________________
अजन्तपुल्लिङ्गप्रकरणम् । तत्सत्वे तु न तत्रोक्तापत्तिलेशोऽपि सोरिण-कुभ्यां परत्वाभावादेवञ्च राम इत्येव प्रत्युदाहर्तव्य रामस्येति प्रत्युदाहरणन्नानन्दसन्दोहजनकमिति चेन्न । षत्वविधायकशास्त्रस्य रुत्वविसर्गों प्रत्यसिद्धत्वेनैवोक्तप्रयोगीयदोषव्यावृत्तौ प्रथमैकवचनस्य प्रत्युदाहरणायोग्यत्वात्षट्येकवचनस्यैव तद्योग्यत्वमित्याशयेनाऽऽशंक्य समाधत्ते-इणकोः किम् । रोमस्येति । अत्र, षत्वशास्त्रे तदग्रहणे तदापत्तिः स्यादिति तद्ग्रहणम् । न च 'टाङसी' ति सूत्रेण व्यविधानस्यैव समुचितत्वे सकारोच्चारणसामर्थ्यादेव तत्र दोषाभावादिणको. हणं मास्तु । एवञ्च रामस्येत्यत्र सकारोचारणसामर्थेनैव तदभावाव्यर्थमेवेणकोर्ग्रहण. मिति वाच्यम् । विश्वपास्वित्यादौ षत्वव्यावृत्त्यर्थ तस्याऽऽवश्यकत्वात् । एवञ्चेदमेव प्रत्युदाहरणम्बोध्यम् । नच पुविति वक्तश्ये सबिति सकारोचारणसामर्थ्यान्न तत्र दोष इति वाच्यम् । लिट्स, धुत्स्वित्यादौ 'डः सि धुडित्यनेन धुटो विधानाय सकारोच्चारणस्याऽऽवश्यकत्वेन षुविति वक्तुमशक्यतया विश्वपास्वित्यादावुक्तदोषस्य दुरुद्धरत्वात् । एतदर्थमावश्यकमेव तद्ग्रहणमिति भावः ॥
विवृताऽघोषस्येति । विवृतत्वरूपाऽऽभ्यन्तरप्रयत्नवतोऽघोषरूपबाह्यप्रयत्नवतश्च स. कारस्य स्थाने उक्तप्रयत्नद्वयवानेव षकारे इति तदर्थः । विबृतस्य सस्य तादृश एवं ष एतावन्मात्रोक्तो ऋकारेऽतिप्रसङ्गस्तस्यापि विवृतं स्वराणामित्युक्तरीत्या विवृतप्रयत्नवत्वा. दतोऽघोष इत्युक्तम् । अघोषस्येत्युच्यमाने ठकारेऽतिप्रसङ्गः स्यादिति विवृतमित्युक्तम् । ताद्वश एव ष इति । तादृशः ष एवादेशो भवति नान्य इति तदर्थः । न च दधिसेच इत्यादौ, सुबुत्पत्तेः प्राक् समासे प्राप्तषत्वव्यावृत्यर्थं पदादादिः पदादिरिति पञ्चमीसमा. सस्य भाष्ये उक्तत्वाद्रामेष्वित्यत्रापि स्वादिष्विति रामेत्यस्य पदत्वेन 'सात्पदाद्योरिति निषेधः स्यात् । नच षत्वमेव तदा व्यर्थमिति वाच्यम् । करिष्यतीत्यादौ तस्य सावकाश. त्वादिति वाच्यम् । स्वादिष्विति पदसंज्ञामाश्रित्योक्तनिषेधो न प्रवर्त्तत इति सातिग्रहणेन ज्ञापनान्निषेधाप्रवृत्तेरित्यलम् ॥ ____ ननु 'इणकोरित्यधिकारसूत्रस्यैव विधिसूत्रत्वाभ्युपगमे इण-कुभ्यो परस्य सस्य मूर्द्धन्यादेश इत्यर्थे सर्वत्र षत्वसिद्धौ कुत्राऽपि दोषाभावाद् व्यर्थमेव सूत्रमिदमित्याशयेनाशइते-आदेश-प्रत्यययोः किमिति । उत्तरयति-सुपी:-सुपिसाविति । अयमाशयः, रत्व-विसर्गविधायकशास्त्रद्वयदृष्टया षत्वस्यासिद्धत्वादेव पूर्वत्र षत्वव्यावृत्तिसिद्धिरिति द्वितीयं प्रत्युदाहृतम् । तत्र सूत्राभावे षत्वापत्तिर्दुर्वारेति तदावश्यकम् । न च 'शासिवसि. घसीनामित्येतदारम्भसामर्थ्यात् धातोः सकारस्य षत्वं चेदेतेषामेवेति नियमाश्रयणेन न तत्र तदापत्तिरिति व्यर्थमेव तद्ग्रहणमिति वाच्यम् । बहुलक्ष्यानुरोधेन प्रकृते विपरीतनिय. मबाधनार्थमादेश-प्रत्यययोर्ग्रहणस्यावश्यकत्वादिति संक्षेपः ॥
ननु 'सर्वादीनीति सूत्रे प्रमाणाभावेन शब्दस्वरूपाध्याहारस्य कत्तुमशक्यत्वात्तदित. रविशेष्यवाचकपदाभावाच्च तदन्तविध्यभावे सर्वाद्यन्तस्य सर्वनामसंज्ञाऽप्राप्तौ तां साधयि. तुमाह-तदन्तस्यापीयं संवति। अत्र प्रमाणमाह-द्वन्द्वे चेति । अयम्भावः, समुदायस्यैवायं निषेधो नावयवानामित्यग्रे वक्ष्यति, एवञ्च समुदाये संज्ञायास्तदन्तविधि वि. ना प्राप्त्यभावाव्यर्थ निषेधसूत्रं ज्ञापयति सर्वाद्यन्तस्यापि सर्वनामसंज्ञा भवतीति । न च
Aho ! Shrutgyanam