________________
फक्किकारत्नमञ्जूषायाम्वविधिरि) तीत्युक्तम् । तत्र तिडोऽनुवृत्तौ स्पष्ट एव भाष्यविरोधः । किञ्च भनक्तीत्यादौ दोषव्यावृत्तावपि, अभनगमनगित्यत्र दोषो दुर्वार एवं अकचि परेऽङ्गसंज्ञायाम् 'अल्लोपोऽन' हति लोपप्रवृत्तेः। नचाल्लोपोऽनो नाके इति न्यासकरणेन दोषाभावाद्विधिग्रहणं विफलमेवेति बाच्यम् । वारि औ इत्यत्रेकोऽचीति नुम्वारणार्थत्वेन तस्य साफल्यात् । तथा हि,अशब्द. स्य औ विभक्तौ वृद्धिरेचीति वृद्धौ, औ इति रूपम् तस्य वारिशब्दसमभिव्याहारे वारि औ इत्यत्र परादिवद्भावेन तत्र सप्त्वात् प्रत्ययत्वाच्च तस्मिन्वारीत्यस्याऽङ्गसंज्ञाया नुमः प्राप्तिरि. ति । नचेकोऽचीत्यत्र सुपः सम्बन्धेनैव सिद्धौ विभक्तिग्रहणस्याऽनतिदिष्टविभक्तिग्रहणार्थत्वेन प्रकृतेऽतथात्वान्न दोष इति वाच्यम् । सर्वत्रानेकानेककल्पनापेक्षया विधिग्रहणकरणस्यैव लघीयस्त्वादिति दिक् ॥
प्रत्यये किम् । प्रत्ययविशिष्टस्य ततोऽप्यधिकस्य वा मा भूदिति । अयम्भावः, प्रत्ययग्रहणाभावे तद्विशिष्टस्याऽङ्गत्वेन रामाभ्यामित्यादौ दीर्वानापत्तिस्तस्याङ्गत्वेऽप्यदन्तत्वाभावेन यनादिसुवनिमित्तपरकत्वाभावेन च सूत्राऽप्राप्तेः । नवागावयवस्यातो दीर्घ इत्यर्थे सूत्रप्राप्त्या दीर्घसौलभ्येन न कश्चिदुक्तस्थलीयो दोष इति वाच्यम् । राज्ञः पुरुषो राजपुरुष इत्यादौ 'न लुमते ति निषेधेन पूर्वपदे प्रत्ययलक्षणेनाऽन्तर्वतिविभक्त्याऽपदत्वात् 'न लोप' सूत्रेण पदान्तनकारस्यैव लोपविधानेन नलोपाऽनुपपत्तेः, अतः प्रत्ययग्रहणमावश्यक सति च तस्मिन् न तत्रोक्तदोषः, अङ्गाक्षिप्तप्रत्यये परतः कार्ये कर्त्तव्य एवोक्तनिषेधप्रवृत्ताविह विशिष्टे पदत्वस्य कर्त्तव्यत्वेनाऽतथात्वान्निषेधाप्रवृत्योक्तरीत्या पदत्वस्य सुलभत्वात् । नच (१) न लुमता तस्मिन्निति न्यासकरणेनैव दोषबारणसम्भवे तदर्थ प्रत्ययग्रहणकरणनिष्फलमेवेति वाच्यम् । 'उरदि' त्येतद्विहिताऽत्वस्य प्रत्ययनिमित्तकत्वाभावेन 'अचः परस्मिनित्यस्याऽप्रवृत्याऽकारे सम्प्रसारणत्वालाभेन 'न सम्प्रसारणे सम्प्रसारणमिति निषेधा. प्रवृत्तौ बज्रश्चेत्यत्र बकारस्य सम्प्रसारणापत्तेः । कृते प्रत्ययग्रहणे तु उरदत्वस्याऽङ्गाक्षि. प्तप्रत्ययनिमित्तकत्वेन स्थानिवत्वेनाऽकारे सम्प्रसारणत्वान्न सम्प्रसारण इति निषेधप्रवृत्तेर्न दोषः । नच सम्प्रसारणपदस्य तत्स्थानिके लाक्षणिकत्वान्न दोष इति वाच्यम् । देवदत्त मोदनमपाक्षीदित्यादौ देवदत्तादिशब्दोत्तरसुपं निमित्तीकृत्य लुपर्यन्तस्याङ्गत्वात्तस्य लुहुपरत्वेन देवात्पूर्वमप्यडापत्तः, अङ्गसंज्ञायां प्रत्ययनिमित्तकत्वाभावेन लुङादिनिरुपिताङ्गस्येत्यर्थस्य दुर्लभत्वादिति प्रत्ययग्रहणमावश्यकमेवेति दिक् ।।
सन्निपातेति । (सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य) इति परिभाषास्वरूपम् । सन्निपातः संश्लेषः लक्षणं निमित्तं यस्य स सन्निपातलक्षणो विधिः सन्निपातं यो विहन्ति स तद्विघातस्तस्यानिमित्तम्भवतीत्यर्थः । सन्निपातं निमित्तीकृत्य जायमानो विधिः स्वातिरि. क्तसम्बन्धविघातके शास्त्रे निमित्तं नेति फलितम् । उपजीव्यविरोधो न न्याय्य इत्येतन्मूलिकेयं परिभाषा । यथा पितुरुत्पन्नः पुत्रः पितरं न हन्ति, तद्वदुपजीवकविधिः स्वोपजीव्य. धानस्य चारितार्थ्यमिति नाभिधेयम् । ज्ञापकपरभाष्यप्रामाण्यादेतदनभिधानात् । णिलोपल्य स्थानिवत्त्वादातोऽप्राप्तेश्चेति बोध्यम् ।
(१) *न लुमता तस्मिन्निति । लुमता शब्देन लुप्ने तस्मिन् (प्रत्यये ) परतो यत्पूस्य कार्य तन्नेति तदर्थः ।
Aho! Shrutgyanam