________________
अजन्तपुल्लिङ्गप्रकरणम् । ननु विश्नपाशब्दस्य प्रथमा-द्वितीययोद्विवचने प्राप्तपूर्वसवर्णदीर्घस्य 'नादिची त्यनेननिषेधाजसि सत्यपि तस्मिन्नदोषाच्चेष्टरूपसिद्धौ ‘दीर्घाज्जसि चेति सूत्रं व्यर्थमित्याशङ्क्य समाधत्ते-यद्यप्यौलि नादिचीत्येव सिद्धिमिति । अयम्भावः, उक्तसूत्राभावे गौ. य्यौं गौर्य इत्यादौ नादिचीत्यस्य प्राप्त्या निषेधाभावात्पूर्वसवर्णत्वेऽनिष्टरूपापत्तिरिति त. निषेधार्थमावश्यकं दीर्घाजसि चेति सूत्रमिति । न च 'यस्याख्यौ नदी' 'स्वादिभ्यः इत्या. दिनिर्देशादिप्रत्याहाराऽच्प्रत्याहारयोरेव निरूडलक्षगाङ्गाकारादीर्घस्यान्त्वाभावेन गौर्यावित्यादौ पूर्वसवर्णदीर्घाऽप्रसक्त्या निषेधसूत्रं व्यर्थमेवेति वाच्यम् । एतनिषेवसामर्थ्यादेवेग
भिन्नप्रत्याहारेष्वप्युक्तलक्षणास्वीकारात् । अत एव, शसि गौरीरित्यादौ पूर्वसवर्णदीर्घसिद्धिः, अन्यथोक्तरीत्या न स्यात् । केचित्तु 'प्रथमयोः पूर्वसवर्णदीर्घ' इत्यस्याऽनन्तरं दीर्घाच्छस्येव पूर्वसवर्णदीर्घ इत्यर्थकदीर्घाच्छसीत्येव सूत्रकरणाच्चकाराकरणेन नेत्यस्याननुवर्तनेन च लाघवमित्माहुः । केचिच्च शसि सूर्वसवर्णदीर्घश्चेदी/देवेति बिपरीतनियमवारणाय नन्ये' 'कानानेडिते' इत्याद्यनुसन्धाने ज्ञानगौरवाद्यथोक्तन्यास एवं युक्तियुक्त इति वद. न्तीति दिक् ॥
ननु 'आतः' इत्येव सूत्रमस्तु लोपानुवृत्तावाकारान्तं यदंगं भं तस्य लोप इत्यर्थे वि. श्वप इत्यादिसिद्धौ धातोरिति व्यर्थमित्याशयेन शङ्कते-धातोः किमिति । समाधत्तेहाहानिति । अव्युत्पन्न मिदम् , हाहाहूहूश्चैवमाद्या इत्यमरोक्तः । अत्राऽऽकारलोपेनेष्टप्रयोगानापत्तिरिति तदर्थमावश्यक धातुग्रहणं तस्य सत्चे धातुत्वाभावान्न तत्राऽऽकारलोपः । नचाऽस्य हेति कष्टं जहातीति व्युत्पत्या क्रियाशब्दत्वाल्लोपस्येष्टत्वे प्रत्युदाहरणदानमयुक्त. मिति वाच्यम् । तथा सति सानित्यस्यैव प्रत्युदाहरणत्वात् । अकारो वासुदेवस्तेन सह वर्तन्त इति सास्तान् सानिति तदुपपत्तेरिति प्राञ्चः ।
नव्यास्तु-तवः श्नः' इत्यादिसौत्रप्रयोगोपपत्तये वार्तिककृतोपन्यस्तस्य ( आतो नापः ) इति वार्त्तिकस्य 'आतो धातोरि त्यत्राऽऽत इति योगविभागेनोक्तसौत्रप्रयोगोपपत्ति विधाय भगवता प्रत्याख्यानकरणादुक्तप्रत्युदाहरणप्रयोगस्याभिधाने तु लोपस्थेष्टापत्तिरेव । न चैवं व्यावाभाबेन सूत्रे धातुग्रहणमेव तदा व्यर्थमिति वाच्यम् । आबन्तनिवृत्त्यर्थं त. स्याऽऽवश्यकत्वेन सार्थक्यात् । नचाऽऽकारान्तेभ्य आचारविपि तदन्तात्कर्तृविपि तत्र लो. पार्थमस्तु धातोर्ग्रहणमिति वाच्यम् । तादृशप्रयोगस्याऽनभिधानादित्यलम् ॥ ___ननु नित्यस्त्रीलिङ्गयोर्दीर्घदूदन्तयोः 'यूस्त्र्याख्यौ नदी' त्यनेन नदीत्वविधानं, दीपेंदू. दन्तयोः स्त्रीलिङ्गन्यो स्वेदुदन्तयोः डिति 'हस्वश्चे त्यनेन वैकल्पिकन्तद्विधानं प्रकृतेऽपि यू-हस्वपदयोरनुवर्तनात्सामान्यतस्तत्र घिसंज्ञाविधानादिष्टरूपोपपत्तौ शेषग्रहणं व्यर्थमित्य. भिप्रायेण शङ्कते-शेषः किमिति । उत्तरयति-मत्यै इति । अयमभिप्राय:-अत्र नदी संज्ञापक्षे घित्वात् 'आणनद्याः इत्याटि गुणाऽवादेशयोनेष्टरूपसिद्धिरिति समाधातुरभिप्रायः, वस्तुतस्तु पुल्लिंगे नपुंसके च सावकाशाया घिसंज्ञायाः परत्वादपवादत्वाच्च नदीसंज्ञया वाधेन तदप्राप्तौ शेषग्रहणं व्यर्थ, नच गवां पत्यै स्त्रिय इत्यादौ नदी संज्ञायास्सावकाशत्वादपबादत्वासम्भवेन घित्वस्य तया बाधानापत्तौ प्राप्तदोषव्यावृत्यर्थ शेषग्रहणमावश्यकमिति वा. च्यम् । नटेकमुदाहरणं योगारम्भं प्रयोजयतीति भाष्यात पतिः स्त्रियामित्यनेनैवोक्तप्र.
Aho! Shrutgyanam