________________
अजन्तपुल्लिङ्गप्रकरणम् । विधेर्विघातको न भवति, एवञ्च प्रकृते रामायेत्यत्राऽकारान्तसन्निपातेन जायमानो यादेशो दीर्धे निमित्तीभूयाऽकारान्तसन्निपातविघातका न स्यात्परिभाषाविरोधादित्थं दीर्घाभावमाशक्य तदनित्यत्वेन समाधत्ते-कष्टायेति । न च रामायेत्यत्र यत्रादित्वसापेक्षदीर्वादेशस्य बहिरङ्गत्वादसिद्धत्वेन सन्निपातविधाताभावादुक्तपरिभाषाऽप्रवृत्तावनित्यत्वाभ्युपगमो विफल इति वाच्यम् । (१) परिभाषया दीर्घस्यासिद्धत्वबोधनेन सन्निपातविघाताभावेऽपि वास्तविकतद्विघातस्थ जायमानतया सन्निपातपरिभाषाप्रवृत्तेर्दुरित्वात् । किञ्च बहिरङ्ग परिभाषयाऽन्तरङ्गे कर्तव्ये बहिरङ्गासिद्धत्वस्यैव बोधनं क्रियते न तु बहिरङ्गशास्त्रे प्रवृत्ते तदसि. द्धत्वप्रतिपादनमपीति सन्निपातविघातस्य परिभाषा दीर्घस्याऽसिद्धत्वप्रतिपादनद्वारा दूरीकर्तुमशक्यतया विघातस्य स्पष्टत्वेन सन्निपातपरिभाषाप्रवृरोरनित्यत्वं विना वारणोपायस्या दृष्टत्वात् । नचाऽनित्यताप्रयोजकनिर्देशस्य 'अकृत्सार्वधातुकयोरिति दीघणैवोपपत्ती तत्र ज्ञापकत्वं तस्य कथमिति वाच्यम् । तस्यापि सन्निपातपरिभाषयाऽप्रवृत्तः । अनित्यत्वे तु सर्व सूपपन्नमिति भावः । (२)किञ्चोक्तदीर्घविधायकशास्त्रस्याऽकृदिति पर्युदासेनासुप्येव प्रवृत्तिरिति दिक् ॥ __बहुबचने किमिति । इत्थमेतदभिप्रायः, 'बहुबचने झल्येदि त्यत्र बहुबचनग्रहणाभावे राम इत्यादौ नेत्वापत्तिर्दोषः । 'प्रत्ययः परश्चेत्यादिनिर्देशेन 'इदुदे सम्बुद्धेरै' तावतैव सूत्रेण सिद्ध हस्वग्रहणेन च सावेत्वन्न भवतीति कल्पनात् । न च तदभावे रामस्येत्यश्रोक्तदोषो दुर्वार एवेति वाच्यम् । 'टाङसिङसामिनात्स्या' इत्यनेन इसः स्थानेऽस्यं विधाय पररूपे कृते रूपसिद्धावदोषात् । नचोक्तसूत्रेण डसोऽस्यविधाने इदम्शब्दान्ङसि निष्पन्नस्य अस्येति रूपस्य सिद्धिर्न स्याद्धलादित्वाभावेन हलिलोपाप्रवृत्तरिति वाच्यम् । 'आपि लोप' इतिन्यासेन 'टौसोरनक' इति न्यासेन च विषयविभागादुक्तलोपोपपत्तौ रूप. सिद्धः । न च रामाभ्यामित्यत्रैत्वं दुर्वारमिति वाच्यम् । मुपि चेत्यस्यारम्भसामर्थ्यादेवोक्तदोषस्य निवृत्तः । नचोक्तसूत्रस्य रामायेत्यत्र दीर्घविधानेन साफल्यात्सामादित्युक्तिरती. वासंगतेति वाच्यम् । 'डेरया इति सूत्रकरणादकारोच्चारणसामथ्येन पररूपस्य बाधाद्दीधैंगै वोक्तप्रयोगस्योपपत्तौ सूत्रवैयर्थ्यस्य स्पष्टतया सामर्थ्यादित्युक्तः सुसङ्गतेः । एवञ्च बहुवचनग्रहणाभावे कुत्राप्यदोषान्नादरणीयन्तदिति प्रष्टुराकृतम् । रामेष्वित्यादावेत्वविधानस्य चरितार्थतया रामाभ्यामित्यादाविव रामेभ्य इत्यादावप्येत्वं वाधित्वा दीर्घापत्तिरतस्तत्करणमा. वश्यकं कृते च तस्मिन सामर्थ्यादेत्वमेव न दीर्घ इति न कापि शाकलङ्ककणिकेति संक्षेपः ॥
ननु 'बहुवचने झल्येदित्यत्र झल्ग्रहणाकरणे 'उतो वृद्धिलुकि हली'त्यतो हलीत्यस्यानुवृत्त्या बहुवचने हलादावेव तेनैत्वविधानात्प्रथमाबहुवचने रामा इत्यादौ दोषाभावेन झल्ग्रहणमनावश्यकमेवेति शङ्कोत्थितौ समाधत्ते-झलि किम् । रामाणामिति । अयम्भावः, झलग्रहणाभावे हलादौ बहुबचने सुप्येत्वमित्यर्थे रामाणामित्यत्रैत्वापत्ति रतस्तदाव.
(१) *परिभाषयेति । अन्तरङ्गपरिभाषयेत्यर्थः ।।
(२)*किञ्चेति । ननु क्षीयाजीयादित्यादावपि सन्निपातपरिभाषाविरोधादीर्घाप्रा. प्त्या सत्रवैयन सामर्थ्यात्परिभाषावाधेनाकृदिति दीधेणैव निर्देशोपपत्तावनित्यत्वे नासो ज्ञापक इत्यरुचेराह-किञ्चेति ।
Aho ! Shrutgyanam