________________
३४
फक्किकारत्नमञ्जूषायाम्-- आर्यकेत्यवस्थायामात्स्थानिकाकाराभावात् 'उदीचामि'त्यस्याप्राप्तौ 'प्रत्ययस्थेति नि. त्यमित्वे आयिकेत्येकमेव रूपम् । एवं लोहितशब्दान्डीपः प्रागन्तरङ्गत्वात्कनि ततष्टाकि लोहितकेत्यवस्थायां तोपधत्वाभावेन 'वर्णादनुदात्तात्तोपधात्तो न' इत्यस्याप्राप्तौ 'प्रत्ययस्थेति नित्यमित्वे' लोहितिकेत्येकमेव रूपन्नतु आर्थियका आर्यका लोहिनिका लोहितिकेति याब्ग्रहणमावश्यकम् , कृते ड्याबग्रहणे तु तत्सामर्थ्यात्ताभ्यां प्रा न तद्धितोत्पत्तिरित्यर्थज्ञापनेन ड्याबन्तादेव तद्धितोत्पत्ताबुक्तरूपसिद्धिरिति । सूत्रे ड्याग्रहणं स्त्रीप्रत्ययमात्रोपलक्षणमर्थात्स्त्रीप्रत्ययमात्रं तद्धितोत्पत्तेः प्राग्भवतीति फलितम् तेन ब्रह्मबन्धूतरा युवतितरेत्यादेः सिद्धिः, अन्यथा स्त्रीप्रत्ययात्प्राव तद्धितोत्पत्ताबुक्तप्र. योगोपपत्तिर्न स्यात् । (१) अत्र वयोवाचके वैकल्पिकजातित्वस्य स्वीकाराजातेश्चेति निषेधेन न पुंवत्त्वम् । तद्धितोऽपि व्याख्यानात्समासान्तत्तिप्रत्ययाद्यतिरिक्त एवं गृह्यते तेन युवतिः, बहुगोमत्केति सिद्धम् । अन्यथा तिप्रत्ययात्कपश्च प्राड्डीपि यूनस्तिः बहगोमतिकेति स्यादिति प्राञ्चः । नागेशस्तु अत्यन्तस्वार्थिकानां सुबुत्पत्तेः पूर्वमेवोत्पत्ति. मङ्गीकृत्य (लोहिताल्लिङ्गबाधनम्बे) ति वात्तिकेन लोहिनिका लोहितिकेतिरूपद्वयम्प्रतिपा. द्य आर्थियकेत्येकमेव रूपमुक्तवान् । नागेशोक्तिरियमयुक्ता युक्ता वेति स्वयमूहनीया । वस्तुतस्तु स्वार्थद्रव्यलिंगसंख्याकारकेति पञ्चविधप्रातिपदिकार्थप्रयुक्तकार्याणां क्रमनियमः प्रथमं शब्दप्रवृत्तिनिमित्तत्त्वेन जातिबोधः, ततो धम्मित्वेन प्रधानत्वाल्लिङ्गादिभिरपेक्षित. त्वाच्च व्यक्तिबोधः, ततः स्वमानापेक्षत्वाल्लिङ्गबोधः, ततो विजातीयक्रियापेक्ष कारकापेक्ष. यासजातीयपदार्थापेक्षसंख्यायाः प्रथममुपस्थितत्वेन संख्याबोधः ततः कारकरूपविभक्त्यर्था. पेक्षया कारकबोधः ततो लिङ्गाकार्योत्तरमेव तद्धितोत्पत्तिरिति केचित् । उदीचामित्यार. म्भसामर्थ्यान्नोक्तफलसिद्धिः । आय्येव प्रतिकृतेत्यर्थे आय्यिकेत्यत्र 'इवेति प्रतिकृताविति कनः प्राक् टापि तत्र सूत्रस्य चारितार्थ्यादित्यलम् ॥
ननु रामशब्दात्सौ तस्य रुत्वे राम रु इतिस्थितौ 'उपदेशेऽजनुनासिक इदित्येत. दृष्ट्या रुत्वस्यासिद्धत्वादुकारस्येत्संज्ञालोपयोरभावेन, स्थानिवत्वस्य त्रिपाद्यामप्रवृत्या रेफान्तस्य 'सुप्तिङन्तमिति पदत्वाभावेन च विसर्गो न स्यादिति चेन्न । न मने इत्यत्र नेतियोगं विभज्योसिद्धन्नेति व्याख्यानाद्रुत्वस्योक्तसूनदृष्ट्याऽसिद्धत्वाभावादकारस्येत्वे लोपे च रेफस्य स्थानिवत्त्वेन विसर्गस्य सुलभत्वादित्याशयेनाह-रुत्ववि. सगावात । 'ससजुषोरुरिति सत्वे 'खरवसानयोरिति विसर्गे च राम इति सिद्धमिति भावः ॥
ननु 'अतो गुणे । इत्यस्य सकलदीर्घबाधकत्वेन राम इत्यादौ 'प्रथमयोरिति पूर्वसवदी? न स्यादित्याशडक्याऽपवादविषयबाध्यविशेषचिन्तापक्षमूलन्यायेन समाधत्ते-परस्तादिति । (२)पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरानि) ति न्याया.
(१) *अत्रेति* । युवतितरेत्यत्रेत्यर्थः ।
(२) *पुरस्तादिति । अवश्यं स्वपरस्मिन्वाधनोये प्रथमोपस्थितानन्तरबाधेन चारित तायें पश्चादुपस्थितस्य ततः परस्य बाधे मानाभावः, आकांक्षाया निवृत्तेविप्रतिषेधशास्त्रबाधे मानाभावाचेति परिभाषायां बीजम् ।
Aho ! Shrutgyanam