याशङ्कय समाधत्ते श्राङ्गत्वात्तदन्तस्याऽप्यनङिति ।
Aho! Shrutgyanam