________________
अजन्तपुल्लिङ्गप्रकरणम् ।
३३ हिरङ्गो लुग्बाधते ) इति परिभाषया श्रयमाणसपा समासे राजन् ङस् कुमारी इत्यस्याप्रत्ययान्ततदादित्वेन पूर्वसूत्रेणैव प्रातिपदिकत्वसिद्धौ समासग्रहणवैयर्थ्यस्य तादवस्थ्यात् । शक्ति-लक्षणा व्यञ्जनाऽन्यतमत्वेनार्थबोधजनकत्वमर्थवन्वमिति स्वीकाराच्छशङ्गमित्यादौ तदभावात्प्रातिपदिकत्वाप्राप्तौ तदर्थ समासग्रहणं विध्यर्थमिति वाच्यम् । तत्रापि बौद्धा. र्थशक्तिस्वीकारात्संज्ञासिद्धेय॑थमेव समासग्रहणमित्यत आह-पूर्वसूत्रेणैव सिद्धे समास. ग्रहणं नियमार्थमिति । पूर्वभागः पदमिति । स्वातन्त्र्येण प्रयोगार्थिवत्पदमिति तद. र्थः । तेन गवित्ययमाहेत्याद्यनुकरणशब्दे गो इत्यस्यासुबन्तत्वेऽपि स्वातन्त्र्येण प्रयोगार्हार्थवत्त्व रूपपदत्वसत्वान्नियमफलोपपत्तिः । इति शब्दपरत्वाभावे अपिशब्दबलेन तत्परत्वे च 'अनुकरणञ्चानिति परमि' त्यनेनानुकरणत्वबोधनात्तस्यापि स्वातन्त्र्येण प्रयोगार्हत्वात् । पूर्वभाग: पदमिति उत्तरस्तु प्रत्ययो नेत्यस्याप्युपलक्षणम् । तेन जन्मवानित्यादौ प्रातिपदिकत्वसिद्धिः अन्यथा 'स्वादिष्वि' त्यनेन पूर्वभागस्य पदत्वात्सा न स्यान्नियमेन तव्यावृत्तेः । नच तत्र तद्धितग्रहणसामर्थ्यादेव प्रातिपदिकत्वोपपत्तिरिति वाच्यम् । तस्य भानव इत्यादौ चारितार्थ्यात् तत्र पूर्वभागस्य भत्वं न तु पदत्वम् । नचैवमयमियानित्यादिसमुदायस्य प्रातिपदिकत्वं स्यादेव पूर्वभागस्य पदत्वेप्युत्तरस्य प्रत्ययत्वादनेन नियमेन वारयितुमशक्यत्वादिति स्पष्टं मनोरमायाम् । वस्तुतस्तु पूर्व इत्यनेनाक्षिप्तः परोपि स्वातन्त्र्येण प्रयोगाहर्थिवानेव गृह्यते तेन पुत्रकाम्यादौ न दोष इति भावः । ननु ज्ञापकस्य स्वांशे चारि. तायं फलमन्यत्रेत्यस्य प्रसिद्धत्वात्समासग्रहणस्य ज्ञापकत्वां न स्यादुक्तज्ञापनोत्तरं तस्य स्वांशे चारितार्थ्याभावादिति चेन्न । ( यावता बिना नोपपत्तिस्तावत्सर्व ज्ञापयती ) ति न्यायेन पूर्वसूत्रे पूर्वभागपदघटितसंघातातिरिक्तार्थवत एव ग्रहणमिति संकोचेन समासे वाक्ये च पूर्वसूत्रेण प्रातिपदिकसंज्ञाया अप्राप्तौ समासे संज्ञासिद्धये समासग्रहणस्य स्वांशे चारिता
र्थ्यात् । यत्र सजातेत्यादिमूलोक्तो न नियमाकारः किन्तु साजात्यप्रदर्शनमात्रम् । तदाका. रस्तु व्यर्थीभूतशास्त्रीयोद्देश्यतावच्छेदकव्यापकम्वैयर्थ्यप्रयोजकशास्त्रीयोद्देश्यतावच्छेदकव्याप्यं यद्रुपं तद्पावच्छिन्नातिरिक्तत्वेन वैयर्थ्यप्रयोजकशास्त्रीयोद्देश्यतावच्छेदकावच्छिन्ने संकोच इत्येव तथा च प्रकृते, व्यर्थीभूतसमासग्रहणरूपशास्त्रीयोद्देश्यतावच्छेदकसमाससंज्ञकार्थवत्वव्याप्यं यदूपं पूर्वभागपदघटितसंघातत्वं तद्रूपावच्छिन्नातिरिक्तत्वेन वैयर्थ्य प्रयोजकशास्त्रीयोद्देश्यतावच्छेदकावच्छिन्नेऽर्थवति संकोच इति दिक् ।
नमु रमा गौरीत्यादौ (१)(प्रातिपदिकग्रहण) इति परिभाषयैव प्रातिपदिकपदेन ड्यावन्तस्यापि ग्रहणाल्वादिसिद्धौ ‘ड्याप्प्रातिपदिकादिति सुत्रे ड्याग्रहणं व्यर्थमित्याशयेन शङ्कते-प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापीत्यादि । इत्थं हि समाधा. तुरभिप्रायः, उक्तसूत्रे ड्याग्रहणाभावे, आर्यशब्दाहापः प्रागन्तरङ्गत्वात्कनि ततष्टापि सरप्रत्यये परे त्वादेशविधानार्थमुक्तसूत्रं व्यर्थ सत्परिभाषां ज्ञापयति । तव पुत्रस्त्वत्पुत्र इत्यादौ तवममादिवाधनाथं ज्ञापकीभूतोक्तसूत्ररय चारितार्थं तु अनानुवृत्तस्य मपर्यन्तग्रहणस्यैव ज्ञापकत्वं बोध्यम् । उत्सर्गसमानदेशा अपवादा इति न्यायेन मपर्यन्तस्यैवादेशसिद्धौ व्यर्था सती मपर्यन्तानुवृत्तिः परिभाषाज्ञापिकेति भावः ।
(१) *प्रातिपदिकाहणेति । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति स्वरूपम् ।
Aho! Shrutgyanam