________________
स्वादिसन्धिप्रकरणम् । तृहू वृह धातुभ्यां क्तप्रत्यये उदित्त्वेन वेट्कत्वात् 'यस्य विभाषा' इति निष्टाया इनिषेधे ढत्व-धत्व ष्टत्व-ढलोपेषु कृतेषु निष्पन्ने उक्तप्रयोगे ऋकारस्यान्त्वेन दीर्घापत्तिरतस्तद्ग्रहणं कृतं कृते च तस्मिन् ऋकारस्याणत्वाभावान्नोक्तापत्तिः । न च परणकारेणाऽणो ग्रहणे सत्यपि खस्मिन् तत्रत्योक्तदोषस्तदवस्थ एवेति वाच्यम् । अत्र पूर्वेणैवाणग्रहणस्य सिद्धान्तितत्वा. त् । अन्यथोक्तरीत्थैव सिद्धौ स्पष्टमेवाणग्रहणस्य वैयर्यमिति भावः ॥ ___ ननु 'ठूलोप' इत्यत्र सप्तमीश्रवणात्तस्मिन्निति परिभाषोपस्थित्यैव पूर्वस्येत्यर्थलाभादिष्टसिद्धौ सूत्रे पूर्वस्येति व्यर्थमेवेस्याशङ्का समाधत्ते-पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थमिति । पूर्वग्रहणासत्त्वे 'अलुगुत्तरपदे' इत्यत उत्तरपदोपस्थिती ठूलोपनिमित्तयोरुत्तरपदस्थढरेफयोः परयोः पूर्वस्याऽणो दीर्घ इत्यर्थे अजर्घा, लीड इत्यादौ दीर्घानापत्तिः, उत्तरपदस्थढरेफपरकत्वाभावादुत्तरपदशब्दस्य समासचरमावयवे रूढत्वात् । नचाणग्रहणसामर्थ्यादेव तत्र दीर्घव्यावृत्यर्थत्वेन तस्य चरितार्थत्वात् । न च सूत्रारम्भसाम.
•देव दीर्घोऽस्त्विति चेन्न । नीरक्तं दूरक्तं मित्यादौ तस्य सावकाशत्वात् । न च ढलोपादेपैपादिकत्वेनासिद्धत्वाद्दीर्घाऽप्राप्रया तत्र सूत्रसावकाशत्वप्रदर्शनमसङ्गतमिति वाच्यम् । सुत्रारम्भसामर्थ्यादेवासिद्धत्वस्य बाधेन दीर्घप्रवृत्तिमुलभतया सावकाशत्वप्रदर्शनस्य युक्त. त्वात् । इत्यावश्यकेन पूर्वग्रहणेन सामर्थ्यादुत्तरपदानुपस्थितौ न कश्चिहोष इति भावः ॥
मनोरथ इति । मनस् रथ इति स्थितौ सकारस्य रुत्वे कृते प्राप्तयोरुत्व-लोपयोर्म. ध्ये कः स्यादिति सन्देहस्य जातत्वादाह-विप्रतिषेधे परं कार्यमिति । कर्मव्यतिहारे विद्यमानाद्विप्रतिपूर्वकात्सेधतेर्घमि निष्पन्नस्य विप्रतिषेधशब्दस्य परस्परविरोधरूपोऽ. र्थः । (१)नित्यान्तरङ्गापवादभिन्नोऽस्य विषय इत्यभिप्रेत्योक्तार्थकविप्रतिषेधशब्दस्य पर्य्यवसितमाह-(२)तुल्यबलविरोध इति । तस्मिन् सति परं कार्यमिति तेन बोधिते देवो हसतीत्यादौ सावकाशस्य 'हशिचे त्यस्य पुना रमते इत्यादौ लब्धावकाशेन 'रोरी ति लोपेन परत्वाद्वाचे प्राप्ते 'पूर्वत्रासिद्धमित्यनेनोत्वदृष्टया लोपस्यासिद्धत्वबोधनासिद्धासिद्धयोरसमानबलवत्त्वेन विप्रतिषेधशास्त्राप्रबृत्या बाधकामावादुत्वमेवेति तत्सिद्धिः, तदुक्तं, पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्येति । पुर्वत्रासिद्धमित्यत्रशास्त्रासिद्ध. त्वमुत कार्यासिद्धत्वमिति तत्रैव निरूपितमिति तत एवाऽवसेयमिति भावः ॥
ननु साकच्कयोरेतत्तदोः शब्दान्तरत्वेन तद्विषये सूत्राऽप्राप्त्याऽतिप्रसङ्गाभावादकोरिति व्यर्थमित्यभिप्रेत्य शङ्कते-अकोः किमिति । समाधत्ते-एषको रुद्र इति । अकोरित्यनेनैव सामर्थ्यात् ( तन्मध्यपतित ) न्यायस्य ज्ञापनादकविशिष्टयोस्तयोरेतत्तच्छब्दाभ्यां ग्रहणात्तत्र प्राप्तहलोपव्यावृत्यर्थन्तदावश्यकमिति भावः ॥
ननु नमोऽभावोऽर्थस्तत्र प्रतियोगिनस्तच्छब्दस्य विशेषणत्वेन पूर्वपदार्थस्याऽभावरूपस्य प्राधान्यादुत्तरपदार्थस्योक्तविशेषणस्याप्राधान्येनोपसर्जनत्वात् 'त्यदादानाम' इत्यस्याप्रवृत्या हल्ड्यादिलोपस्य दुर्वारतया नन्समासे तच्छब्दात्परस्य सोर्लोपव्यावृत्यर्थम
(१) नित्यान्तरङ्गति* । नित्यस्यावश्यकतयाऽन्तरङ्गस्य ज्ञापकत्वादिनाऽपवादस्य वचनप्रामाण्याद्वाधकत्वे निश्चिते तद्भिन्नोऽस्य विषय इत्याह नित्येत्यादि ।
(२) *तुल्यबलेति । स्वांशे स्वांशे लब्धावकाशयोरेकत्र युगपत्प्राप्तिरूपः सः ।
Aho ! Shrutgyanam