________________
अजन्तपुल्लिङ्गप्रकरणम् ।
ङ्गाधिकारे तस्य च तदन्तस्य चेति । पदमङ्गञ्च विशेष्ये विशेषणेन च तदन्तविधिरित्येतत्सिद्धमिदम् । नन्वेवं निर्जरसमुदायस्यैवादेशापत्तिरित्यत आह (१) निर्दिश्यमान स्यादेशा भवन्तीति ॥
४९.
ननु सूत्रे जराशब्दोपादानान्निर्जरघटक जरशब्दस्य जराशब्दत्वाभावादादेशो न स्यादित्यत आह - एक देश विकृतमनन्यवदिति ॥
वृत्तिकृतेति । वृत्तिकृता - यत्केषाञ्चिन्मतमुक्तं निर्जरसिन् निर्जरसादिति तेषामयमाशयः, 'विप्रतिषेधे पर मिति सूत्रे परशब्द इष्टवाची, तत्कार्य्यञ्च पूर्वविप्रतिषेधेन विभक्त्यादेशः, भाष्यकृताऽस्यैव सिद्धान्तितत्वात्, तथा हि, 'जराया जरसन्यतरस्यामिति सूत्रे भाष्येऽजरांसीत्यत्र नुम् - जरसोः प्राप्तयोर्विप्रतिषेधेन जरमित्युक्तं तद्विभक्त्यादेशस्येष्टकाय्र्यत्वे सत्येव सङ्गच्छते, अन्यथा भवद्वीत्या शीभावात्प्रागेव जरसः प्रवृत्तौ तदानीं सर्वनामस्थानाभावान्नुमोऽप्राप्त्या तेन सह विप्रतिषेधविचारस्य भगवता कृतस्य स्पष्टैवासङ्गतिः स्यात् मन्नये तु जरसः प्राक् शीभावे जाते तस्य सर्वनामस्थानत्वेन नुमः प्रसक्तावनेन जरसो विप्रतिषेधविचारो भाष्यकृत्कृतः सङ्गत एव, एवञ्च प्रकृते विभक्त्यादेश - जरसादेशयोः प्राप्तौ पूर्व पूर्वविप्रतिषेधेन विभक्त्यादेशे कृते तत एसि कर्त्तव्ये ऐस्करणस्य, अदादेशे कर्त्तव्ये आत्करणस्य च (२)( सन्निपात ) परिभाषाऽनित्यत्वे विनिगमकत्वात्तदप्रवृत्तौ जरसि निर्जर सिन् निर्जरसादितिरूपं निर्बाधमेवेति, तन्मतानुयायिनोऽप्येवमेवाहुः, परमेतद्भाष्यविरुद्धम्, तथा हि, भाव्यकृता ' बहुबचने झल्येत' 'ओसि च' 'आडि च' 'आपः सम्बुद्धौ चे 'ति क्रमेण सुत्रपाठमङ्गीकृत्याssfs परे एत्वमित्यर्थेन रामेण, अकारोच्चारणसामर्थ्यात्पररूपस्य बाधे दीर्घेण रामादिति चोपपाद्याऽऽति दीर्वोच्चारणमिने इकारोच्चारणञ्च प्रत्याख्यातम् । उक्तरूपयेष्टत्वे तु अतिजरैरिति भवितव्यं सन्निपातपरिभाषयेति भाष्यात् प्रत्याख्यानपरभाष्याच्च विरोधः स्यात् । तदुक्तं फलैक्ये प्रत्याख्यानं सम्भवति न तु फलभेद इति, प्राग्विभक्त्या देशे इकारोच्चारणसचे निर्जरसिन् इदानीं निर्जरेण, एवमाति दीर्घोच्चारणसद्भावे निर्जरसात् अधुना निर्जरसदिति फलभेदात्प्रत्याख्यानासम्भवेन विरोधस्य स्पष्टत्वादुपेक्ष्यं तन्मतमिति भावः । नच नकारोच्चारणप्रत्याख्याने अनेनेत्यत्र हलि लोपापत्तिर्दुर्वारेति वाच्यम् । 'टौसोरनक' 'आपि लोप' इति सूत्रकरणेनोक्तापत्तेरभावात् । किञ्च, 'अनाव्यक' इति सूत्रे अ इति नपुंसकनिर्देशात नकारे आपि च परे अनादेश इत्यर्थे विशिष्य नकारेऽनादेशविधानसामर्थ्यादुक्तलोपस्य वाधादिति दिक् ॥
ननु ( ३ ) प्रत्यैषिपन्नित्यादौ पररूपस्य स्थानिवद्भावादकाव्यवधानद्वारा जुसभावायाssवश्यकेन 'अचः परस्मिन्नित्यत्र पूर्वविधावित्यस्याssवृच्या लब्धेन पञ्चमीस
(१) *निद्दिश्यमानस्येति । अत्र षष्ठीस्थाने योगेति सूत्रं प्रमाणम् । तथा हि, 'षष्ठीस्थाने योगेति सूत्रमावर्तते तत्र द्वितीयस्यायमर्थः, षष्ठीत्यस्य प्रत्ययग्रहणपरिभाषया षष्ठ्यन्तमित्यर्थः, निर्दिश्यमानमितिपदस्याध्याहारः, तथा च षष्ठयन्तं निर्दिश्यमानं स्थाननिरू. पितसम्बन्धेन युज्यते सूत्रे निर्दिश्यमानस्योच्चार्यमाणस्य षष्ठ्यन्तस्य कार्यासम्भवेन तत्सजातीयं गृह्यते, अतः सिद्धं निर्दिश्यमानस्येति ।
(२) सन्निपातेति । सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति परिभाषस्वरूपम् । (३) *प्रत्यैषिषन्निति । प्रतिपूर्वका दिषेर्ण्यन्ताल्लुङि प्रथमपुरुषवडुवचने रूपम् ।
५ फ०र०
Aho! Shrutgyanam