________________
फक्किकारस्नमञ्जूषायाम्नेनैवोक्तकल्पना कर्तुं शक्यते न तपरकरणेनेति तद्ग्रहगमावश्यकं सति तस्मिन् सामर्थ्यानासिद्ध त्वमिति न तत्र दोषः, अग्रहणे तु प्लुतस्योत्वं प्रत्यसिद्धत्वात्स्यादेव दोष इति निष्कर्षः । नवाप्लुताद्ग्रहणज्ञापितस्योत्वे प्लुतल्यासिद्धत्वन्नेत्यस्याभ्युपगमे 'दूराद्भूते चे' ति प्लुतस्य गुरोरनृत' इति प्लुतस्य चोत्वदृष्ट्या सिद्धत्वेन परत्वात्प्लुते पूर्वत्र रोरप्लुत. परत्वाभावात्परत्र चाप्लुतात्परत्वाभावात 'अतो रोरि त्यस्याप्राप्त्या पयस्यटति पयाददातीत्यर्थं आगच्छ हे पयोऽ३८ आगच्छ हे पयो३देत्यादाबुत्वानापत्तिरिति वाच्यम् । एक. पदस्थवर्णद्वयापेक्षमन्तरङ्गमुत्वं प्रति वाक्यसम्पादकपदान्तरापेक्षबहिरङ्गाप्लुतस्यासिद्धत्वेना. त्वोपपत्तेः । अन्तरङ्गत्वात्प्रागुत्वे ततः प्लुते च नोक्तदोषावकाशः, अन्यथा शडादलोयोक्तः रीत्या तत्रोत्वं नैव स्यादिति भावः । नचोक्तपरिभाषायास्सापादिकत्वेनैतदृष्ट्या त्रैपादिकस्य प्लुतस्यासिद्धत्वात्कथं तत्प्रवृत्तिरिति वाच्यम् । स्वदृष्ट्या विद्यमानस्य परं प्रत्यविद्यमानत्वप्रतिपादनवत् परिभाषादृष्ट्या प्लुतस्याऽसिद्धत्वेपि तया तदसिद्धत्वप्रतिपादनप्य कतुं शक्यत्वात् । न च त्रिपाद्यां तत्प्रवृत्तौ (नेय त्रिपाद्यां प्रवर्तत) इति सिद्धान्त. विरोध इति वाच्यम् । पादिकाऽन्तरङ्गस्यासिद्धत्वे तु प्रतिपाद्याभावात्प्रतिपादनासम्भवेन तदप्रवृत्तः । यत्रान्तरङ्गशास्त्रं सापादिकं त्रैपादिकं च बहिरङ्गशास्त्रं तत्रान्तरण शास्त्रे परिभाषा प्रवर्तते । परिभाषादृष्ट्या तस्य सिद्धत्वेन प्रतिपाद्यस्य सत्वात् । यत्रत्व. न्तरङ्गशास्त्रं त्रैपादिकं तत्रान्तरङ्गशास्त्रे परिभाषा न प्रवर्तते। तादृशाऽन्तरङ्गशास्त्रस्यासिद. त्वेन प्रतिपाद्याभावादित्युत्तराशयः। ननु प्रतियोगित्वेन प्लुतस्याश्रयणसामात् (१)उ. भयविधासिद्धत्वस्य बाधोऽस्त्विति चेन्न । आश्रयणसामन तु (येन नाप्राप्ति) न्यायेन प्रत्यक्षत्वात्पूर्वत्रासिद्धत्वस्यैव बाधो न त्वन्तरङ्गपरिभाषया बोध्यासिद्धत्वस्यापि मानाभा. वात् । नबोक्तपरिभाषया प्रागुत्वे ततः प्लुते च मुश्रोत ३ इत्यत्रैवोत्वापत्तिप्रदर्शनस्यैवौ. चित्येन पयोऽ३ट् पयो३देत्यादी तया तदनापत्तिप्रदर्शनमनुचितमिति वाच्यम् । तत्रान्तरगत्वात्प्लुतस्यैव प्रवृत्योत्वाप्राप्त्या तदनापत्तेरिहप्रदर्शनस्यैवौचित्यात्। तथा हि, एकमात्रसापेक्षत्वेन प्लुतोऽन्तरङ्गः, भिन्नवाक्यस्थाकारसापेक्षत्वादुत्वं बहिरङ्गमित्यलम् ॥
असन्धिः सौत्र इति । सूत्रे कृतः सौत्रः 'कृतलब्धक्रीतकुशलः' इत्यण । भगो अघोशब्दयोरोकारस्याकारस्य च पूर्वरूपात्मकः सन्धिः सौत्रत्वान्नेति तदर्थः । भोस् भगोस् अधोस् इति सान्तानां वा रान्तानामनुकरणे तु यत्व-यलोपयोर्दुरित्वात्तत्रासन्धिाय्य एवेति भावः । नच सान्ताऽनुकरणेनैव यत्व-यलोपाभ्यां सन्ध्यभावोपपत्तावलं रान्तानुकरणे. नेति वाच्यम् । विभाषा भवद्भगवदघवतामोच्चावस्येति वार्तिकनिष्पन्नानां भवदादिप्रकृ. तिकार्ना भो शब्दादीनामपि ग्रहणाय रान्तानुकरणस्यावश्यकत्वादिति बोध्यम् ॥
ननु विसर्ग-यत्वयोः प्राप्तयोर्यत्वस्य विसर्गदृष्ट्याऽसिद्धत्वेन स एव स्यान्नतु यत्व. मिति तद्वयावृत्त्यर्थमशग्रहणं व्यर्थमेवेत्यमिप्रेत्य शइते-शि किमिति । तन्निराचष्टेदेवाः सन्तीति । अयम्भावः, अशग्रहणाभावे अवर्णपूर्वकरोः सत्वेन तत्र यत्वापत्तिरतस्तत् सति च तस्मिन्नश्परत्वात्वाभावान्न तदापत्तिः । नच यत्वस्यासिद्धत्वेन विसर्ग एवं न तदिति न दोष इति वाच्यम् । यत्वस्य विसर्गदृष्ट्याऽसिद्धत्वेन तल्लाभेऽपि तस्य
(१) *उभयेति । पूर्वत्रासिद्धत्वस्य परिभाषाबोध्याऽसिद्ध्यत्वस्य चेत्यर्थः ।
Aho! Shrutgyanam