________________
४०
फक्किकारस्नमञ्जूषायाम्श्यकम् । न च सन्निपातपरिभाषाविरोधान्न तत्रोक्तापत्तिरिति वाच्यम् । बलग्रहणसामर्थ्यादेत्वविषये सन्निपातपरिभाषाऽप्रवृत्तिकल्पनेन तत्र तदापत्तेस्तादवस्थ्यात् । अतस्तन्निवत्यर्थ झल्ग्रहणं कर्त्तव्यमेव कृते च तस्मिन्न दोषो नकारस्य झलत्वाभावात् । एत्वे सन्निपात परिभाषाऽप्रवृत्तेरेव, 'अदः सर्वेषामित्यादिनिर्देशसङ्गतिरित्यलम्
ननु सार्धमात्रालाघवाय 'बहुबचने झलोकः इत्येवास्तु सूत्रमिति चेन्न । तथा सति 'ओ. सि चे त्यत्रेकोऽनुत्त्या ओसि परे आकारस्येगागमः स्यादित्यर्थे ज्ञानचोरित्यादौ इकोऽचि विभक्ताविति नुमापत्तेः । नचान्तरङ्गत्वात् 'आद्गुण' इत्यनेन गुणे जाते इगन्तत्वाभावादेव नुमोऽप्राप्तिरिति वाच्यम् । (१)( वार्णादाङ्ग बलीयः ) इति न्यायेन प्राङ नुम एव प्रवृत्तेः । न च समाननिमित्तकत्वरूपसमानाश्रयत्वे एवोक्तन्यायप्रवृत्त्यङ्गीकारात्प्रकृते नुम् . गुणविधायकयोरसमाननिमित्तकत्वेनोक्तन्यायस्याविषयत्वेनाऽप्रवृत्याऽन्तरङ्गत्वाद्गुणे नुमोड प्राप्त्या न दोष इति वाच्यम् । आङ्ग-वार्णयोः समानकाय्यित्वे एव तत्प्रवृत्तः सिद्धान्तितत्वादिहोभयोस्समानकायित्वान्न्यायप्रवृत्त्या दोषस्य तादवस्थ्यात् । प्राक् प्रदर्शितो न्यायप्रवृत्तिविषयो नैव समीचीनः, तथा सति दीर्घ-वृद्धयोरसमाननिमित्तकत्वेन न्यायाs प्रवृत्या इयाय, इयेषेत्यादेरसिद्धयापत्तेः । सिद्धान्ते तु द्वित्वे कृतेऽन्तरङ्गासवर्णदीर्घस्य न्यायेनैव बाधावृद्धौ रूपं सिद्धयतीति भावः । 'बहुबचने झलीट्' इति न्यासे तु बहुबचने झलीति सप्तम्या अचरितार्थत्वाज्झलादौ बहुबचने सपि अत इदित्यर्थे 'आद्यन्तौ टकितावि त्यनेन टित्कार्यस्याऽऽद्यवयवत्वविधानादकारात्प्रागिटि रामेभ्यो रामेष्वित्याद्यसिद्धयापत्तेः । नव यत्तदेतेभ्य' इत्यादिनिर्देशात्सप्तमीनिर्दिष्टपदानां षष्ठ्यन्तत्वकल्पनमत इति षष्टयन्तस्य च पञ्चम्यन्तत्वं सप्तमीनिर्देशश्च (२) ( यस्मिन्विधिरि ) ति परिभाषाप्रवृत्ति.
(१) *वार्णादाङ्गमिति । वर्णनिमित्तककार्यादङ्गनिमित्तककार्य वलवद्भवतीत्यर्थः तथा च वर्णत्वव्याप्यधर्मावच्छिन्नोदेश्यककार्यादङ्गत्वावच्छिन्नोद्देश्यक कार्य बलवदिति फलितम् ।
अत्र ज्ञापकं तु अभ्यासस्याऽसवणेऽत्रत्याऽसवर्णग्रहणमेव, तथाहि परिभाषाऽपदभावे ईयतरित्यादावन्तरङ्गन सवर्णदी_णेयङो वाधादुक्तरूपसिद्धौ व्यर्थमसवर्णग्रहणं परिभाषां ज्ञापयति । अपवादत्वात्प्राप्तेयङव्यावृत्यर्थमसवणग्रहणस्य चरितार्थत्वे ज्ञापकत्वं न सम्भवीति नाऽऽशक्यम् । तस्य येन नाप्राप्तिन्यायेनेयीत्यादिसकललक्ष्यप्राधयणपवादत्वस्यैव निर्णयात् । इति प्राञ्चः।।
नव्यमते तु अभ्यासस्याऽसवणे इति सम्पूर्णसूत्रमेवास्यां ज्ञापकम् इयाय, इयेषेत्यादावि. यविधानार्थं सुत्रस्यावश्यकत्वे ज्ञापकत्वमसम्भवीति नाशङ्क्यम् । तत्र सुनसत्त्वेऽपि पूर्व. प्रवृत्तगुणवृद्ध्योद्विवचनेऽचीति रूपातिदेशेनापहाराद्वित्वे कृते पुनः प्राप्तगुणवृद्धोधन विधायाऽन्तरङ्गत्वात्सवर्णदीर्घापत्तेः । इति व्यर्थीभूतं सूत्रं परिभाषां ज्ञापयति ज्ञापितायां तु तस्यां सवर्णदीर्घापेक्षया गुणवृद्ध्योरेव प्रावल्यात्सूत्रं सार्थकमिति भावः ।
(२) यस्मिन्निति* यस्मिन्विधिस्तदादावल्ग्रहणे इति परिभाषास्वरूपम् । यस्मिन्न: ल्पहणे विशेषणीभूते यो विधिरारभ्यते स तदलादौ बोध्यः । अल्मात्रवृत्तिविषयताप्रयोजके सप्तम्यन्ते विशेषणताप्रयोजके पदे यो बिधिः स तदलादो बोद्धव्य इति यावत् । इयं परि. भाषा वाचनिक्येव नतु ज्ञापकसाध्या भाष्ये वचनरूपेणैवैषा पठिता नत्वत्र ज्ञापकमुपन्यस्त. मिति भावः । ज्ञापकजिज्ञासा चेदुच्यते अन्न न ल्यपीति सूत्रं ज्ञापकम् । तथाहि परिभाषा सत्त्वे प्रदायेत्यादो तदन्तविधौ हलन्तकित्प्रत्ययपरत्वाभावादेवेत्वाप्राप्त्या तयावृत्यर्थमुक्तसूत्रं व्यथं सत्परिभाषाज्ञापकम् ।
Aho! Shrutgyanam