________________
फक्किकारस्नमञ्जूषायाम्योगसिद्धौ सामान्यसूत्रस्य वैयर्सेनाऽपवादत्वाबाधे तद्वैयर्थ्यस्य स्पष्टत्वात् इत्योश. येनाह -एकसंशाधिकारास्सिद्दे शेषग्रहणं स्पष्टार्थमिति । अधिकारश्च 'कडाराः कर्मधारयः' इत्येतदवधिक एतत्पर्यन्तमेवाधिकारस्य बुद्धिविषयत्वात् । नचैवं पुरुष-पर. स्मैपदसंज्ञयोरेकन समावेशानापत्तिरनापत्तिश्च गुरु-नदीसंज्ञयोर्लघु-घिसंज्ञयोश्चैकत्र समावे. शस्येति वाच्यम् । पूर्वत्र ‘णलुत्तमो वेति ज्ञापकादेव तदुपपत्तेः । परत्र वर्णस्य लघु-गुरु. संज्ञे तदन्तस्य च घि-नदी संज्ञे इति भिन्नाऽवधिकत्वेन समावेशादित्यलम् ॥
हस्वौ किम् । वातप्रम्ये । हस्वग्रहणाकरणे यू इत्यनुवृत्तौ दीर्घयोरेव घित्वविधा नाद्धस्वयोरप्राप्त्या मूलोक्तप्रत्युदाहरणासङ्गतिः । न च 'शेषो ध्यसखी' त्यत्राऽसखीति प.
युंदासकरणात् 'पतिः समास एवे' त्यस्यारम्भसामर्थ्याच्च हस्वयोरेव वित्वं न दीर्घयोरिति न दोष इति वाच्यम् । इच्छाक्यजन्तात्सखीयतेः क्विपि निष्पन्ने सखीः, पतीरित्यत्र घि. स्वाभावाय तयोश्चारितार्थ्यात् । न च 'अच्चघेः' इत्याद्यारम्भसामर्थ्याधस्वयोरेव तत्स्यादिति वाच्यम् । अनेककष्टकल्पनाऽपेक्षया हस्वग्रहणकरणस्यैव लघीयस्त्वादिति भावः ।।
ननु 'डिति ह्रस्वश्चे' त्यतोऽनुवृत्तेन हस्वग्रहणेनैव समीहितरूपोपपत्तौ प्रकृतसूत्रे यूग्र हणमनावश्यकमेवेत्यत आह-यू किम् । मात्र इति । अयम्भावः, यूग्रहणाभावे उक्तप्र. योगे वित्वेन गुणापत्त्या नेष्टरूपसिद्धिरिति तत्र घित्वाभावार्थमावश्यक तत् । न च 'ऋतो. डी' त्यारम्भसामर्थ्यादृदन्तेभ्यो गुणश्चेन्डावेवेति नियमाश्रयणात्प्रकृते दोषाभावेन परि. च्छेतृवाचिमातृशब्दस्य तृतीयैकवचने वित्वे नात्वाऽऽपच्या मात्रेत्येव प्रत्युदाहरणं युक्त मिति वाच्यम् । उक्तगुणविधायकशास्त्रस्य यूग्रहणाऽनुवृत्तावेव तात्पर्य्यग्राहकत्वादित्यलमतिविस्तरेण ॥
दीर्घात्किम् । निष्कौशाम्बिः । अतिखट्व इति । अस्यायम्भावः, कौशाम्व्या निष्क्रान्तः, खट्वामतिक्रान्त इति विग्रहे पूर्वन (निरादयः क्रान्ताद्यर्थे पञ्चम्या ) इत्य. नेन, परत्र च ( अत्यादयः क्रान्ताद्यर्थे द्वितीयया) इत्यनेन समासे 'गोस्त्रियोरिति ह. स्वे उक्तप्रयोगद्वयसिद्धिः । अत्र दीर्घादित्यस्याग्रहणे स्थानिवत्त्वेन ड्यन्तत्वात्ततः परस्य सोर्लोपापत्तिः । न च समस्तस्य ड्यावन्तत्वाभावेन न तत्र दोषः । न च स्वीप्रत्यये न तदादिनियम इति वाच्यम् । अनुपसर्जने तदभावेऽप्युपसर्जने तत्सत्वे बाधकाभावात् । अन्यथाऽतिकारीषगन्ध्यापुत्र इत्यत्र व्यङन्तपूर्वपदलक्षणसंप्रसरणापत्तेर्दुरित्वादिति वाच्यम् । उत्तरपदस्य याबन्तत्वेन सोस्ततः परत्वेन दीर्घग्रहणाऽभावे मुलोपस्य दर्निवा. रत्वात् । न च ध्याग्रहणस्य विहितविशेषणत्वाभ्युपगमे न तत्रोक्तापत्तिले शोऽपीति वा. च्यम् । तस्य विहितविशेषणत्वानङ्गीकारेण दोषस्य तादस्थ्यात् । न च ड्याबग्रहणस्य परविशेषणत्वे आत्मनो गङ्गामिच्छति तङ्गीयति ततः विपि, अलोपे यलोषे च गङ्गीरित्य. त्रेकारे स्थानिवद्भावादावन्तत्वेन दीर्घत्वस्य स्वाश्रयत्वेन च मुलोपापत्तिः । न चाल्लो. पस्य स्थानिवत्वेन सोरापः परत्वाभावान्न दोष इति वाच्यम् ( को लुप्तं न स्थानिवदि ) ति स्थानित्वनिषेधादिति वाच्यम् । डी ई आ आबिति प्रश्लेषेण दीर्घग्रहणस्य प्रत्या. ख्यातत्वादिहाऽऽरूपस्याऽऽपोऽभावेनोक्तापत्तेरयोगादिति दिक ।
ननु 'हल्याविति सूत्रे पूर्वहल्ग्रहणाभावेऽपि दीर्घाभूतान्याबन्तात्परस्य सोर्लोप
Aho ! Shrutgyanam