________________
फक्किकारत्नमञ्जूषायाम्वात्प्रत्ययत्वाभावाच्च विसर्गपत्वयोर्भावाभावयोरुपपादनस्याशक्यत्वादप्रत्ययग्रहणप्योक्त. प्रत्युदाहरणदानमयुक्तमिति वाच्यम् । अप्रत्ययग्रहणसामर्थ्याद्वतिवटितातिदेशानां त्रिग. द्यामपि प्रवृत्तिरिति ज्ञापनेन स्थानिवत्सूत्रस्य त्रिपाद्यां प्रवृत्या प्रत्ययत्वस्य सुलभत्वेन प्रत्युदाहरणदानस्य युक्तत्वादिति तत्र षत्वव्यावृत्तयेऽप्रत्ययग्रहणमावश्यकमिति । न च दाधातोडुरप्रत्ययेन निष्पन्नत्वात् दुःकरोतीत्यादौ प्रत्ययसम्बन्धिविसर्गस्य षत्वाभावा. याप्रत्ययग्रहणस्य साफल्याज्ज्ञापकत्वमयुक्तमिति वाच्यम् । तथा सति द्विर्वचनादिग्रहमा स्यैवोक्तार्थे ज्ञापकत्वादिति भावः ।
ननु 'इदुदुपधस्येत्यनेन मातुः कृपेत्यत्र षत्वं स्यादित्याशझ्य समाधत्ते-एकादेशशास्त्रनिमित्तकस्येति । एकादेशशास्त्रं 'ऋत उदिति तन्निमित्तकस्य विसर्गस्य न षत्वमित्यर्थः । प्रमाणञ्चात्र कस्कादिकगणे भ्रातुष्पुत्रशब्दस्य पाठः । अन्यथाऽनेनैव पत्वे सिद्धे तत्रोक्तशब्दपाठस्य बैयर्थ्य स्यात् । नच ऋत उदित्यनेन कृते एकादेशे रपत्वे च मातुरित्यस्य निष्पन्नत्वादेकादेशनिमित्तकत्वं रेफस्यैव न तु विसर्गस्येति कथं निषेध इति वाच्यम् । एकादेशनिमित्तनिमित्तकस्य न षत्वमिति तदर्थेनादोषात् । नच षत्वतुकोरसि. द्ध'इत्यस्य सत्वेन षत्वे कर्तव्ये एकादेशस्यासिद्धत्वान्न षत्वमिति वाच्यम् । (पदान्तप. दाद्योरेवैकादेशोऽसिद्धो नान्यत्रे ) ति वार्तिकेनोक्तदोषाभावात् । (१) अन्यथा शकहूवित्यत्र पत्वं न स्यात् 'पत्वतुकोरित्यनेन पत्वे कर्तव्ये सम्प्रसारणाचेति पूर्वरूपैकादेशस्यासिद्धत्वेनाऽकारेण व्यवधानात् । उक्तवात्तिकोदाहरणन्तु कोऽसिवत् सोऽसिवदिति भावः ॥
ननु सुजन्तद्वि-त्रिशब्दसाहचय्यण सुजन्तस्यैव चतुश्शब्दस्य ग्रहणात्तस्यैव पत्ववैकल्पि. कत्वेन चतुष्कपाल इत्यत्रत्यचतुश्शब्दस्य सुजन्तत्वाभावेन दोषाभावात्कृत्वोऽर्थग्रहणं व्यर्थ. मित्यत आह-कृत्वोऽर्थे किमिति । समाधानमाह-चतुष्कपाल इति । अयम्भावः ध्यर्थ सज्ञापयति कृत्वोऽर्थग्रहणं (२) साहवर्यपरिभाषाऽनित्येति । एवञ्च सुजन्ताति. रिक्तस्यापि चतुश्शदस्य वैकल्पिकषत्वापत्तिरतस्तद्ग्रहणमावश्यकमिति । 'दोधीवेवीटामि' त्यत्र धातुसाह-प्यागमस्येटो ग्रहणमुक्तपरिभाषाऽनित्यत्वफलं बोध्यमिति दिक् ॥
ननु 'इससोः सोमर्थे। अत्र सूत्रे सामथ्यं पदेनैकार्थीभावस्य ग्रहणात्सर्पिष्करोतीत्यादौ तदभावादुक्तसूत्राप्रवृत्ताविदुदुपधस्येति नित्यमेव षत्वं परमसर्पिः कुण्डिकेत्यादावेकार्थी. भावरूपसमासेऽप्येतत्प्रवृत्त्या बैकल्पिकषत्वञ्च स्यादित्यत आह-सामर्थ्यमिह व्यपे. क्षेति । इहैव न त्वन्यत्रेति तदर्थः । “पूर्वयोगे सामर्थ्य व्यपेक्षारूपम् न चात्र व्यपेक्षा सामर्थ्यमित्युत्तरसूत्रे भाष्योक्तः । नच परमसर्पिः कुण्डिकेत्यादौ नित्यं समास इति षत्वापत्तिरिति वाच्यम् । अनुत्तरपदस्थस्येति निषेधात् । व्यपेक्षा च पृथगर्थानां पदाना. मार्काक्षादिवशाद्यः परस्परसम्बन्धः सा । स्वार्थपर्य्यवसायिनां पदानामेकार्थोपस्थितिजनकत्वमेकार्थीभावरूपसार्थ्यम् । व्यपेक्षारूपसामर्थ्यग्रहणे नित्य समासेऽत्र सूत्रे
(१) अन्यथेति । उक्तवार्तिकानङ्गीकारे ।
(२) *साहचर्यपरिभाषेति* । सहचरितासहचरितयोः सहचरितस्यैव ग्रहणमिति तत्स्व रूपम् ।
Aho! Shrutgyanam