________________
फक्किकारत्नमञ्जूषायाम्मासेन दोष्ण इत्यत्राकारलोपस्य स्थानिवद्भावेन व्यवधानान्नकारस्य षकाराऽव्यवहितोत्त. रत्वाभाबेन गत्वं न स्यादित्याशङ्कय समाधत्ते-इह पूर्वस्मादपीति । उक्तरीत्या स्थानिवत्त्वादकारव्यवधाने तु 'अटकुप्वाङ् नुमित्यनेन तत्र णत्वमिति बोध्यम् । किञ्च (१)प्रविगणय्येति भाष्योदाहरणसिद्धवे पञ्चमीसमासस्याऽनित्यत्वाभ्युपगमे तु 'रषा. भ्यामित्यनेनैव गत्वं मुलभमिति न कश्चिदोषः, तदनित्यत्वे च पूर्वोक्तमाष्योदाहरणमेव मानम् , अन्यथाऽल्लोपस्य स्थानिवत्वेनाऽकारख्यबधानालघुपूर्वकत्वाऽभावेन 'ल्यपि लघुपु.
दिति णेरयादेशो न स्यात्, अत एव हे गौरित्यत्र वृद्धेः स्थानिवत्वेन सम्बुद्धिलोपो नेत्यभिप्रायेणाह-इति पक्षे विति । अनित्यत्वसूचक एव तु शब्दः प्रयुक्त इति भावः।
पूर्वत्रासिद्धेनेति । अतिदेशशास्त्रदृष्टया त्रैपादिकशास्त्रस्यासिद्धत्वान्न्यायसिद्धोऽ. यम् । तत्फलन्तु वतिघटितानामतिदेशान्तराणां त्रिपाद्यामपि प्रवृत्तिरूपम् । तेषान्तत्र प्रवृत्तिस्वीकरादेव, अमी, क्षीरपेणेत्यादौ मीत्व-णत्वे भवतः, अन्यथाऽतिदेशदृष्टया मीत्वणत्वयोपादिकत्वेनाऽसिद्धत्वात्तौ न स्याताम् । अत्रैकारस्यादःशब्दसम्बन्धित्वं पे इत्यस्यै काजुत्तरपदत्ववान्तवद्भावाधीनमिति भावः ॥ ,
तस्य दोष इति । वाचनिकमेवेदन्नतु ज्ञापकसिद्धम् । न च 'न मुने' इति सूत्रे ने इति योगविभागेन ज्ञापितमस्तु तद्वाचनिककथनमयुक्तमिति वाच्यम् । भाष्ये योगवि. भागस्यादर्शनेन ज्ञापकसिद्धत्वस्यासम्भवात् । अत एव वार्तिककृता सिद्धकाण्डमारब्धं 'न लोपः सबिति सूत्रकृता कृतम् । अस्योदाहरणानि च, चक्रयत्र-निगाल्यते-माषवपनोत्या दीनि बोध्यानीति दिक् ।।।
ननु भाष्ये ककुच्च दोश्चेति द्वन्द्वे प्रातिपदिकत्वेन औ बिभक्तौ पद्दन्निाति सुत्रेण, आबित्यस्य शसादित्वाभावाददोषन्नादेशो न स्यादत आह-प्रभृतिग्रहणं प्रकारार्थः मिति । प्रकारो भेदशादृश्यं, तच्च, साधारणधर्मसम्बन्धप्रयोज्यं, साधारणधर्मत्त्वञ्चोप. मानोपमेयोभयवृत्ति, उपमानत्वञ्च साधारणधर्मवत्वेनेषदितरपरिच्छेदकत्वम् , उपमेयत्वम. प्येवमेव, तथा च, साधारणधर्मस्य सुप्त्वस्य स्वादौ शसादौ च वृत्तित्वात्तेनैव सादृश्यग्रहणन्न तु शब्दत्वेनेति बोध्यम् । मुप्त्वेन सादृश्यग्रहणे ककुदोषणीति भाष्यप्रयोग एक मानम् , तथा हि, शस्प्रभृतिष्वित्युच्यतेऽशस्प्रभृतिष्वपि दृश्यते ककुद्दोषणी याचते महा देव इत्युक्तम्भाष्ये, तेन सुप्त्वेनैव सादृश्यग्रहणे भाष्यकृत्तात्पर्य्यम् । अत एव 'हृदयस्य हल्लेषयदण्लासेषु' 'वा शोकष्यप्रोगेष्विाति सूत्रद्वयं सङ्गच्छते, अन्यथा, शब्दत्वेन सादृश्यग्रहणेनैव हल्लेखः, हृच्छोक इत्याद्युपपत्ताबुक्तसूत्रद्वयस्य वैयथ्यं स्यात् । न च सुप्त्वेन सादृश्यग्रहणे स्वादावपि सर्वत्र पदाद्यादेशापत्तिरिति वाच्यम् । सुप्रभृतिष्वित्यस्य वक्तव्य. त्वे शशप्रभृतिष्वति कथनात्वचिदेवाऽन्यत्र तद्विधानात् । एवञ्चावित्यस्य स्वरूपेण शम. भिन्नत्वं सुप्त्वेन तत्सादृश्यञ्च, ततस्तस्मिन्परे दोषन्नादेशे ककुद्दोषणोति सिद्धम् । फलञ्च, पदाख्रिश्चरणोऽस्त्रियां स्वान्तं हुन्मानसं मन इत्यादौ । 'न लुमते त्यस्याऽनित्यत्वात्प्रत्यय. लक्षणेनाऽन्तर्वत्तिविभक्त्या सुप्परत्वेन पादशब्दस्य पदादेशो हृदयस्य हृद्भावश्च सूपपन्न इति दिक् ॥
(१) *प्रविगणय्येति । प्र-विपूर्वकागणयतेः त्को ल्यपि रूपम् ।
Aho! Shrutgyanam