________________
૨૨
फक्किकारत्नमञ्जूषायाम्--- नसमासग्रहणं वपर्थमित्यभिप्रायकः सन्देहो जागर्ति-अनसमासे किमिति । एतद्. ग्रहणेनैव सामर्थ्यान्नसमासे उत्तरपदार्थस्य प्राधान्यमिति ज्ञापनान्यदाद्यत्वस्य प्रवृत्त्या हल्ङ्यादिलोपाप्राप्तौ तच्छब्दात्परस्य सोर्लोपवारणार्थमनभ्समासग्रहणमावश्यकमित्थं मनसि निधाय सन्देह व्यावर्त्तयति-प्रसः शिव इति । मत्पुरुषे उत्तर पदार्थप्रधानत्वाकल्पनात् अतौ स्त इत्यत्र द्विवचनस्य, अत्वं भवसीत्यादौ पुरुषव्यवस्थायाश्च नोपपत्तिः । उक्तकल्पनादेव, उत्तरपदार्थप्रधानस्तत्पुरुष इति प्रवादः सङ्गच्छते इति भावः ॥ इति फक्किकारत्नमञ्जूषायां स्वादिसन्धिः ।।
__ इति पञ्चसन्धिप्रकरणम् ॥
अथाऽजन्तपुल्लिङ्गप्रकरणम् । अर्थवदिति । अत्र सूत्रेऽर्थवत्वम् एतत्संज्ञाफलभूतविभक्तीतरसमभिव्याहारानपेक्ष. या लोकेऽर्थविषयकबोधजनकत्वमिति नव्याः ।।
प्राचीनास्तु-अर्थवत्सूत्रे सर्वप्रसिद्धसाधारणं वृत्तिमत्त्वमेवार्थवत्त्वम् । अयमाशयः, वृत्तिज्ञानाधीनोपस्थितिप्रयोज्यबोधजनकत्वेन तात्पर्यविषयत्वम् । अत एवं रामादिघटक. रेफादेबोधाजननेऽपि रामादेश्च प्रातिपदिकत्वोपपत्तिः । ननु पर्युदासेनाऽर्थवत्त्वलाभेऽर्थवदन. हणं व्यर्थमिति चेन्न । उत्तरार्थत्वात् । न चेहकरणं व्यर्थ मिति वाच्यम् । इह किञ्चित्रपो इति न्यायेनाऽर्थवत्वेनैव सादृश्यग्रहणे प्रमाणान्वेषणप्रयासक्लेशनिवृत्तिरूपफलेन साफल्यात् । प्रत्ययेवतिव्याप्तिवारणं तु अप्रत्ययपदावृत्त्योत्तरसूत्रघटकतद्धितग्रहणबोधितया सुव्यक्तमेव । नचैतदेव गौरवं दूषणमिति वाच्यम् । नवीनोक्तार्थवत्त्वलक्षणपरिष्कारप्रकारप्रयासबाहुल्यापेक्षयाऽस्य लघुत्वात् । उत्तरसूत्रे एकार्थी भावपर्याप्त्यधिकरणत्वमेवार्थवत्वमित्याहुः ॥
ननु पाचक औपगव इत्यादौ प्रत्ययान्तत्वेन प्रत्ययान्तपर्युदासेन निषेधात्पूर्वसूत्रेण प्रातिपदिकत्वाप्रसक्तौ तदर्थमुत्तरसूत्रे कृत्तद्धितोहणावश्यकत्वेऽपि समासे राजपुरुष इत्यादौ (२)प्रत्ययग्रहणपरिभाषया ङसन्तस्यैव स्वन्तस्यैव च प्रत्ययान्ततदादित्वबोधनात्समुदायस्य प्रत्ययान्ततदादिभिन्नत्वेन पूर्वेणैव तत्सिद्धौ समासग्रहणं व्यर्थम् । नच राज्ञः कुमारी राजकुमारीत्यादावन्तरङ्गत्वेन हल्ङयादिलोपेऽनुपसर्जनस्त्री प्रत्यये तदादिनियमाभावादर्थादतदादावपि तदादित्वारोपाद्राजन् ङस् कुमारीत्यस्य प्रत्ययान्ततदादित्वात्पूर्वसूत्रेण प्रातिपदिकत्वसिद्धया तदर्थं समासग्रहणं विध्यर्थमिति वाच्यम् (२)अन्तरङ्गानपि विधीन्व.
(१) *प्रत्ययग्रहणपरिभाषयेति । प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणमिति परिभाषास्वरूपम् । यस्मात्प्रत्ययविधिरितिसूत्रे यस्मात्प्रत्ययविधिस्तदादीत्येको योगः प्रत्यये इत्यपरो योगः। गृह्यमाणे उपतिष्ठते इति शेषः । तथाच प्रत्यये गृह्यमाणे यस्मात्प्रत्ययविधिस्तदादीत्युपतिष्ठते इति तदाद्यन्तसिद्धिः । तदन्तांशसिद्धिस्तु विशेष्यान्तरासत्त्वे शब्दरूपविशेष्यमादाय येन विधिरित्यनेनैव । अत एवोक्तपरिभाषा लभ्यते इति बोध्यम् ।
(२) *अन्तरङ्गानपीति । प्रत्ययोत्तरपदयोश्चेति सूत्रमस्यां ज्ञापक तथा हि, त्वत्कृतमित्यादौ लुगपेक्षयाऽन्तरङ्गत्वाद्विभक्तिनिमिसकेन त्वमावेकवचने इत्यनेनैव त्वादेशसिद्धावु.
Aho! Shrutgyanam