________________
अजन्तपुल्लिङ्गप्रकरणम् ।
શ્
सम्पादकत्वाच्चरितार्थस्तथा च झलादेर्नहुवचनस्य सुप इडागम इत्यर्थे न दोषस्तत्रेति वाच्यम् । तथा सति एभ्य इत्यादौ हलि लोपानापत्तेः । गङ्गे इत्यादौ सम्बुद्धिलोपानापत्तेश्च । ‘सम्बुद्धौ चे'त्यत्रेटोऽनुवृच्या तेन तद्विधानात्तस्य गुणे तस्य च पञ्चमीसमासेन स्थानिवद्भावात् 'एडस्वादि' त्यस्याप्राप्तेर्व्यवधानात् 'हल्याचि' त्यस्याप्राप्तेश्चेत्यलं पल्लवितेन ॥
1
सुपि किम् । पचध्वमिति । अयम्भावः, उपिग्रहणाभात्रे पचन्त्रमित्यत्र शलादिबहुवचने ध्वमि परे एत्वापत्तिः । नच 'बहुबचने सभ्येदिति न्यासे न तत्र दोष इति वाच्यम् । तथा सति(१) सङ्गसीरन्नित्यत्र सकारादिबहुबचने तदापत्तेः । न च भादिसाह - चर्येण सकारादिबहुबचनस्यापि सुप्प्रत्ययस्यैव ग्रहणादुक्तप्रयोगे दोषाभावाद्व्यर्थमेव तद्ग्रहणमिति वाच्यम् । पट्वी, मृहीत्यादौ गुणाऽभावाय 'घेोडिती' त्यत्रानुवृत्यर्थत्वेन तस्य साफल्यात् । नच डीपः स्थाने टीप् इति न्यासेन नोक्तस्थले कश्चिद्दोष इति वाच्यम् । सर्वत्रानेकानेक कल्पनापेक्षया सपिग्रहणकरण एव लाघवादिति दिक् ॥
जस्त्वमिति । अयम्भाव: ( २ ) ( येन नाप्राप्ति ) न्यायेन अवसाने विधीयमानस्य चर्त्वस्य पदान्तजश्त्वापवादत्वात्प्रागेव चर्वं ततो जश्त्वमिति । जश्त्वोत्तरं चर्बोपन्यासस्तु न युक्त उक्तयुक्तेः । अत एव जश्त्वमिति प्रतीकमुपादाय बाधित्वेति शेष इत्युक्तं नागेशेन न तु जश्त्वोत्तरं चर्व्वमुक्तमिति संक्षेपः ॥
जनु रामस्येत्यत्र 'अनञ्चि चेत्यनेन सकारस्य द्वित्वे तस्य 'खरिचेति च तकारश्रवणापत्तिस्यादित्याशङ्कां निराकरोति- -सस्य द्वित्वपक्षे खरिचेति चर्त्वऽप्यान्तरतम्यात्सस्य स एव न तु तकारोऽल्पप्राणतया प्रयत्नभेदादिति । सकारस्योक्तसूत्रेण चर्हेऽपि 'स्थानेऽन्तरतम' इत्यत्रत्यतमग्रहणात्स्थानप्रयत्नाभ्यामन्तरतमे नैवादेशेन भाव्यमिति बोधनाद्दन्तस्थानजन्यत्वसमानाधिकरण-विवृतत्वरूपाऽऽभ्यन्तरप्रयत्नवत्वसमानाधिकरण - महाप्राणरूपबाह्य प्रयत्नवतः सकारस्य स्थाने तादृशः सकार एवाss देशी जातो नतु तकारस्तस्य सकारेण समान स्थानिकत्वेऽपि स्पृष्टरूपाऽऽभ्यन्तरप्रयत्नचतया अल्पप्राणरूपबाह्यप्रयत्नवत्तया च तेन भेदादिति भावः । स्थानप्रयत्नाभ्यामाऽऽन्तरतम्यस्याऽऽश्रयणे प्रमाणमाह- श्रत एव सः सीति तादेश आरभ्यत इति । उभाभ्यामाऽऽन्तरतम्यस्याऽनाश्रयणे खरिचेति चर्चेनैव (३) वत्स्यतीत्यादिसिद्धौ 'सः स्यार्द्धधातुके' इत्यस्य वैयर्थ्यं स्यादिति तद्भावः । नचोक्तसूत्रसत्त्वे वत्स्यतीत्यादौ ( चयो द्वितीये ) ति वार्त्तिकेन द्वितीयादेशे पक्षे थकारघटितं रूपं सिद्ध्यति तन्नेदानीं स्यात् खरिचेति चर्खस्योक्तवार्त्तिकदृष्ट्याऽसिद्धत्वेनाऽऽदेशाप्राप्तेरिति तदर्थमुक्तसूत्रस्यावश्यकत्वेन ज्ञापक कथमिति वाच्यम् । 'नमुने' इत्यत्र नेति योगविभागेन क्वचिदसिद्धत्वन्नेति
(१) *सङ्गसीरन्निति* सम्पूर्वकोद्गम धातोः 'समो गमृच्छिम्यामि' त्यात्मने पदे आशीर्लिटि बहुबचने रूपम् ।
1
(२) *येन नाप्राप्तीति । येन नाप्राधे यो विधिरारभ्यते स तस्य बाधको भवतीति न्यायस्वरूपम् ।
( ३ ) *वत्स्यतीति वस् धातोर्हृटि रूपम् ।
Aho! Shrutgyanam