________________
फक्विकारत्नमञ्जूषायाम्विधानं व्यर्थ सज्ज्ञापयति-यथोत्तरं मुनीनामिति । ज्ञापिते च तस्मिन् , उक्तनिषेवसू. त्रस्य भाष्यकृता प्रत्याख्यातत्वेन गुणाभावार्थ तत्राऽकारविधानस्यावश्यकत्वेन स्वांशे चा. रितार्थ्य जातमिति दिक् ॥ ___ ननु सर्वनामसंज्ञाविधानमविशेषात्सर्वत्र स्यादत आह-(संज्ञोपसर्जनीभूतास्तु न सर्वादयः) संज्ञाभूता उपसर्जनीभृताश्च ये सन्ति ते सर्वनामसंज्ञका न भवन्तीत्यर्थः । यथा, कस्यचित्सर्व इति नाम तस्य चतुथ्येकवचने प्रकृतवार्तिकेन सर्वनामसंज्ञानिषेधात्स्मै. कार्य्यस्याभावेन सर्वाय देहीत्येव नतु सर्वस्मै, एवमुपसर्जनत्वे, यथा, समतिक्रान्तोऽतिसनस्तस्य चतुथ्येकवचने उक्तरीत्या स्मायादिकार्याभावादतिसर्वायेत्येवेत्यलम् ॥
उक्तवार्तिकप्रत्याख्यानप्रकारमाह-महासंज्ञाकरणेन तदनुगुणानामेव गणे सनिवेशादिति । अयम्भावः, (लध्वक्षरं हि सज्ञाकरणमि)ति भाष्येग टि-घु-भसंज्ञावत् स इति सर्व इति वाऽल्पाक्षरसंज्ञाकरणादेवेष्टसिद्धौ सर्वनामेति महासंज्ञाकरणसामर्थ्यादन्वर्थभियं संज्ञेति विज्ञायते सर्वोषां नाम सर्वनामेति, तथा च, स्वप्रवृत्तिनिमित्तसमानाधिकरणकृत्स्नधर्माश्रयवाचकत्वरूपसर्वार्थवाचकत्वविशिष्टानामेव गणे पाठातेषामेव सूत्रेऽनुकरणत्वावश्यकत्वेन संज्ञाविधानमितरेषां गणेऽपाठादनुकरणत्वासम्भवेन न तेषां संज्ञा विधानम् एवञ्च संज्ञोपसर्जनीभूतानां गणे पाठाभावादसर्वनामत्वेन स्मायादेः संज्ञाकार्यस्याऽडादेरन्त. गणकार्यस्य चाऽप्रसक्त्या तद्वयावृत्यर्थमुक्तवार्तिकं निष्प्रयोजनमेवेति दिक् ।।
ननु 'अकचस्वरौ तु कर्त्तव्यौ प्रत्यङ्गं मुक्तसंशयमिति भाष्योक्त्या प्रकरणविषयस्मरणादेतत्प्रकरणस्थसप्तमीनां प्रथमार्थकत्वं, तथा च, 'द्वन्द्वे चेत्यत्र प्रथमार्थे सप्तमी द्वन्द्वः सर्वनामसंज्ञको न भवतीति तदर्थः, तत्र द्वन्द्वशब्दस्य समुदाये शक्त्या समुदायस्यैव संज्ञा. निषेधो नाऽवयवस्य । नचास्यैव तन्निषेधोऽस्तु समुदायस्य मास्त्विति वाच्यम् । तथा सति वक्ष्यमाणदोषापत्तः । तथा हि अवयवमात्रस्य संज्ञानिषेधे तु सर्वार्थवाचकसर्वाद्यन्तत्वेन समुदायस्य संज्ञायां बाधकाभावात्तेन वर्णाश्रमेतराणामित्यत्र सुडापत्तिः, अवयवस्य निषेधेड पि सर्वार्थवाचकसर्वाधन्तत्वस्यानपायेन तत्प्राप्तः सुलभत्वात् । न च व्यपदेशिवदावादवयवस्य द्वन्द्वे विद्यमानत्वात्समुदायस्य च निषेधो भवत्विति वाच्यम् । सत्येवमवयत्रस्य निषेधे फलाभावात् । एवञ्च पूर्वोक्तप्रकार एवं युक्त इत्याशयेनाह-समुदायस्यैवायं निषेध इति ॥
ननु समुदायस्यैव संज्ञानिषेधस्योक्तत्वादवयवस्य तनिषेधाभावात्तस्य तत्त्वेन सर्वनामान्ताङ्गात्परस्यामः सुडित्यर्थे प्रकृते सुटो दुर्वास्त्वमित्यभिप्रायेणाशङ्कते-जचवं तदन्त. विधिना सुटप्रसङ्ग इति । सर्वनाम्नो विहितस्यामः सडिति तद्विधायकशास्त्रस्य व्याख्यानकरणेन प्रकृते आमः समुदायविहितत्वादवयवमात्रात्सर्वनाम्नोऽविहितत्वेन नोक्कापत्तिलेशोपीति भावः । नचाऽवयवस्य सर्वनामत्वादकजापसिर्दुरिति वाच्यम् अवयवमात्रेण कुत्सार्थाप्रतीतौ तदप्राप्तरिति दिक ।।
ननु जराशब्दस्य जरसादेशविधानेन मिर्जरशब्दस्य न स्यादित्यत आह-(१)पदा.
(१) पदाधिकारीयमङ्गाधिकारीयञ्च कार्य तस्य सूत्रोपाससजातीयस्य तदन्तस्य सूत्रो. पासजातीयान्तस्य च भवतीत्यर्थः।
Aho! Shrutgyanam