________________
फक्किकारत्नमञ्जूषायाम्-- ऽकचः प्रकृतित्वं तस्यैव टेः प्रागकजित्यवसेयम् । नचाऽकचि (१)(तन्मध्यपातत) न्याये. नोभशब्दग्रहणेन तस्य ग्रहणादुभकाववयवो यस्येत्यर्थे 'उभाददात्तो नित्यम्' इत्यपवि उभकय इति रूपं, कप्रत्यये तु तादृशं रूपन्नेति विशेष इति वाच्यम् । कश्चेदानी काऽकचोवि. शेष इति 'सर्वादीनीति सुत्रस्थभाष्यप्रामाण्येन ताशरूपानभिधानेन विशेषाभावादित्या. शयेनाऽऽशकते-न च कप्रत्ययेनेष्टसिद्धिरिति । समाधत्ते-द्विवचनपरत्वाऽमा. वेनेति । टेः पूर्वमकचो जायमानतया( तन्मध्यपतित)न्यायेनोभग्रहणेनाकविशिष्टस्य ग्र. हणादुभशब्दस्याकचा न द्विवचनपरत्वविघातः, कप्रत्ययस्य तु प्रातिपदिकात्परत्र जायमानतया व्यवधायकत्वेन तस्य द्विवचनपरत्वविघातकत्वं स्पष्टमेव, एवञ्च यथा उभशब्दा. स्वाथै त्रलि तसि च परेऽयच् भवति तथा प्रकृते कप्रत्ययेऽपि स स्यादिति समाधातुरभि. प्रायः । दृष्टान्तेऽयचः प्रसङ्ग प्रदर्शयति-'उभादुदात्तो नित्यमिति सुत्रं विभज्यते, तत्र उ. भादुदात्त इत्येको योगः, अत्र योगेऽस्वरितत्वेन 'द्वि-त्रिभ्यामित्यतो वेत्यस्य नाऽनुवृत्तिः, ततः अवयववृत्तेः संख्यावाचिन उभयशब्दादवयविन्यर्थेऽयच् स्यात् , उभयो मणिः, ततो 'नित्यम्' उभशब्दावृत्तिविषये स्वार्थे नित्यमयच् स्यादिति उभयत उभयत्रेति सिद्धम् । ननु वृत्तिविषये स्वार्थे नित्यमयच् भवतीत्यस्योक्तत्वेन कृतेऽप्यकचि दुर्वार एवाऽयजिति चेन्न । योगविभागस्येष्टसिद्धयर्थत्वेन 'उभौ साभ्यासस्ये ति निर्देशेन च यत्र न द्विवचनश्र. वणं तत्रैवाऽयच् न तु वृत्तिविषये इति तदाशयात् । न च द्विवचनपरत्वाभावेऽयच् नेष्ट इत्यत्र किम्प्रमाणमिति वाच्यम् । वक्ष्यमाणवार्तिकस्यैव प्रमाणत्वात् । इत्याह-उभयो ऽन्यत्रेति । स्वार्थिकाऽयजन्त उभयः सोऽन्यत्र द्विवचनपरत्वाभावे प्रयुज्यते न तु द्विव. चने । यत्रोभशब्दादुत्पन्न द्विवचनस्य लुका नाऽपहारस्ततोऽन्यत्रायजिति वार्तिकार्थः । इत्थं कृत्वाऽकजर्थः सर्वादिगणे उभशब्दपाठः स्थितः, भाष्ये तु प्रत्याख्यात उभशब्द. पाठः, (स्वार्थिकाः प्रत्ययाः प्रकृतितोऽविशिष्टा भवन्ती)ति केऽप्यन्तरेण द्विवचनं द्विवचनपरत्वसत्वादयचोऽप्रवृत्तेः । अत एव उभयोरुभौ उभोभावित्यादौ नायच् बल् तसिश्च विभक्त्यन्तस्य स्वार्थे विहित इति तत्तत्कारकशक्तिप्रधानावेवेति तयोद्वित्वसंख्याप्रकारकसंख्येयविशेष्यकबोधकत्वरूपं द्विवचनं नेति, उभयशब्देनोभशब्दग्रहणवद्वात्तिके कृत्रिमाक त्रिमयोरुभयोर्द्ववचनयोर्ग्रहणमित्यलम् ॥ • (उभयोऽन्यत्रे)ति वार्तिकस्योभयो मणिरुभये देवमनुष्या इत्येकवचन-बहुवचनयोरेव भाष्योदाहरणादुभयशब्दस्य तद्धितश्चेति लक्षणेन प्राप्ताऽव्ययसंज्ञावारणाय (तसिलादयः) इति परिगणनाच्चोभयशब्दस्य द्विवचने रूपस्याऽनभिधानमित्यतो नास्त्युभयशब्दस्य द्विवचनमिति कैयटः । उदाहरणमनादरणीयमिति भाप्योक्तवचनेन पचतिरूपम् , पचतिकल्पमित्यादावठययत्ववारणाय परिगणनस्य चारितार्थ्यादस्य द्विवचने रूपाभावे विनिगमकाभा
(१) *तन्मध्यपतितेति । (तन्मध्यपतितस्तद्ग्रहणेन गृह्यते) इति स्वरूपम् । 'नेदमदसोरकोरिति सूत्रेऽकोरिति निषेधोऽस्या ज्ञापकः । तथा हि, एतदभावेऽविशिष्टे. दमदश्शब्दत्वाभावादेव ताभ्यामुत्तरस्य भिस ऐस्त्वाप्राप्त्या तयावृत्त्यर्थमकोरिति निषेवो व्यर्थः सन्नुत्तमर्थ ज्ञापयति, ज्ञापिते त्वस्मिन्नथें कविशिष्टयोरिदमदसोरिदमदाशब्दाभ्यां ग्रहणात्तदुत्तरस्य भिस ऐस्त्ववारणार्थमुक्तनिषेधश्चरितार्थ इति भावः ।
Aho! Shrutgyanam