________________
हल्सन्धिप्रकरणम् । अत एव स्वर्नयति प्रातर्नयतीत्यादौ नानुनासिकः । नचैवमपि व्यक्तिपक्षे प्रतिलक्ष्यं लक्षणोपप्लवाङ्गीकारात् चतुर्मुख एतल्लक्ष्यविषयस्य यरोऽनुनासिकेऽनुनासिको वेत्यस्याचारितार्थ्यात्तत्रत्योक्तदोषस्तदवस्थ एवेति वाच्यम् । लक्ष्यानुरोधाज्जातिपक्षाश्रयणेन लक्ष्यत्व. जातेरैक्यादेतल्लक्ष्यविषयकस्याप्युक्तसूत्रस्य चरितार्थत्वेनादोषात् । वस्तुतस्तु व्यक्तिपक्षेऽपि नैव दोषः तादृशब्यक्तो चरितार्थस्योक्तशास्त्रस्यैतदूव्यक्तिविषयत्वेनानुपप्लवादिति ।। ___ननु ककुद्मन्त इत्यत्र प्रत्यये भाषायामित्यनेन कुतो नानुनासिक इत्यभिप्रायेण श. इते-कथन्तीति । समाधानमाह-दकारनिपातनादिति । अयम्भावः, तत्रानुनासिकस्येष्टत्वे प्रक्रियालाघवाय गुणेऽनुनासिकविशिष्ट एवं पठितव्ये प्रकृतिप्रत्ययविशिष्टपाठ. सामर्थ्यात्तदभावकल्पनेन नानुनासिकः । किञ्च यचि भन्वसौ मत्वथें इतिसंहितापाठे त. कारात्प्राक् चत्वेन दकारप्रश्लेषाद्भत्वेन पदत्वाभावादनुनासिकस्य न प्राप्तिः पदान्तस्यैव यरस्तेनानुनासिकत्वविधानादिति । तसाविति द्विवचनोपपत्तिस्तु तसयोर्द्वन्द्वोत्तरं दकारेण सहेतरेतरयोगाद्वोध्या । दकारेण समाहारद्वन्द्वोत्तरं सकारेण सहेतरेतरयोगेन तत्र द्विवचनं नोपपादनीयं सकारस्याल्पाच्तरत्वेन तस्य पूर्वनिपातापत्ते रित्यलम् ॥ ___ ननु उद् स्थानमित्यत्र 'तस्मादित्युत्तरस्येत्येतद्बाधकेन 'आदेः परस्येत्यनेन सकार. स्थाने प्रोप्तेषु 'उदःस्थास्तम्भोः पूर्वस्यैतद्विहितदकारसवणेषु त-थ-देषु युगपदेकस्थानिका. नेकादेशासम्भवात्तेषाम्मध्ये क इहादेशः स्यादिति सन्देहोत्थितौ समाधानमाह-अत्राघो. षस्येति । अयम्भावः । सकार-थकारयोर्दन्तस्थानजन्यत्वेन विवार-श्वासा-घोष-महाप्राणप्रयत्नवत्वेन च सादृश्यात् 'स्थानेऽन्तरतम' इत्यनेन सकारस्थाने थकार एवादेशो जातः तस्य 'झरो झरीति लोपे दकारस्य 'खरि चेति चत्वं उत्थानमिति सिध्यति । लोपाभावपक्षे न थस्य चत्वम् । तस्य चत्वदृष्ट्याऽसिद्धत्वात् । एवञ्च थकारद्वयघटितमुक्तरूपम्बोध्यम् । (१) हलो यमामिति सूत्रोक्तभाष्यसम्मताष्टाध्यायीपाठे तु थस्यासिद्धत्वाभावेन चत्वम्भ. वत्येव । अत एव (उत्पूर्वस्कन्दे रोगे उपसंख्यानम् उत्कन्दो रोग) इति भाष्यं संगच्छते । न चोक्तसूत्रीयभाष्यरीत्या थस्य सिद्धत्वकल्पनाञ्चोपपादने लोपाभावपक्षे तु थकारस्यैव श्रवणमित्यादिमूलोक्तस्यासङ्गतिरूपदोषप्रादुर्भाव इति वाच्यम् । प्राचामनुरोधेन तदित्य. दोषात् । न च 'झलो झली' त्यनेन सलोपे उक्तप्रयोगसिद्धौ सूत्रमिदं व्यर्थमिति वाच्यम् । झलादौ प्रत्यये तेन लोप इत्यर्थज्ञापनेन तस्य चारितार्थ्यादिति ॥
ननु 'मोऽनुस्वार इत्यस्य मकारस्यानुस्वारः स्याज्झलीत्यर्थेनैव हरि बन्दे इत्यादाव. नुस्वार सिद्धावलं पदग्रहणेनेत्याशयेन शङ्कते-पदस्येति किमिति । अयम्भावः, तत्र सूत्रे पदग्रहणाभावेऽपदान्तमकारस्याप्यनुस्वारापत्तिरतस्तद्ग्रहणमावश्यकम् । नचापदान्त. मकारस्याप्यनेनैवानुस्वारस्येष्टत्वे यशांसीत्यादावपि तेनैव तत्सिद्धौ ‘नश्वापदान्तस्य झली, त्यस्य सामर्थ्यादपदान्तमस्य चेदनुस्वारस्तहि झल्येवेति नियमार्थकत्वेनोक्तस्थलीयदोष. व्यावृत्तौ व्यर्थमेव पदग्रहणमिति वाच्यम् । तस्य 'नश्च' 'शि तुमित्यदावुत्तरत्रार्थत्वेन
(१) *हलो यमामिति । एतत्सूत्रोक्तभाष्यसम्मतपाठक्रमस्तु-अनुस्वारस्य ययि, वा पदा, तोलि, उदःस्था, झयो हो, शश्छोटि, एतत्पटसूत्र्यनन्तरं झलां जश् अभ्यासे चर्च, ख. रिच, वावसाने, अणोऽप्रगृह्यस्येति ।
Aho! Shrutgyanam