________________
४४
फकिकारत्नमञ्जूषायाम्-- तदन्तविधिर्विशेष्यवाचकपदाभावाद्भवितुन्नार्हति, अतः शब्दस्वरूपाध्याहार आवश्यकः सति च तस्मिन् तदन्तविधौ सर्वाद्यन्तस्य सर्वनामत्वे निषेधसूत्रस्य स्वांशे चारितार्थ्य परमसर्वस्मै इत्यादिलक्ष्यसिद्धिश्चेति सर्वमुपपन्न मिति । न च भश्च उभौ चेति द्वन्द्वे गुणे कृते ओभावित्यत्र परादिवद्भावेन प्राप्तपर्वनामसंज्ञानिषेधार्थमुक्तसूत्रस्यावश्यकत्वेन ज्ञापक. त्वं कथमिति वाच्यम् । तदन्तविधिज्ञापकतापरभाष्यप्रामाण्येनोकप्रयोगानभिधानात् । न च तदन्तविधेरभावेऽपि वर्णाश्रमेतराणामित्यत्रावयवस्य सर्वनामसंज्ञको न भवतीत्यर्थ निषेधार्थ सूत्रमावश्यकमिति वाच्यम् । अवयवमात्रेण कुत्लाविवक्षाया अभावेन सर्वनामप्रकृतिकमवन्तात्तदर्थगतकुत्साविवक्षायामकजित्यर्थकस्य (अव्यय-सर्वनाम्नामकजि ) त्यस्या. प्राप्तरिति दिक् ॥ ___ ननु पदाधिकार्यङ्गाधिकारि च काय्यं सूत्रोपात्तस्य सूत्रोपात्तान्तस्य च भवतीत्यर्थकस्य ( पदाङ्गाधिकारे तस्य तदन्तस्य चे ) त्यस्य सत्त्वात्तदन्तविधिम्विनैव परमस स्मै इत्यादिसिद्धौ तदन्तसंज्ञायाः किम्फलमित्याह-तेन परमसर्वत्रेति त्रलिति । परमसत्यस्य गणे पाठाभावात्सर्वनामसंज्ञकत्वाभावेन बलाद्युत्पत्तिन स्यात् तदन्तविधौ तु सर्वाद्यन्तस्यापि तत्त्वेन मुलभ एव लादिरिति भावः । न चात्र प्रातिपदिकादित्यस्याऽनु. वृत्त्या सर्वनाम्नस्तद्विशेषणत्वेन तदन्तविधिसिद्धौ ज्ञापकादिना पुनस्तदाश्रयणप्रयासो वि. फल एवेति वाच्यम् । समासप्रत्ययविधौ प्रतिषेध इति तनिषेधेन ज्ञापनमूलकतदन्तविध्याश्रयणस्यावश्यकत्वात् । न च परमसर्वत्रेत्यत्रावयवनिष्ठसर्वनामत्वेन सुत्रुत्पत्तितः प्रागेव बलादिसिद्धावलमेतेन तदर्थप्रयासेनेति वाच्यम् । सर्वनामप्रकृतिकठबन्तात् त्रलादयो भवन्तीति तद्विधायकसूत्रार्थे परमसति समुदायस्यैव सुबन्तत्वात् 'द्वन्द्वे चेति प्रथमार्थे सप्त. मीति समुदाय एव संज्ञानिषेधपर्यवसानं नाऽवयवे, अन्यथा वर्गाश्रमेतराणामित्यादौ 8डापत्तिः सर्वार्थवाचकसर्वाद्यन्तत्वेन समुदायस्य संज्ञासौलभ्यात् । अवयवस्य संज्ञानिषेधे. ऽपि समुदायस्य सर्वार्थवाचकसर्वाद्यन्तत्वेन मुलभैव संज्ञेति दिक् ॥ __ननु 'अनेकाल-शित्सर्वस्ये त्येतटकशिद्ग्रणेन ज्ञापितया (१)( नाऽनुबन्धकृत्तमनेका . ल्त्वमिति परिभाषया तृ इत्यत्रानुबन्धकृतानेकाल्त्वाभावबोधनवत्प्रकृते श्यादेशस्यापि तया तथा बोधनेन मूलोक्तमतीवासमञ्जसम्। सर्वादेशेन बिना शित्वस्यासम्भवेन शित्वा. त्सर्वादेश इत्यपि वक्तुमशक्यमिति चेन्न । इत्संज्ञावस्त्रमनुवन्धत्वमिति प्राचीनाभिमता. नुबन्धत्वाङ्गीकारेण प्रकृते शकारस्य तत्त्वाभावादुक्तपरिभाषाऽप्रवृत्त्याऽनेकाल्त्वस्याक्षतत्वेन मुलोक्तस्य समन्जसत्वादित्याशयेनाह-अनेकाल्त्वात्सर्वादेश इति । अयम्भावः, यथा तिपः स्थाने डा-गलौ सर्वादेशौ भवतः, आदेशविधानोत्तरमतिदेशेन प्रत्ययत्वमाश्रि. त्य डकार-णकारयोरित्संज्ञा प्रवर्तते न तु ततः प्राक् प्रत्ययत्वाभावेनेत्वविधेरप्राप्तः, तदा. नीमित्संज्ञकत्वाभावेन (नाऽनुबन्धकृतमनेकाल्त्वमि )तिपरिभाषाऽप्रवृत्त्याऽनेकाल्त्वस्या.
(१) *नानुबन्धकृतमिति । अत्र शिद्ग्रहणं ज्ञापकं तथा हि परिभाषाऽभावेऽनुबन्ध. कृतानेकालत्वस्य ग्रहणादनेकालत्वादेव सर्वादेशसिद्धौ व्यर्थ शिद्ग्रहणं परिभाषां ज्ञापयति, ज्ञापितायामस्यां तु अनुवन्घकृतानेकालत्वस्याग्रहणात्सर्वादशाय शिदूग्रहणं स्वांशे चरितार्थमिति भावः।
Aho! Shrutgyanam