________________
स्वादिसन्धिप्रकरणम् ।
२७ ननु उत्वदृष्ट्या यत्वस्यासिद्धत्वेन कृतेऽप्युत्वे तस्य स्थानिवद्भावाद्रुत्वबुद्धया यत्वं स्यादित्याह-यत्वस्यापवाद इति । अयम्भावः, तदप्राप्तियोग्येऽचारितार्थं सति कृते च तस्मिञ्चारितार्थ्यमिति तक्रन्यायमूलक (येन नाप्राप्ति) न्यायस्य बाधवीजम् । तथा च उत्सर्गशास्त्रस्य भो भगो अघो इत्यस्याप्राप्तियोग्यस्थलेऽचारितायेंनोत्वेन यत्वस्य तेन न्यायेन बाधे न पुनर्यत्वप्राप्तिः । सर्वेभ्यो ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्यायेत्यत्र यथा तक्रदानेन दधिदानबाधे न पुनर्दधिदानं तद्वदिति दिक् ॥ ___ननु उत्वविधायकशास्त्रस्य सापादिकत्वेन तदृष्ट्या रुत्वस्यासिद्धत्वादुत्वं न स्यादित्यत आह-उत्वं प्रति रुत्वं नासिद्ध रुत्वमनूद्योत्वविधेः सामादिति । यद्येवं तहि उत्वविधानं व्यर्थमेव स्यादिति सामर्थ्यादसिद्धत्वाभावकल्पनान्न दोष इति भावः । नच त्रिपाद्यां 'रोः सुपी' तपस्याग्रे 'अत उरति' इति सूत्रपाठेनैवासिद्धत्वाभावो. पपत्तावलमेतेन सामर्थ्याश्रयणप्रयासेनेति वाच्यम् । तथा सति, उत्वस्यासिद्धत्वेन गुणप्रस क्या शिवोऽर्च्य इत्याद्यसिद्धथापत्तेः । मनोरथ इत्यत्र रोरीति लोपापत्तेश्चेति दिक् ।।
शिवोऽय॑ इति । ननु शिव उ अW इति स्थितौ प्राप्त 'आद्गुण' इति गुणं बा. धित्वा प्राप्ते 'प्रथमयोरिति पूर्वसवर्णदीर्घ पश्चात्तस्य 'नादिची' त्यनेन बाधेऽपि (१)(भ्र. टावसर)न्यायस्य जागरूकत्वात्पुनर्गुणों न स्यादिति चेन्न । 'तो सत्! 'भिद्योद्धयो नदे? इत्यादिनि शेनोक्तन्यायस्यात्रानाश्रयणेन गुणप्रवृत्तः मुलभत्वात् । (देवदत्तहन्तृहत)न्या. यस्य तु नात्र प्रवृत्तिः । देवदत्ते हते सति तद्धन्तुर्हनने न पुनर्देवदत्तोज्जीवनमित्युक्तन्यायार्थात् । देवदत्तहननप्रसक्तयज्ञदत्तहनने स्वस्त्येव देवदत्तोज्जीवनम् , प्रकृते न हननस्थानी. या वृद्धिहन्तुः पूर्वसवर्णदीर्घस्य लक्ष्ये प्रवृत्तिः, किन्तु हननोद्यमसजातीयं प्रसक्तिमात्रं प्रस. क्तस्य बाधे बाध्योज्जीवने न बाधकमिति भावः ॥ __ ननु अतः परस्य रो रुत्वं स्यादप्लुतेऽतीत्यर्थकेन 'अतो रोरप्लुते, इथतैव सूत्रे शिवोऽर्च्य इत्यादावुत्वसिद्धौ व्यर्थमेवाप्लुताद्ग्रहणमित्याशयेन शङ्कते-अप्लुतात्किमि ति। समाधत्ते-एहि सुश्रोत३ अत्र स्नाहीति । अयम्भावः, तदभावे उक्तप्रयोगे प्लुताकारात्परस्यापि रोरुत्वापत्तिरतस्तद्ग्रहणम् । नचात इत्यत्र तपरकरणात् 'तपरस्तत्कालस्ये' त्यनेन तपरसमकालिकहस्वस्यैव ग्रहणात्प्लुतस्याग्रहणेन तस्मात्परस्य रोरतः परत्वाभावादेव तत्रोत्वव्यावृत्तावप्लुताद्ग्रहणं सर्वथा व्यर्थमेवेति बाच्यम् । उत्वदृष्ट्या प्लुतस्यासिद्धस्वादतः परत्वस्य सद्भावेन प्राप्तोत्वव्यावृत्तये तस्य सार्थक्यात् । ननु प्लुतस्योत्वदृष्ट्याऽसिद्धत्वेनातः परत्वस्य सद्भावात्कृतेऽप्यप्लुताद्ग्रहणेन तत्रोत्वाप. त्तिस्तदवस्थैवेत्यत आह-अप्लुतादिति विशेषणे तु तत्सामर्थ्यान्नासिद्धत्वमिति । सति तु तस्मिन् प्रतियोगित्वेन प्लुतस्याश्रयणसामर्थ्यादसिद्धत्वं नेति तदर्थः । तत्सत्वेऽऽप्यसिद्धत्वे सर्वथा तद्वैयर्थ्य स्यादिति भावः । नचात इत्यत्र तपरकरणसामर्थ्यादेवोक्त. स्थलीयोक्तदोषोद्धारसम्भवात्तदर्थ कृतमप्लुताग्रहणं व्यर्थमेवेति वाच्यम् । देवा अत्रेत्या. दौ दोर्धाकारात्परस्य रोरुत्त्ववारणाय तपरकरणस्य चरितार्थत्येन सामर्थ्य विरहात्ताशकल्पनायास्तेन कर्तुमशक्यतया तदर्थमावश्यकत्वेन तस्य साफल्यात् । तस्मादप्लुतादित्य
(१) *भ्रष्टावसरेति* । यस्यावसरो भ्रष्टः स पुनर्न प्रवर्तते इति न्यायस्वरूपम् ।
Aho! Shrutgyanam