________________
स्वादिसन्धिप्रकरणम् ।
२९
स्थानिवत्वबुद्धया यत्वप्रवृत्तौ दोषस्य दुर्वारत्वात् । नच विसर्गेऽतिदेशेन स्त्वानयनासम्भवो रेफस्यैव विसर्गस्थानित्वात् । एवं च रत्वस्यैवातिदेशस्तथाचाऽनल्विधावि. त्यस्य स्थानिसम्बन्ध्यत्मात्रवृत्तिधम्मश्रियोद्देश्यताकविधौ न स्थानिवत्त्वमित्यर्थे विसर्गस्थानिसम्बन्ध्यलूरेफमात्रवृत्तिरत्वधर्माश्रयो द्देश्यकयत्वविधेः कर्त्तव्यस्वेन स्थानिवस्त्रनिषे. धान दोष इति वाच्यम् । रोरिति समुदायरूपस्याश्रयणेन रुत्वस्यात्मात्रवृत्तित्वादन लिवधाविति निषेधाप्रवृत्या स्थानिवत्वस्य सुलभत्वेन दोषस्य तादवस्थ्यात् । विसर्गस्थानिनिरेफे रत्व-रत्वोभयधर्मस्य सत्वादतिदेशेन यथेच्छयाऽतिदेष्टुं शक्यत्वाद्भुत्वातिदेशे कर्त्तव्ये निषेधाप्रवृत्तिरित्युत्तराशय इति ( १ ) प्राञ्चः । ( २ ) नन्वास्तु स्ववृत्यत्त्वव्याप्यधर्मावच्छि न स्थानिता निरूपित | देशतावद्धम्मिकाशेपप्रकारीभूतधर्मावच्छिन्नोद्देश्यता के काय्यें न स्थानिवत्वमित्यर्थः तथा च स्वपदेन स्थानी गृह्यते स च रेफस्तद्वृत्तीयोऽस्त्वव्याप्यो धर्मः स च रत्वं तदवच्छिन्ना स्थानिता रेफनिष्ठा तन्निरूपितादेशतावान् विसर्गः स धर्मी यस्य एतादृशो य आरोपप्रकारीभूतो धर्मः स च रत्वं रुत्वञ्च तदवच्छिन्नो रेफो रुशब्दश्च तन्निष्ठोद्देश्यता निरुपितविधेयताश्रये यत्वरूपे कार्ये कर्त्तव्ये स्थानिवत्त्वनिषेधाद्देवाः सन्तीत्यादौ दोषाभावेनाऽस्याऽश्ग्रहणप्रत्युदाहरणत्वासम्भवात् छन्दः पयःस्वित्यादावुक्तदोषस्य स्पष्टत्वादेतदेव तत्प्रत्युदाहरणम्बोध्यम् । तत्र हि 'शेःपि' इति विसर्गस्य स्थानी रुशब्दस्तद्रवृत्तिरुत्वस्य रशब्देऽपि सत्वादल्त्वव्याप्यधम्मंत्वाभावेन रुत्वावच्छिन्न स्थानिताया अल्त्वव्याप्यधर्मावच्छिन्नत्वाभावेन निषेधाप्रवृत्तावतिदेशेन रुत्वबुद्ध्या तत्वापत्तेर्दुर्वास्तया प्रत्युदाहरणत्वोपपत्तिरिति तद्भावः । यदि च रोः पीत्यत्रापि रः षष्ठ्यन्तस्यानुवृत्तौ शेर्यो रेफस्तस्य विसर्ग इत्यर्थे सत्वावच्छिन्नस्थानिताया अलूत्वव्याप्यधर्मावच्छिन्नत्वेनोक्तनिषेधप्रवृत्त्योक्तस्थलीयदोषव्यावृत्तिस्तहिं ( ३ ) अदृष्टार्थं मश्ग्रहणमित्याहुः । न च परिष्कृतार्थस्वीकारे ' ग्रहोsलिटी'त्यत्र दीर्घशब्देनाऽचोविधानात् 'अचश्चेति परिभाषोपस्थिताविटोऽचोदीर्घ इत्यर्थे अच्त्वावच्छिन्नस्थानिताया अल्त्वव्याप्यधर्मावच्छिन्नत्वेन तादृशस्थानितारूपितादेशतावान् अग्रीदित्यन्त्राग्रहीस् इत् इति स्थितौ सकारात्पूर्वा दीर्घ ईकारस्तद्धर्मिकारोप. प्रकारीभूतो धर्म इत्वं तदबच्छिन्नोद्देश्यता निरूपित्तविधेयताश्रयत्वं सलोपस्येत्यनल्विधाविति निषेधादित्वस्यानतिदेशेन सलोपानुपपत्त्याऽग्रहीदिति न सिद्ध्येदिति वाच्यम् । (४) तत्रापि अभिनेत्वावच्छिन्नस्यैव स्थानित्वात्तादृशधर्मस्या ल्त्वव्याप्यत्वाभावेन नि. धाप्रवृत्त्या स्थानिवचेनेट्त्वाऽऽनयनात्सलोपे तदुपपत्तेः । नचोक्तार्थस्वीरे हे रामेत्यादौ सम्बुद्ध्यवयवस्य हलः सस्य लोपे तद्वृत्ति सप्त्वस्यालधर्म्मत्वात्स्था नित्त्वनिषेधे कथं पदत्वमिति वाच्यम् । (५) आनुमानिकादेशस्य रामेत्यस्य स्थानिवत्त्वात्सुबन्तत्वस्य तत्प्रयु
( १ ) प्राञ्च इति । दीक्षितादयः ।
( २ ) *नव्यास्त्विति नागेशप्रभृतयः ।
( ३ ) *अदृष्टार्थमिति । अदृष्टोऽर्थः प्रयोजनं यस्य तत् अदृष्टार्थम् पारायणादौ पुण्यजननप्रयोजनकमित्यर्थः ।
( ४ ) *तत्रापीति । ग्रहोऽलिटीत्यत्रापीत्यर्थः ।
(५) * आनुमानिकेति । आनुमानिक अनुमानानिकः । एवं चानुमानिकस्थान्या
Aho! Shrutgyanam