________________
अजन्तपुल्लिङ्गप्रकरणम् ।
૫. क्षतत्वात् । तथेहापि विधानात् प्रागनेकालत्वस्य सत्वात्, अर्वणस्तृ इत्यादौ तु विधाना. त्यागेवेत्संज्ञाप्रवृत्त्या ऋकारस्याऽनुबन्धत्वेन तद्रहितस्य तकारमात्रस्याऽनेकालत्वाभावान्न. सर्वादेश इति प्राश्वः।
नव्यास्तु, इत्संज्ञायोग्यत्वमनुबन्धत्वमित्यभ्युपगच्छन्ति तन्मते शकारस्येत्संज्ञायो. ग्यत्वेनाऽनुबन्धत्वात्परिभाषयाऽनेकाल्त्वाभावबोधनान्मूलोक्तासङ्गत्या शित्त्वात्सर्वादेश इत्येवोचितम्, इत्संज्ञायोग्यशकारवत्वमेवतन्मते शित्वमित्यलम् ।
ननु उभशब्दस्य नित्यद्विवचनान्तत्वे 'उभादुदात्तो नित्यम्' उभशब्दस्य सर्वनामत्वे कोऽर्थ इति सूत्रकार-भाष्यकारप्रयोगविरोध इति चेन्न । अर्थपरस्यैवोक्तशब्दस्य नित्यद्विवचनान्तत्वं न तु स्वरूपाऽनुकरणपरस्य तस्येत्यभ्युपगतेरित्याशयेनाह मूले-उभशब्दो द्वित्वविशिष्टस्य वाचक इति । उभश्चासौ शब्दश्चेति विग्रहः, अत्र शब्देत्यस्य पूर्वनिपातो नाऽशङ्कनीयः, व्याप्य-व्यापकयोमध्ये व्याप्यस्यैव पूर्वनिपातो न तु शब्देत्यस्येति भावः । स्वार्थ-द्रव्य-लिङ्ग-संख्या-कारकेति पञ्चविधप्रातिपदिकार्थस्य सिद्धान्तसिद्धत्वेने द्वित्वविशिष्टस्य वाचक इत्यस्य द्वित्वसंख्याप्रकारकसंख्येयविशेष्यकाभिधायीत्यर्थः । ननु पञ्चबिधप्रातिपदिकार्थस्य सिद्धान्तितत्वात्प्रकृत्यैव सकलार्थबोधस्योपपत्तौ विभक्तः, 'द्वये. कयोद्विवचनैकवचने' इत्यादेश्च नैरर्थक्यापत्तिरिति चेन्न । विभक्तेोतकत्वेन सूत्रस्य च नियमार्थत्वेन सार्थक्यादित्याशयेनाह-अत एवेति । द्वित्वविशिष्टेत्यस्य प्रकृतार्थत्वादेयेत्यर्थः, अनन्वितार्थकविभक्तिकल्पनापेक्षयाऽनुवादकविभक्तरेव न्याय्यत्वादाह-नित्यं द्विवच. नान्त इति । द्विवचनान्त एवेति तदर्थः । ___ ननु स्मायादिसर्वनामकार्याणामेकवचने वहुवचने च विधानदर्शनादुभशब्दस्य गणे पाठो विफल एव, न च सर्वनाम्नस्तृतीया चेति सूत्रेण उभाम्यां हेतुभ्याम् , उभयोहे. त्वोरिति षष्ठी तृतीया च तत्फलमिति वाच्यम् । (निमित्त-कारण-हेतुषु सर्वासां प्रायदनिमिति 'हेताविति सूत्रभाष्योक्तवार्तिकेनैव तयोर्गतार्थत्वात् । न चोक्तवार्तिकस्य 'स. र्वनाम्नस्तृतीया चेति सूत्रे वार्तिककृता पठितत्वेन तस्य सर्वनाम्न एव सर्वविभक्तिप्रापकत्वं न त्वन्यस्येति वाच्यम् । भाष्ये हेताविति सूत्रे तद्वार्तिकस्य पठितत्वात । एवञ्चोतरीत्या गणपाठफलस्य सिद्धत्वादिहोभशब्दपाठो व्यर्थ एवेत्याशंक्य समाधत्ते-तस्येह पाठस्तु उभकावित्यकजर्थ इति । गणपाठेन तस्य सर्वनामत्वात् (अव्यय-सर्वनाम्ना. मकजि ) ति भावः ।
ननु कप्रत्ययेनापीष्टरूपस्य सिद्धौ गणेऽकजर्थ उभशब्दस्य पाठो व्यर्थः, न चाकचि कृते स्वरे विशेष इति वाच्यम् । प्रत्ययस्वर-चित्स्वराभ्यामन्तोदात्तस्यैव सत्वेनाऽविशे. षात् । अचि कप्रत्यये वा कृतेऽन्तोदात्तस्वरस्यैव विधानमिति न कश्चिद्विशेष इति भावः। न च सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तादकचि तत्प्रयुक्तमन्तोदात्तत्वमुभकाभ्यामित्यादौ सुबन्तस्य, के तु प्रकृतेस्तदिति स्पष्ट एवं विशेष इति वाच्यम् । तद्धितविधौ प्रातिपदिकादित्यधिकारात्तस्यैव प्रकृतित्वेनाऽविशेषात् । प्रातिपदिकमेवाऽकचः प्रकृतिः, स चाऽकच् (अव्यय-सर्वनाम्नामि ) तिन्यायवलेन सुबन्तात्परो भवतीत्यन्यदेतत् , ( ओकार-सकार-भकारादौ सुपि सर्वनाम्नष्टेः प्रागकजि ) ति न्यायेन युष्मदस्मद् विषये तु सुबन्तस्यैवा.
Aho! Shrutgyanam