SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ अजन्तपुल्लिङ्गप्रकरणम् । ३७ अनुपदिष्टत्वे उपदिष्टैरगृहीतत्वे च सति श्रूयमाणा इत्यर्थः, ते चानुस्वारविसर्ग जिन्हा मुलीयोपध्मानीययमास्तेषामट्सूपदेशादुरः केणेत्यादौ विसर्गव्यवधाने णत्वसिद्धिः । भवामि भविष्यामीति । भूघातो लेटि लुटि च रूपम् । तदादिग्रहणाभावेऽत्रातो दीर्घो यजीति दीर्घो न स्यात् । भवतेः शमिपोर्विधानेन तस्मिन् भू इत्यस्यैवाङ्गत्वात्तस्त्र चादन्तत्वाभावात्सुत्रा प्राप्तेः । न च सूत्रारम्भसामर्थ्यात्तत्र दीर्घ इति वाच्यम् । चिकीर्षामीत्यादौ तस्य सावकाशत्वादिति तत्र दीर्घाय तदादिग्रहणमावश्यकम् एवं करोमीत्यादौ गुगार्थमपि तदादिग्रहणमिति भावः । " विधिरिति किम् । (१) स्त्री इयतीति । अयम्भावः, इदम्शब्दाद्वतुपि तस्य घत्वे 'आयनेयीत्यनेन तस्येयादेशे इयदिति 'इदं किमो रीक्की' ति इदम ईशादेशे तस्य यस्येति लोपे उगत्वान्ङीपि इयतीति सिद्धम् तस्य स्त्रीशब्दसमभिव्याहारे स्त्री इयतीत्यस्थायां विधिग्रहणाभावे यस्मात्प्रत्ययः परस्तस्मिन्तदङ्गसंज्ञमित्यर्थे इयत्प्रत्ययस्य स्त्रीशब्दात्परत्वेन तस्मिन् स्त्रीशब्दस्याङ्गसंज्ञायां स्त्रिया इत्यनेनेयडापत्तिः कृते विधिग्रहणे इयत् प्रत्यये परे स्त्रीशब्दस्य नाङ्गत्वं स्त्रीशब्दादियतोऽविधानात् अतो विधिग्रहणं कर्त्तव्यम् । नच कृतेऽपि विधिग्रहणे स्त्रीरूपस्याऽङ्गस्येयङ् स्यादजादौ प्रत्यय इत्यर्थे स्त्रीशब्दस्य सुनिरूपिताऽङ्गत्वविशिष्टत्वादुक्तापत्तेस्तादवस्थ्यमेवेति वाच्यम् । प्रत्यासत्याऽजादिप्रत्यय निरूपिताङ्गत्वविशिष्टस्य स्त्रीशब्दस्येयङित्यर्थं नोक्तापत्तेरयोगात् । न च यस्येति लोपस्याभीयत्वेनासिद्धत्वान्न तत्रेयङापत्तिरूपदोष इति वाच्यम् । 'यस्येति चेति लोपापेक्षया 'त्रिया' इत्यस्याधिser araब्दस्यापेक्षत्वात्समानाश्रयत्वाभावेनासिद्धत्वाप्राप्तेः । समानाश्रयत्वञ्च असिद्धत्वाश्रयशास्त्र सम्बन्धिनिमित्तसमुद्दायान्यूनानतिरिक्ताश्रयकत्वम् । नच 'वाम्शो' रित्युत्तरसूत्र साहचर्य्यात्या इति सूत्रस्यापि अजादिष्येव प्रवृत्या न दोष इति वाच्यम् । सूत्राऽन्तरसाहचर्य्यस्य भाष्ये क्वाप्यदृष्टत्वेन दोषस्य तादवस्थ्यात । (२) किञ्च भक्तीत्यादौ 'अतो दीर्घा यत्री'ति दीर्घापत्तिर्दुर्बारा श्रमि परे भशब्दस्याङ्गसंज्ञत्वात् । न च तत्र 'भूखबोस्तिङी'त्यतस्तिङोऽनुवृच्याऽदन्ताङ्गस्य दीर्घः स्यात्तिङि सार्वधातुक इत्यर्थे इनमः सार्वधातुकत्वेऽपि तिङ्त्वाभावाद्दीर्घाऽप्राप्त्या न कश्चिद्दोष इति वाच्यम् । ( ३ ) तथा सति 'ज्ञानोर्जे 'तिसूत्रस्थभाष्यविरोधस्य दुर्व्वारत्वात् । तत्र हि जबिधानेऽपि अतो दीर्घो यनीति दीर्घेण जानातीत्यादेरुपपत्तौ दीर्घविधानं व्यर्थं सज्ज्ञापयति (४) (अङ्गवृतौ पुनर्वृत्ता (१) स्त्रीति । स्त्यायते टि डिस्वाहिलोपे टित्वान्डीपि च रूपम् । (२) किश्चेति* । सूत्रान्तरसाहचर्यग्रहणस्य भाष्यादृष्टत्वेऽपि यथा कथञ्चि सदभ्युपगमे दोषाभावाद्विधिग्रहणमकिञ्चित्करमित्यभिप्रेत्य दोषान्तरमाह (३) *तथासतीति । उक्तदीर्घविधायके तिङः सम्बन्धे सतीत्यर्थः । (४) अङ्गवृत्ताविति । अङ्ग अङ्गाधिकारे वृत्तं निष्पन्नं यत्कार्यं तस्मिन्सति । पुनरन्यस्याऽऽङ्गकार्यस्य वृत्तौ प्रवृत्तावविधानं भवति इति तदर्थः । एषा च परिभाषा | जादेशे दीर्घविधानेन ज्ञापिता, तत्प्रकारश्च मूल एव स्पष्टीकृतः । ज्यादादीयस इत्याद्विधानेनापि ज्ञापिता तत्प्रकारश्चेत्थम् । ज्याददीयस इत्येवास्तु सूत्रम् ईयस ईकारलोपेनाकृत्सार्वं इति दीर्घेण च सिद्धे व्यर्थमा द्विधानं परिभाषाज्ञापकम् । ज्यायः शब्दाण्ण्यन्तात्क्विपि णिलोप-यलोपयोः, पुनस्तस्माण्णिजन्तात्किपि पुकि निष्पन्नात् ज्यापशब्दादीयसुनि ज्यापायानिति सियर्थमाद्वि ४ फ०र० Aho! Shrutgyanam
SR No.009875
Book TitleFakkika Ratna Manjusha
Original Sutra AuthorN/A
AuthorKanaklal Thakur
PublisherHarikrishna Nibandh Bhawan Benaras
Publication Year1932
Total Pages280
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy