________________
फक्विकारत्नमञ्जूषायाम्विशिष्टे सत्त्वात्सम्बुद्धिसंज्ञायामित्संज्ञोकारविशिष्टस्यवोद्देश्यत्वेन तस्याऽल्विधित्वाभावात्स्थानिवत्वेनाऽमि सम्बुद्धित्वलाभेन मकारे तदवयवत्वस्याक्षतत्वादिति प्राञ्चः। ___ नव्यास्तु-सम्बुद्धिः प्रत्यय, इति (१)(प्रत्ययग्रहण) परिभाषया तदादिपदोपस्थितिः सचेह योग्यतया पञ्चम्यन्तस्तम्बिशेष्यभूतमादाय तत्र विशेषणीभूताभ्यामेडहस्वाभ्यां येन विधिरित्यनेन तदन्तविधौ एङन्ततदादेहस्वान्ततदादेश्च परस्य सम्बुद्धेरवयवस्य हलो लोप इत्यर्थे न कुत्राप्यव्याप्त्यतिव्याप्तिदोष इति वदन्ति । खण्डयन्ति च प्राचीनाभिमतमङ्गा. क्षेपं, तथाहि, पीनोऽयं देवदत्तो दिवा न भुंक्ते इत्यादौ दिवाभोजनाभावादनुपपन्नस्य पीनत्वस्योपपत्तये यथा रात्रिभोजनाक्षेप उपयोगी न तथा प्रकृतेऽङ्गाक्षेपः सम्बुद्धेरिति फलाभावान्न (२)तया तस्याक्षेपः समुचितः । किञ्च सम्बुद्धयुत्पत्तावङ्गस्यापेक्षितत्वेऽपि तज्ज्ञाने तदनपेक्षितत्वेन शास्त्रे तदाक्षेपे मानाभावः । अङ्गाक्षेपामाबादेव 'अङ्गस्येति सूत्रेsa स्थाने प्रत्यय इत्यधिकारः कार्य इति पक्षे प्राकरोदित्यादाबुपसर्गात्पूर्बमडादिः स्यादिः शङ्कायां प्रत्ययग्रहगप्ररिभाषया समाहितं भाष्यकृता नत्वङ्गाक्षेपेणेति दिक् ॥
ननु गुण-सम्बुद्धिलोपयोः प्राप्तयोः परनिमित्तापेक्षाद्गुणात्प्रागन्तरङ्गत्वेन सम्बुद्धिलोपे ततः प्रत्ययलक्षणेन सम्बुद्धिपरत्वाद्गुणे रूपसिद्धिः । से प्रभृतीनामनभिधानान्न दोषः, सत्यभिधाने एग्रहणेनैव सिद्धौ प्रत्याहाराश्रयणं व्यर्थमित्यभिप्रायेण शंकते-एङग्रहणं किमिति । समाधत्ते-हे हरे, हे विष्णो इति । इत्थमाशयः, अत्र हि, परत्वान्नित्य. त्वाच्चेत्यत्र चकारेणानवकाशत्बसंग्रहः तथा च अनवकाशत्वात्पूर्व गुणे कृते सम्बुद्धिलोपो न स्यादत एग्रहणम् । नचैङ्ग्रहणसत्वे(३)(सन्निपात) परिभाषया कथं लोप इति वाच्य . म् । गुणात्सम्बुद्धेरिति वक्तव्ये एङ् हस्वग्रहणसामर्थ्यादुक्तपरिभाषाया अप्रवृत्तिकल्पनात् । अत एव हे लक्ष्मि इत्यादौ सम्बुद्धिलोपः । मूलोक्तं परत्वादिति समाधानमभ्युच्चयः ततोऽ ऽपि बलवतो नित्यत्वादिति समाधानस्य सत्वात् । इदमपि समाधानमयुक्तम् अन्तरड़ा. त्वेन कृतायाशङ्काया नित्यत्वेन समाधानस्यासंगतेस्ततोऽप्यन्तरङ्गस्यैव (४)बलीयस्त्वादित्यलम् ॥
ननु (६)पर्याणद्धमित्यत्रोपसर्गादसमासेऽपीति णत्वे सिद्धे सूत्रे आग्रहणं व्यर्थमि. त्यत आह-पदव्यवायेऽपीति । नुम्ग्रहणमनुस्वारोपलक्षणार्थमिति । तेन तुंहणं वृंहणमित्यादौ णत्वसिद्धिः । प्रेन्वनमित्यादौ न णत्वम् । अनुस्वाराव्यवायात्तदप्राप्तः नुम्ग्रहणस्यानुस्वारोपलक्षकत्वे हि तद्वय वधाने एव णत्वं यथा स्यान्न तु तदव्यवधान इति भावः । अयोगवाहानामिति । अविद्यमानो वर्णसमाम्नाये योगो येषान्तेऽयो. गाः। बाहयन्ति प्रयोगं निर्वाहयन्ति ये ते वाहाः अयोगाश्च ते वाहाः अयोगवाहाः
(१)*प्रत्ययग्रहणेति । प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणमिति परिभाषास्वरूपम् ।
(२) *तयेति । सम्बुद्येत्यर्थः । (३)*सन्निपातेति* । सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति परिभाषास्वरूपम् । (४) *बलीयस्त्वादिति । तदुक्तं पूर्वपरनित्यान्तर ङ्गापवादानामुत्तरोत्तरं वलीय इति । (५) *पर्याणमिति* । परि आङ् पूर्वात् णह धातोः । क्तप्रत्यये रूपम् ।
Aho! Shrutgyanam