________________
फक्किकारत्नमञ्जूषायाम्कृतस्याप्लुताद्ग्रहणस्य स्पष्टमेव वैयर्थ्यमिति वाच्यम् (१)देवदत्ता ३ गतो ग्रामान किमि त्यादौ 'अनन्त्यस्यापि प्रश्नाख्यानयोः' एतद्विहितप्लुतविषये प्लुताकारात्परस्य प्रत्यय. भूतस्य रोरुत्वाभावाय तस्य चारिताथ्यन ज्ञापकत्वासम्भवात् । नचात इत्यत्र तपरकरण. सामर्थ्यादुक्तकल्पनान्नोक्तदोषः, अन्यथा देवा अत्रेत्यादौ जसः सकारस्य रुत्वे तस्योत्वदृष्टयाऽसिद्धत्वेन दीर्घाकारात्परस्य रोरभावादेवोत्वव्यावृत्तौ तदर्थ तपरकरणं निष्प्रयोजन मिति वाच्यम् । विश्वपा अत्रेन्यादौ दीर्घात्परस्य प्रत्ययभूतस्य रोरुत्वव्यावृत्तये तपरकरणस्यावश्यकत्वात् । न च रूपरात्रिरथन्तरेध्विति वार्तिकारम्भसामर्थ्यादुक्तार्थः कल्प्य. तामेवञ्च नोक्तदोषः, अन्यथा रुत्वस्यासिद्धत्वादुत्वाप्राप्त्या वार्तिकल्य सत्त्वेऽसत्त्वे वा अहो रूपमित्यादेरनुपपत्या स्पष्टमेव तद्वयर्थमिति वाच्यम् । अहः-अहोभ्यामित्यादौ नलोपह. ट्या रत्बरुत्वयोरसिद्धत्वात्प्राप्तनलोपव्यावृत्यर्थ कृतायामहन्निति सूत्रावृत्तौ ज्ञापकत्वेन चारितार्थ्यात् । सामर्थ्यविरहेण (२)इह ज्ञापकत्वस्य वक्तुशमक्यतया अहन् शब्दात्परस्य रोरुत्वे कर्तव्ये नासिद्धिरिति विशेषापेक्षज्ञापनेन वार्तिकस्य चरितार्थत्वे प्रमाणाभावात्सा. मान्यापेक्षज्ञापनस्य वक्तुमशक्यतया वा तत्रत्यो दोषस्तदवस्थ एव तस्मादर्वाचीनाभिप्रेतन्यासो नाङ्गीकार्य इति । यत्तु अत इत्यत्र तपरकरणादेवेत्यारभ्य चिन्त्यमिदमित्याहुः केचिदित्यन्तं, तन्न । तपरकरणस्य पूर्वप्रदर्शितप्रयोगे चारितार्थ्यात् यच्च एतु जात३ रत्र स्नासि किमित्यादावप्लुताद्ग्रहणं चरितार्थ, तदपि न । ज्ञाधातोर्जन धातोर्वा तृचि 'ज्ञाजनोज ति जादेशस्य 'जनसनखना सन्झलोरि त्यात्वस्य चाप्राप्त्योक्तप्रयोगस्य सर्वथाऽनु. पपत्तेः । पूर्वसूत्रेण शिति जादेशस्य, उत्तरसूत्रेण झलादौ सनि झलाको किति चात्वस्य व विधानेनोक्तनिमित्ताभावात् । यद्यपि जनधातोः क्तप्रत्यये जातशब्दस्य निष्पत्तिस्तथापि रेफघटित उक्तप्रयोगोऽसाधुरेव, प्लुतश्रवणादुत्वाप्राप्त्या यत्वयलोपयोर्दुरित्वात् । एवञ्च जात३ अनेत्येव साधुरित्यलम् ॥ ___ ननु यत्र यत्र पदान्तसकारस्तत्र सर्वत्र जश्त्वप्राप्तौ रुत्वविधानं व्यर्थमेव स्यादित्याश. येनाह-जश्त्वापवाद इति । बाध्यविशेषचिन्ताश्रयणे (येन नाप्राप्रि) न्यायेन रुत जश्त्वस्य बाधकमिति भावः । बाध्यसामान्यचिन्ताश्रयणे तु श्रेयानित्यादौ संयोगान्तलो. पानापत्तिः । तथाहि, जश्त्वशास्त्रदृष्ट्या रुत्वशास्त्रस्यासिद्धत्वाभावाय रुत्वशास्ने पूर्वत्रा. सिद्धमित्यस्यानुपस्थितौ रुत्वस्य सिद्धत्वात्परत्वात्संयोगान्तलोपं बाधित्वा रुत्वे यणः प्र. तिषेधोदझलन्तत्वाच्च संयोगान्तलोपाप्राप्त्या तदनापत्तिः । अतः पूर्वपक्ष एव युक्तः, अत्र च पक्षे, न तत्र संयोगान्तलोपानापत्तिः । रुत्वशास्त्रे पूर्वनासिद्धमित्युपस्थिते पूर्व प्रति परमसिद्धमिति तेन बोधनाद्रुत्वशास्त्रापेक्षया संयोगान्तलोपस्य पूर्वत्वादेतदृष्ट्या रुत्वस्यासिद्धत्वेन प्रागुक्तलोपस्यैव प्रवृत्तेः । ससजुषोरुरित्यत्रोपस्थितपूर्वत्रासिद्धमित्यत्र पूर्वपदेन जश्त्वभिन्नस्य ग्रहणेनापि सिद्धौ सर्वथा तत्र तदनुपस्थितौ मण्डूकानुवृत्तौ च बीजाभाव इत्युत्तराशयः ॥
(१) *देवदत्तेति । नेदं जसिरूपं किन्तु प्रथमैकचन एव--दीर्घाकारश्रवणन्तु. प्लुत्येति बोध्यम् ।
(२) *इहेति । उत्वं प्रति रुत्यनासिद्धमित्यत्रेत्यर्थः ।
Aho! Shrutgyanam