________________
विसर्गसन्धिप्रकरणम् । अव्युत्पत्तिपक्षे प्रकृति-प्रत्ययविभागज्ञानाभावादुक्तपर्युदासाप्राप्त्याऽनुनासिकपक्षे इदुदुप. धस्येति प्राप्तषत्वमनुस्वारपक्षे च तेन व्यवधानादुदुपधत्वाभावात्षत्वाप्राप्त्या प्राप्तीक पौ च बाधित्वा सत्वमेवेति । पुँस्कोकिल इति सिद्धयतीति ।।
ननु चक्षिको ल्युटि "खुशादिस्यमादेश' इति प्रकृतसूत्रस्थभाष्यात् 'चक्षिङः ख्याल, इत्यनेन खुशालादेशे 'शस्य योवेत्यनेन शल्य यत्वे तस्यासिद्धप्रकरणस्थणत्वविधायकशा. स्त्रानन्तरपाठेन 'पुमः खय्यम्परे' इत्येतदृष्टयाऽसिद्धत्वादम्परकत्वाभावेनोक्तसूत्राप्राप्त्या न रत्वमित्याशयेनाह-ख्याआदेशे न, पुंख्यानमिति । नच (वर्जनाऽर्थेशनयोश्चे) ति निषेधात्कथमादेश इति वाच्यम् । ( बहुलन्तण्ण्यन्नबधकगात्रविचक्षणाजिराद्यर्थेष्वि) ति वार्तिकस्थबहुलग्रहणादुक्तनिषेधाप्रवृत्त्याऽऽदेशस्य सौलभ्यादिति भावः ॥
येन नाप्राप्ताविति । येन नाप्राप्ते यो विधिरारभ्यते स तस्य वाधको भवतीति न्यायाकारः (१)यत्कर्तृकावश्यप्राप्तौ यस्य विधेरारम्भः स तस्य बाधक इति तदर्थः । तथा च, विसर्जनीयस्य स एतत्कर्तृकावश्यप्राप्ती 'कुप्वोः क 'पौ चेत्येतस्य विधेयरम्भात्तस्यैवानेन बाधो न तु शर्परे विसर्जनीय इत्यस्य तद्विषये एतत्कर्तृकावश्यप्राप्तेरभा. वात् । नच खरवसानयोरित्येतद्विहितविसर्गस्य कुप्वोः क पौ चेत्येतदृष्टयासिद्ध. त्वात्तस्य सत्वमेव शर्परे विसर्जनीय इत्येतद्विहितविसर्गस्य तुक पो दुर्वाराविति वाच्यम् । शर्पर इति सुत्रस्य कुप्वोरित्यत्रानुवृत्त्या शर्परयोः कुप्वोः क पयोरपवादो विसर्गस्य विसर्ग इति वाक्यभेदेन व्याख्यानेनादोषात् । तेन वासः क्षौममित्यादौ विसर्ग एव न सत्वमिति दिक॥
ननु उभयनिदेशे पञ्चमीनिर्देशो वलीयानिति परिभाषया तस्मिन्नित्यतः तस्मादि. त्युत्तरस्येत्यस्य प्राबल्यबोधनात्तदुपस्थित्या दीर्घादिति पञ्चम्या छे इति सप्तम्याः षष्ठीप्र. कल्पनेन दीर्घात्परीभूतस्य छस्य तुगित्यर्थे छस्य तुगागमे छ कारोपरि चकारश्रवणापत्तिर्दु. वरित्याशहा समाधत्ते-दीर्घस्यायं तुगिति । उक्तरीत्या छकारस्य तुगागमे सेना 8राच्छायेति निर्देशासङ्गतिः स्यादत उक्तज्ञापकाद्वयाख्यानाच्च दीर्वादिति षष्ठयथें पञ्चमी एवञ्च दीर्घस्यैव तुग भवति न तु छस्येति नोक्तदोष इति भावः ॥
__ इति हलसन्धिप्रकरणम् ॥
अथ विसर्गसन्धिप्रकरणम् । अप्रत्ययस्थ किमिति । तदभावेऽग्निः करोतीत्यादौ प्रत्ययसम्बन्धिविसर्गस्य ष. त्वापत्तिरतस्तद्ग्रहणमावश्यकम् । नच विसर्गे प्रत्ययत्वं स्थानिवद्भावेन लभ्यं(२) तच्च न सम्भवति स्थानिवत्सूत्रदृष्ट्या विसर्गविधायकस्य त्रिपादीस्थत्वेनासिद्धतया पदान्तत्वाभा
(१) हयवरेति । तत्र हि भाष्ये इमे अयोगबाहा नक्वचिदुपदिश्यन्ते श्रूयन्ते च । तेषां कार्याथ उपदेशः कर्त्तव्यः। के पुनरयोगवाहाः विसर्जनीयजिह्वामूलीयोपध्मानीयानुस्वा. रयमाः । एषां कोपदेशः कर्त्तव्य इत्युक्त्वा अयोगवाहानामित्याधुक्तम् ।।
(२) *यणाद्यापत्तिरिति । यणाद्यापत्तिरित्यत्रादिपदेन सवर्णदीर्घा बोध्यः।
Aho! Shrutgyanam