________________
फक्किकारत्नमञ्जूषायाम्--
क्तकार्यस्य वा लभेन तदुपपत्तेरिति दिक् ॥ ___ ननु उनः पदत्वस्याव्यभिचरितत्वेन पदे इति तद्विशेषणं व्यर्थमित्यत आह-पदे किमिति । तदुत्तस्यति-तन्त्रयुतमिति । इत्थं तदाशयः, पदे इत्यस्याग्रहणे तन्त्रय (१)उतमिति स्थितौ उज परत्वाद्यलोपापत्तिरतस्तद्ग्रहणं सति च तस्मिन् उपरत्वेऽपि तस्य पदत्वान्न तदापत्तिः । नच लक्षणप्रतिपदोक्तपरिभाषया चादिपठितप्रतिपदोक्तस्यैवाऽत्र सूत्रे उघोग्रहणेन सम्प्रसारणनिष्पन्नस्य लाक्षणिकस्य तस्याग्रहणात्तत्रत्योक्तदोषव्यावृत्तौ व्यर्थमेव तद्विशेषणमिति वाच्यम् । उत्तरार्थत्वेन तस्य चारिताथ्यांत । तथाहि, 'ङ्मो इस्वादची' त्यत्र 'उनि च पदे' इत्यतः पदे ग्रहणमनुवर्त्य हस्वात्परो यो उम् तदन्तं यत्पदं तस्मात्परस्याजादेः पदस्य ङमुडिति व्याख्यानेन परमदण्डिनावित्यादौ न ङमुद् आवित्य. स्य पदत्वाभावादिति प्राञ्चः । वस्तुतस्तु पदे ग्रहणस्योत्तरसूत्रेऽपि नोपयोगः । तत्र पदस्येत्यनुवृत्त्यैव निर्वाहात् । तदनुवृत्तौ हस्वात्परो यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमु. डित्यर्थे उत्तरपवे चेति प्रत्ययलक्षणनिषेधात्परमदण्डिनित्यस्यान्तर्वतिविभक्त्या पदत्वासम्भवान्डमन्तपदात्परस्याचोऽभावेनैव डमुटोऽप्रसक्तरित्युत्तराशयः । यदि माषकुम्भवापेने. त्यादौ ‘पदव्यवायेऽपीति निषेध इत्युच्येत तहि तत्र प्राप्तमुनिवृत्तये प्राचीनव्याख्योनमेव शरणम् इति युक्तमेव पदेग्रहणमुत्तरार्थमिति कथनम् । ननु 'हलि सर्वेषाम्' इत्यत्र पदेग्रहणमनुवर्त्य हलादौ पदे इत्यर्थलाभे वृक्षवभ्यामित्यादौ न नित्यवलोपः । किन्तु 'लोपः शाकल्यस्येति वैकल्पिक एव स इति पदेग्रहणस्य प्रयोजनमस्तीति चेन्न । हलि सर्वेषामित्यत्र वकारस्याननुवृत्याऽनेन लोपाप्राप्त्या वैकल्पिक एव लोपे पदेग्रहणस्य निष्प्रयोजनवादित्यलम् ॥ ___ ननु 'रोऽसपि' इत्यत्रापिग्रहणाऽभावे तस्य सुप्यपि प्रवृत्यापत्तावहन्सूत्रस्य वैयथ्येन सामर्थ्यादुक्तसूत्रस्य सुपि न प्रवृत्तिरिति कल्पनादसुप्येव तत्प्रवृत्तौ व्यर्थमेव तद्ग्रह. णमित्यभिप्रायकः पूर्वपक्षः प्रादुर्भवति-असुपि किमिति । तं समाधत्ते-अहोभ्यामिति । अयम्भावः, (२)तथा सति, अहः, अहोभ्यामित्यादौ नकारस्य रेफादेशे तस्य नलोपदृष्टयाऽसिद्धत्वेन प्राप्तनलोपव्यावृत्त्यर्थमावृत्तेरावश्यकत्वेन तदर्थमहन्सूत्रस्यावश्यक. त्वादनेनोक्तकल्पनायाः कर्तुमशक्यत्वेन रोऽसुपीत्यस्य सुप्यपि प्रवृत्तावुक्तप्रयोगासिद्धयाप. त्तिरित्यावश्यकमेव सूत्रे तद्ग्रहणमित्यलम् ॥ __ननु सूत्रे दीर्घपदश्रवणात् 'अचश्चेति परिभाषोपस्थितावच एव दीर्घविधानासिद्धौ व्यर्थमेवाण्ग्रहणमित्यत आह-श्रणः किमिति । प्रत्युदाहरति-तृढः वृढः इति । देशभावः शब्दानित्यत्ववारणाय स्वीकृतः । एतत्स्वरूपन्तु तदबुद्धिप्रसंगे एतबुद्धिः क. तव्येति । प्रकृते हे राम इति वुद्धिः कर्तव्येति । ___ अथवा हे रामस् इत्युच्चारणप्रसंगे उक्तानुशासनवलात् हे राम इत्युच्चारणीयम् । अथवा हे रामस् इत्यस्य स्थाने हे राम इत्यादेशः, एतद्रुप आनुमानिकस्थान्यादेशभावः । तथा च रामेत्यादेशस्य स्थानी रामस् इति तद्वृत्तिसुबन्तत्वस्य स्थानिवद्भावेनादेशे सुलभतया पद. त्वं निरावाधमेवेति भावः।
(१) *उतमितीति । वेजः क्तप्रत्यये सम्प्रसारणे रूपं सिध्यति । (२) *तथा सतीति । असुपीत्यस्याभावेऽहनसूत्रविषये रोऽसुपोति सूत्रे प्रवृत्ते सतीत्यर्थः।
Aho! Shrutgyanam