________________
૨૨
फक्किकारत्नमञ्जूषायाम्कल्पनात्खरिचेति चर्वेऽपि थकारघटितरूपसिद्धौ बाधकाभावात्सूत्रवैयर्थ्यस्य स्पष्टतयोकार्थे ज्ञापकत्वसम्भवादित्यलम् ॥ __ ननु रामशब्दादामि तस्य नुडागमे राम नामिति स्थितौ 'नामीति' सूत्रापेक्षया 'पिचेत्यस्य परत्वेन दीर्धेऽपि नामाऽव्यवहितपूर्वत्वविशिष्टाऽजन्तत्वरूपोद्देश्यत्वसवात (१)( पर्जन्यवल्लक्षणप्रवृत्तिः ) इतिन्यायेन नामीत्यस्य प्रवृत्तिसम्भवेन कृताकृतप्रसङ्गित्व. रूपनित्यत्वस्य सद्भावादनेनैव दीर्घो न तु तेन परत्वापेक्षया नित्यत्वस्य बलवत्वात, एवञ्च मूलोक्तशडासमाधानप्रयासो विफल इति चेन्न । (२)(शब्दान्तरस्य प्राप्नुवन्विधिरनित्यः) इति न्यायेन नामीत्यस्य नित्यत्वविघातात् । न च ( एकदेशविकृतमनन्यवत् ) इत्यनेन न तस्य नित्यत्वहानिरिति वाच्यम् । तस्य न्यायस्य ( शब्दान्तरस्ये ) तिन्यायविषये प्रवृत्तेरनङ्गीकारात । अन्यथाऽस्य न्यायस्य सर्वथा वैयापत्तेरिति भावः । नच नामशब्दमुच्चार्य्य दीर्घविधानात्प्रतिपदोक्तत्वेन नामीत्यस्यैव प्राक् प्रवृत्तिरिति वाच्यम् । प्रतिपदोक्तस्यापि निरवकाशत्वे सत्येव वलवत्त्वादस्याऽतथात्वेन प्राक्प्रवृत्तेरसम्भवात् । न च नामीत्यस्याऽन्तरङ्गत्वात्तथा प्रवृत्तिरस्त्विति वाच्यम् । उभयो म्त्व-मुप्त्वनिमित्तकत्वेनाऽन्तरङ्गत्व-वहिरङ्गत्वेषु कस्याप्यलाभेन परत्वात्मपि चेत्येव दीर्घसिद्धौ ‘नामी'ति सूत्रोपन्यासो न युक्त इत्याशङ्क्य समाधत्ते-सुपि चेतिदी? यद्यपि परस्तथापी. त्यादि । अस्यायम्भावः, सन्निपातपरिभाषाविरोधात्सपि चेति सुत्रस्य नेह प्रवृत्तिः । नामीत्यस्य प्रवृत्तौ तु नोक्तपरिभाषाविरोधः, भारम्भसामर्थ्यात् । सुपि चेत्यस्य तु न सामर्थ्यम् , रामाभ्यामित्यादौ तस्य सावकाशत्वात् , नामीत्यस्य तु कुत्राऽप्यवकाशाभा. वादारम्भसामर्थात्परिभाषाबाध इति । न च कतीनामित्यत्र 'हस्वनद्यापो नुडि' त्यतः परत्वात् 'षट्चतुर्व्यश्चेति नुटि दीर्धेऽपि षट्त्वस्य सत्वात्सन्निपातविधाताभावेनोक्तपरिभाषाऽप्राप्त्या नामीत्यस्य चारितार्थ्यमिति वाच्यम् । नटेकमुदाहरणं योगारम्भ प्रयोजयतीति न्यायेन 'कते मी'त्येव सिद्ध सामान्यसूत्रवैयर्थ्यस्य स्पष्टत्वादिति ॥ केचित्तु, आरम्भसामर्थ्यादित्यस्य 'न तिसूचतसूत्र इति निषेधारम्भसामादित्याशयं वर्णयन्ति, तेषामयमभिप्रायः, यदि नामि सूत्रविषयेऽपि सन्निपातपरिभाषा प्रवत्तत तदा तयैव तिसृणामित्यत्रापि दीर्घव्यावृत्तिसिद्धौ निषेधकरणस्य स्पष्टमेव वैयर्थ्य स्यात् । (३)एतदारम्भसामर्थ्यादुक्तपरिभाषाया(४) स्तद्विषयेऽप्रवृत्तिकल्पने तु तिसृणामित्यत्र नामीत्यनेन प्राप्तदीर्घव्यावृत्यर्थ निषेधशास्त्रस्य स्वांशे चारितार्थ्य जातमिति दिक् ॥
ननु 'आदेश-प्रत्यययो रित्यन्त्रेणकोरग्रहणे प्रातिपदिकात्परीभूतो य आदेशरूपः प्रत्य. यावयवश्च सकारस्तस्य मूर्द्धन्यादेश इत्यर्थे प्रथमैकवचने राम इत्यत्रापि सोस्तदापत्तिः,
(१) पर्जन्यवदिति पर्जन्यो यथा जले स्थले च वर्षति तथा लक्षणमपि पवृत्तशाऽप्रवृत्तशाच प्रयोगे प्रवर्तत इति तदर्थः ।
(२) *शब्दान्तरस्येति* एषा च परिभाषा 'शदेः शित' इति सूत्रभाष्ये स्पष्टा वचनरूपेण पठितेत्यर्थः । तत्र हि न्यविशतेत्यत्र विकरणे कृते विकरणान्तस्याश्ट् अकृते विकरणे धातुमात्रस्याऽट् इत्यडनित्य इत्युक्तम् ।। (३) एतदिति न तिस चतस्त्रिति निषेधारम्भसामादित्यर्थः । (४) तद्विषय इति* नामीति दीर्घविषये इत्यर्यः
Aho! Shrutgyanam