________________
अजन्तपुल्लिङ्गप्रकरणम् ।
कारः । प्रावर्त्तिनोऽपवादा अनन्तरान् सन्निकृष्टान् विधीनेव बाधन्ते नोत्तरान् अनन्तरापेक्षया व्यवहितानिति तदर्थः । तथा च 'अतोगुणे' इति सूत्रं सवर्णदीर्घमेवबाधते ननु पूर्वसवर्णदीर्घमिति न दोष इति भावः, अयं न्यायो 'नादिवी' तीज्ग्रहणेन ज्ञापितः, तथाहि रामनित्यादौ निषेधाभावाय सूत्रे तद्ग्रहणम् पररूपेण दीर्घबावे हि तद्वैयथ्यं स्पष्टमेवेति दिक् ॥ ननु (येन बिना यदनुपपन्नं तत्तेनाक्षिष्यते ) यथा पोनोऽयं देवदत्तो दिवा न भुङ्क्ते इत्यादौ पीनत्वानुपपत्त्या रात्रिभोजनस्याक्षेपस्तद्वददङ्गं बिना सम्बुद्ध्यनुपपत्त्या तया तस्याक्षेपस्तथा च ( येन यस्याक्षेपस्तस्य तत्रैवान्वयः ) इति न्यायादङ्गस्य सम्बुद्धिविशेषगत्वमेव न्याय्यम् । (१) श्रुतानुमितयोः श्रुतसम्बन्धो बलीयानि ) ति न्यायात् एड्हस्वयोर्हल विशेषणत्वमेव न्याय्यम् । तथाहि अङ्गात्परा या सम्बुद्धिस्तदवयवो यो इल् स च लुप्यते एड्स्वाभ्यां परिभ्रतश्चेदिति सूत्रार्थः समुचितस्तम्बिहायाऽन्यथा सूत्रार्थवर्णनमनुचितमित्याह-सम्बुद्ध्याक्षिप्तस्येति । अयमाशयः, तथा सति हे कतरदित्यत्राऽङ्गात्परीभूताया अदितिसम्बुद्धेरवयवस्य हलस्तकाररूपस्य लोप आपद्येत, अतो लक्ष्यानुरोधात् ( श्रुतानुमितयोः श्रुतसम्बन्धो बलीयान् ) इतिन्यायं तिरस्कृत्य, एड्स्वयोरनुमितस्याऽव्यङ्गस्य विशेषणत्वमभ्युपेयम् । एवञ्च हस्वान्ताङ्गात्परत्वाभावेन न तत्र सम्बुद्धिलोपः । नचाङ्गात्परा या सम्बुद्धिस्तदवयवो यो हल् स च लुप्यते सा च सम्बुद्धिरेवाभ्यां परीभूता चेदित्यर्थे अदिति सम्बुद्धेह स्वात्परत्वाभावेनैव तत्रत्यातिव्याप्तिदोषव्यावृत्तिसह्रस्वयोरनुमिताङ्गविशेषणत्वे किम्फलमित्यत आह- हे कुलेति । उक्तार्थस्वीकारेवाव्याप्तिदोषापत्तिः, तथाहि, अत्र 'स्वमोर्नपुंसकादित्यतः प्राक् परत्वात् 'अतोऽमि' ति सोरमादेशे 'अमि पूर्व' इति पूर्वरूपत्वे उभयत आश्रयणेऽन्तादिवद्भावाऽप्रवृत्त्या तदभ्युपगमेऽपि सम्बुद्धयोः पौर्वापय्र्यव्यवहारासम्भवेन ताद्रूपस्याऽतिदेष्टुमशक्यत्वेन च सम्बुद्धेः ह्रस्वान्ताङ्गात्परत्वाभावात्तल्लोपो न स्यात् । अतोऽन्याक्षिप्तस्याऽप्यन्यत्रान्वयः, अर्थादे ह्रस्वयोरङ्गविशेषणत्वमङ्गीकार्यं तथा सति मूलोक्तार्थसम्पन्नत्वेन लोपोपपत्तिः सुलभा । नव ( २ ) ( एकदेशविकृतमनन्यवत् ) इति न्यायेन मकारे सम्बुद्धित्वानयनात्तस्य कुलेत्यकारान्ताङ्गात्परत्येन न लोपाऽनुपपत्तिरिति वाच्यम् । अर्द्धविकारेऽर्द्धाधिकविकारे च सत्प्रवृत्त्यनङ्गीकारात् । उक्तपरिमाणनिष्ठत्वादेकवचनसंज्ञा-सम्बुद्धिसंज्ञयोरुक्तन्यायेन लब्धुमश क्यत्वाच्च । न च मकारस्य स्थानिवचेन तत्र सम्बुद्धिलां सुलभमिति वाच्यम् । तस्यादेशत्वाभावात् । न च सिद्धान्ते, सम्बुद्धित्वस्य सकारमात्र निष्टत्वेन स्थानिभूताल्पत्वादनलिव धावितिनिषेघप्रवृत्या स्थानिवत्वाभावेनाऽमः सम्बुद्धित्वाभावेन कथम्मारे सम् त्वमिति वाच्यम् । संज्ञायाः शब्दवृत्तित्वादेकवचनसंज्ञायास्तदुपस्थाप्ये जायमानत्वेन
३५
(१) श्रुतानुमितयोरिति । श्रुतेनैव सम्बन्धो नानुमितेन प्रकरणादिप्राप्तेनेत्यर्थः । प्रकरणादितः श्रुतेर्वलवत्त्वात् इति भावः ।
( २ ) * एकदेशविकृतमिति । प्राग्दीव्यत इति सूत्रभाष्योक्तिरेवास्या ज्ञापिका । तत्र हि दाव्यतिशब्दकदशदीव्यच्छन्दानुकरणमिदमित्यभिधाय किमर्थं विकृतनिर्देश एतदेव ज्ञापयत्याचार्यो भवत्येषा परिभाषा एकदेशविकृतमनन्यवदित्युक्तमिति । लोकन्यायसिद्धोऽप्ययं न्यायः- यथा छिन्नपुच्छे शुनि चत्वव्यवहारस्तथा बिकृतावयवेष्वविकृतत्वव्यवहारः । एकदेशविकृतं यत्तद् अन्यवन्न भवतीत्यर्थः ।
Aho! Shrutgyanam