________________
अजन्तपुल्लिङ्गप्रकरणम् ।
वादस्तीति हरदत्त इति भावः ॥
ननु उभयशब्दाज्ञ्जसि उभय जसिति स्थितौ तयपुस्थानिकाऽयजादेशस्य स्थानिवत्वेन तस्य तयप्प्रत्ययान्तत्वात् 'प्रथमचरमेति विकल्प संज्ञा दुर्वारेत्यत आह-तस्मा जस्ययजादेशस्येति । अयम्भावः विकल्पसंज्ञाया विभक्तिसापेक्षत्वेन बहिरङ्गत्वम्, नित्यसंज्ञायास्तु तन्निरपेक्षत्वेनाऽन्तरङ्गत्वान्नित्यसंज्ञाया एव प्रवृत्तिरिति न दोषः । न च नित्यसंज्ञायाः सर्वार्थबोधकत्वरूपार्थस्य निमित्तत्वेन बहिरङ्गत्वमिति वाच्यम् तादृशार्थस्योभयत्रापि निमित्तत्वात् । अर्थकृतबहिरङ्गत्वस्यानाश्रयणाच्चेति प्राञ्चः । नव्यास्तु भाष्येऽयचः प्रत्ययान्तरत्वेन स्थानिवत्वं दुर्लभम् । किञ्च 'प्रथमचरमे' ति विकल्पविधायकशास्त्रस्य पक्षेऽभावबोधकत्वेन निषेधे तात्पर्य्यात् (१) (निषेधाश्च बलीयांसः ) इति परिभा या विकल्प संज्ञाया एव प्राप्तिः किञ्च युगपत्प्राप्त्यसम्भवात् (अन्तरङ्ग बलीयः ) इत्यस्य नेह विषयः, संज्ञानामन्योऽन्यं बाध्यबाधकभावो नास्तीति प्रातिपदिकसंज्ञा समकालमेव सर्वनामसंज्ञाप्रवृत्तिः । अत एव सर्वनाम्नो विहितत्वेन शीभावोपपत्तिः । किञ्चान्तरङ्गपरिभाषाऽपि समाधानमसमञ्जसम् । अन्तरङ्गे कृते बहिरङ्गासिद्धत्वबोधनस्याऽनया कर्तुमशक्यत्वात् । तस्मादत्रोक्तरीत्या यथोदेशपक्षायणस्यैवौचित्यादित्यादित्याहुरिति दिक् ॥
ननु 'न बहुव्रीहावि' ति सूत्रे बहुम्रीहावित्यत्र विषयसप्तमी तेन बहुव्रीहिविषये इत्यर्थस्तत्फलितमाह - बहुव्रीहौ चिकीर्षित इति । विषयसप्तम्याश्रयणे किम्फलमित्याहत्वकं पिता यस्येति । अयमाशयः, बहुवीहौ सर्वनामसंज्ञा नेत्यर्थस्वीकारे युष्मद् पितृ स्वित्यलौकिक विग्रहवाक्ये समासात्प्रागन्तरङ्गत्वादकचि समासे कृते सर्वनामसंज्ञा निषेधे कृतेऽपि जातस्याsकचो निवृत्तिर्न स्याद्यथाऽतिभवकानित्यत्र, तथा सति स्रुपो लुकि मपर्ण्यन्तस्य ‘प्रत्ययोत्तरपदयोश्चे 'ति त्वादेशे 'नघृतश्चेति समासात्कपि त्वकत्पितृक इत्यापद्येत, न चाऽकृतव्यूह परिभाषया समासोत्तरं सर्वनामसंज्ञानिषेधेन निमित्तविघातस्य जायमानत्वात्प्रागेवाकच् न स्यात्किञ्च जातस्यापि तस्याऽनया निवृत्तिस्यादिति वाच्यम् तस्य अनित्यत्वादसत्त्वाच्चोक्तापत्तेदुर्वास्त्वात् । विषयसप्तम्या उक्तार्थस्वीकारे तु युष्मद्
इत्यवस्थायामेव बहुब्रीहैश्विकीर्षितत्वात्सर्ग नामसंज्ञानिषेधेनाऽकचोऽप्रवृत्या कप्प्रत्यये युष्मत् पितृ स्विति स्थितौ समासादिकायें कृते त्वत्कपितृक इत्यादिसिद्धिः फलम् । भाष्यकारस्तु, अकच् स्वरौ तु कर्तव्यौ प्रत्यङ्गः मुक्तसंशयमित्युक्तस्त्वकल्पितृ कोमकपितृक इत्येव रूपे इष्टापत्ति कृत्वा प्रत्याचख्यावेतत्सूत्रम् । ननु सूत्रकार-भाष्यकारमतेन निषेध-विधिरूपत्वाद्विकल्पस्यैवौचित्येन प्रत्याख्यानमयुक्तमित्याशङक्य समाधते — यथो · न्तरं मुनीनां प्रामाण्यमिति । सूत्रकारापेक्षया वार्तिककारस्यैतदपेक्षया भाष्यकारस्य प्रामाण्यम् एवञ्च प्रकृते भाष्यकारोक्तप्रकार एव ज्यायानिति बोध्यम् । अत्र प्रमाणञ्च, 'धिन्विकृण्व्योर चे 'ति सूत्रेऽकारविधानमेव, तथा हि तत्र लोपस्यानुवृत्तौ वलोपविधाने नैव 'न धातुलोप आद्ध 'धातुके' इत्यनेन निषेधात् गुणाभावेन धिनोतीत्यादिसिद्धावकार
४७
( १ ) निषेधाश्च वलीयांस इति । अन्तरङ्गादुपजीव्यादपि बलवन्त इत्यर्थः । विध्युन्मूलनाय प्रबृतिरस्या वीजम् । एतत्परिभाषासत्वादेव द्वन्द्वे च विभाषा जसीलि चरितार्थम् ।
Aho! Shrutgyanam