________________
स्वादिसन्धिप्रकरणम् । समासग्रहणमेव प्रमाणम् । अन्यथा सामर्थ्यग्रहणानुवर्तनादेकार्थीभावस्य समासरूपत्वेन समासलाभे तद्ग्रडणं व्यर्थमेवेति दिक् ॥ ___ ननु 'अतः कृकमी'त्यनेनैव सत्वसिद्धौ कस्कादिषु सर्पिष्कुण्डिकाशब्दाठो व्यर्थ इत्यत आह-कस्कादिष्विति । व्यपेक्षाविरहेऽपीति । आनय सर्पिः कुण्डिका तिष्ठत्वित्यादौ । व्यपेक्षायामिति । इदं सर्पिः कुण्डिकाया इत्यादौ । यत्तु उत्तरपदस्थत्वेऽपि परमसर्पिः कुण्डिकाया इत्यत्रत्यषत्वार्थः कस्कादिषुपाठ इत्याहुस्तन्न । नित्यं समास इत्य. त्रानुत्तरपदग्रहणवैयापत्तेः । अव्युत्पत्तिपक्षे इदुदुपधस्येत्यनेन सिद्धेश्च, "प्रातिपदिकविज्ञा. नाच भगवतः पाणिनेः सिद्धमिति भाष्येणाव्युत्पत्तिपक्षस्यैवाङ्गीकारादेतस्मिन्पक्षेऽपि न दोष इतिभावः ।
ननु अतः कृकमीत्यत्र तपरकरणेन भास्कर इत्यत्र सत्वं न स्यादत आह-कस्कादिषु भास्कर इति । इति विसर्गसन्धिः ।
__ अथ स्वादिसन्धिप्रकरणम् । ननु 'स्वौजसमौडि'त्यत्र मुस्थाने रुरेव विधेयः सर्वत्र सकारस्थाने रुत्वस्यैव विधानेन प्रक्रियागौरवात् । तस्मात् जिसित्येव सूत्रं न्याय्यमिति यत्तदयुक्तमिति ध्वनयन्नाहस्वौजसमौडिति सुप्रत्यये कृते शिवस् अर्घ्य इति स्थित इति । अयम्भावः, तथा सति उत्वविधानस्य शिवोऽय॑ इत्यादौ चारितार्थं यशोऽनेत्यादावुत्वं प्रति रुत्वस्यालिद्धत्वेन यशोऽत्रेत्याद्यसिद्धयापत्तिरिति भावः।
(१) ननु 'स्वौजसमौडिरत्यन सुस्थाने रुरेव विधेयः । सर्वत्र सकारस्थाने रुत्वस्यैव विधानेन प्रक्रियागौरवात् । नचैवं 'सपि चे'त्यस्य स्थाने 'रुपिचेति सूत्रस्य कर्त्तव्यतापत्तो राम इत्यादौ दीर्घापत्तिरिति वाच्यम् । 'पथिमथ्यभुक्षामात्' इत्यनेन दोर्घा कारविधानसामथ्र्थन 'प्रत्ययः' 'परश्चे' त्यादिनिर्देशेन च प्रथमैकवचने दी? नेति ज्ञापनेनादोषात् । एवञ्च 'वौंजसिम्त्येव सूत्रं न्याय्यमिति यत्तदयुक्तमिति ध्वनयन्नाह-स्वौजसमौडिति सुप्रत्यये कते शिवस अर्घ्य इति स्थित इति । अयमेतदभिप्राय:, (२)तथासति (३) उत्वविधा नस्य रुविधानवादिमते शिवोऽर्च्य इत्यादौ चारितार्थे यशोऽन्न पयोऽनेत्यादावुत्वं प्रति रत्व. स्यासिद्धत्वादुत्वाभावेनोक्तप्रयोगासिद्धिरापद्येत । नवाऽप्लुतादूग्रहणसामर्यादुत्वे कर्तव्ये रुत्वस्यासिद्धत्वाभावकल्पनान्नोक्तप्रयोगालिद्धिः, इतरथा (४) एहि मुश्रोत ३ अत्र स्ना. हीत्यादाबुत्वदृष्ट्या रुत्वस्यासिद्धत्वेनोत्वाप्राप्त्या प्लुताकारात्परीभूतस्य रोरुत्वाभावाय
(१) *नन्विति इद संक्षेपतः पूर्वं व्याख्यातमपि पुनर्विशदरूपेण व्याख्यायते । (२) *तथासतीति* । रुप्रत्ययस्याङ्गीकारे सतीत्यर्थः ।
(३) *उत्वविधानस्येति । अयम्भावः, शिवोऽर्थ्य इत्यादौ रुप्रत्ययस्य सापादिकत्वेनोत्वदृष्ट्या नासिद्धत्वमिति न दोषः, यशोऽत्रेत्यादौ तु सुप्रत्ययस्य 'स्वमोर्नपुंसकादिति लुक प्रकृतिसकारस्य 'ससजुषोरुरि ति रुत्वे तस्य च पादिकत्वादुत्वदृष्टयाऽसिद्धत्वेनोत्वाना पत्तिदोषो बोध्यः । (४) एहीति । सुश्रोतस इति कस्यचित्संज्ञा 'दूराद्धूते चेति प्लुतः । ३फ० र०
Aho ! Shrutgyanam