________________
फक्किकारत्नमञ्जूषायाम्-- साफल्यादिति ॥ ____ ननु कुर्वन्तीत्यत्र 'रषाभ्यामि'त्यनेन णत्वं कुतो नेत्याशंक्य समाधत्ते-कुर्वन्तीत्य. त्रेति । कृमो लटि तत्स्थाने झो, 'तनादिकृभ्य उरित्यनेन उप्रत्यये 'सार्वधातुकार्धधातुकयोरित्यनेन गुणे 'अत उत्सार्वधातुके' इत्यनेनोदादेशे 'झोऽन्त' इत्यनेन झेरन्तादेशे यणादेशे च कृते प्राप्तस्योक्तणत्वविधायकशास्त्रस्य 'नश्वापदान्तस्येत्येतद्दृष्टया सिद्धत्वा. त्पूर्व कृतेऽनुस्वारे तस्य 'अनुस्वारस्य ययीत्यनेन नकारे परसवर्णे तस्य गत्वदृष्टयाऽसिद्धत्वान्नकाराभावेन न णत्वप्राप्तिारेति भावः ॥
सम् स्कर्तेत्यत्र 'समः सुटी ति समो मकारस्य रुत्वे 'अत्रानुनासिकः पूर्वस्येति पाक्षि. काऽनुनासिके, तदभावे 'अनुनासिकात्पर' इति अनुस्वारे च कृते 'खरवसानयोरिति विसर्गे तस्य (संपुकानामिति सत्वे सँस्स्कर्ता सस्स्कर्ता इति सकारद्वयघटितं रूपद्वयम् "समो वा लोपमेके' इति भाष्येण सकारस्य पाक्षिके लोपे तस्यापि रूप्रकरणस्थत्वेनाऽनुस्वाराऽनु नासिकाभ्यामेकसकारघटितं रूपद्वयं सँस्कर्ता, संस्कर्तेति । नच लोपपक्ष एवं द्वित्वेन द्वि. सकारकरूपसिद्धावलं समः सुटीत्यनेनेत्यत आह-त्रिसकारकमपीति । सकारत्रयघटितरूपसिद्ध्यर्थमावश्यकन्तदिति भावः । न च स्कोरिति सलोपः कुतो नेति वाच्यम् । "समो वा लोपमेक" एतद्विहितसलोपस्यासिद्धत्वेन तस्य संयोगादित्वाभावात् । ननु अनुस्वारस्यानच्त्वेन ततः परस्य सकारस्य द्वित्वासम्भवादनुस्वारपक्षे कथं त्रिसकारकरूप. सिद्धिरित्यत आह-अनुस्वारविसर्गेत्यादि । द्वित्वपक्षे अशेगवाहानामट्सूपसंख्यानं शर्ष चेति (१)हयवस्ट्सूत्रभाष्योक्तेरनुस्वारस्याप्यच्त्वात्ततः परस्य सकारस्य द्वित्वे संस्कर्ता संस्स्कर्तेति त्रिसकारकं रूपं सिद्धयति । न चानुस्वारादीनामचत्वे हरि स्मरेत् हरिः कर्ता रामः पातु इत्यादौ (२)यणाद्यापत्तिरिति वाच्यम् । यणादिदृष्टया विसर्गादीनां त्रिपादी. स्थत्वेनासिद्धत्वादिति भावः । अनुनासिकपक्षे त्रीणि । त्रीणि चानुस्वारपक्षे । एवं कृत्वा षड्पाणि । अनुनासिकपक्षे रूपत्रयघटकककारस्य 'शरः खय' इति द्वित्वे षट् । अनुस्वारपक्षे चानुस्वारस्य ककारस्य च द्वित्वे द्वादश इत्थं कृत्वाऽष्टादश रूपाणि । एषां तकारस्य 'अचो रहाभ्यामिति द्वित्वे (यणो मयो द्वे) इति बचनान्तरेण च द्वित्वे एकतं द्वितं त्रितमिति चतुष्पञ्चाशद्रूपाणि । 'अणोऽप्रगृह्यस्येति वैकल्पिकानुनासिकविधानादष्टोत्ताशतरू. पाणि बोध्यानीत्यलम् ॥
व्युत्पत्तिपक्षेऽप्रत्ययस्येति षत्वपर्युदासादिति । अयम्भावः पुम् कोकिल इति स्थितौ 'पुमः खय्यम्परे' इत्यनेन रुत्वे उक्तसूत्रद्वयेन अनुनासिकेऽनुस्वारे च विसर्गे व्युत्पत्तिपक्षे 'पूजो दुम्सुन्नित्यौणादिकसूत्रेण निष्पत्त्या प्रकृतिप्रत्ययविभागज्ञानादप्रत्यय. स्येतिपर्युदासादिदुदुपधस्येत्यस्याप्राप्त्या क पयोः प्राप्तौ (संपुंकानामि)ति सत्वम् ।
(१) यत्कर्तृकेति । विशेषशास्त्रोद्देश्यविशेषधर्मावच्छिन्नवृत्तिसामान्यधर्मावच्छिनो. देश्यकशास्त्रस्य विशेषशास्त्रेण वाध इति फलितम् । उत्सर्गशास्त्राप्राप्तियोग्येऽचारितार्थ्य
पवादशास्त्रस्य बाधकत्वे बीजम् । शास्त्रं स्वीयोद्देश्यतावच्छेदकव्यापकधर्मावच्छिन्नोद्देश्यताकस्य शास्त्रस्य बाधकमिति ततोऽपि फलितम् ।
(२) तच्चेति । प्रत्ययत्वञ्चेत्यर्थः ।
Aho ! Shrutgyanam