________________
२०
.
फक्किकारत्नमञ्जूषायाम्-- त्वादतिप्रसङ्गाभावेन सूत्रे टोरिति व्यर्थमेवेत्याशयेन शइते-टोः किमिति । नैवं सर्वत्रेति समाधत्ते-सपिष्टममिति । अत्र 'हस्वात्तादौ तद्धिते' इत्यनेन विहितस्य षत्वस्यासिद्धत्वेन जश्त्वाप्रवृत्तौ पदान्तषकारादपि ष्टुत्वनिषेधापत्तेरावश्यकमेव सूत्रे टोLहणमिति तदाशयः । यदा (१)क्वचिदेकदेशोऽप्यनुवर्तते इतिपरिभाषया ष्टुनेत्येकदेशस्य टोरित्यस्यैवानुवृत्या किञ्च नेत्यसमस्तमेव तस्मादपि टोरेवानुवृत्त्या पदान्ताबर्गादित्य. र्थस्यैव लाभात्सर्पिष्टममित्यादौ न दोष इत्युच्यते तदा मास्तु टोर्ग्रहणमिति दिक् ॥
ननु स्थानेऽन्तरतम' 'उरण रपर' इति संहितापाठस्तत्र प्रथमान्तपाठपक्षे आदेशस्यान्तरतमो यः स्थानी तत्रैव षष्ठी उपसंहर्तव्या यत्रैव षष्ठी तत्रैवादेश इति सूत्रार्थेन प्रकृ. तिनियम्यते तथा च स्थानिनामन्तरतम आदेशो भवतीत्यर्थस्य फलितत्वात् (२)यत्राने. कविधमान्तय्यं तत्र स्थानत आन्तयं बलीय इति परिभाषयाऽन्यान्तर्यापेक्षया स्थान कृतान्तर्यस्य बलवत्त्वबोधनेन चतुर्मुख इत्यादौ मूर्द्धस्थानजन्यरेफस्थानेऽन्याऽदेशापेक्षया मूर्द्धस्थानजन्यत्वसमानाधिकरणनासिकास्थानजन्यत्वेन सादृश्यात्तादृशणकाररूपोऽनुनासिकः स्यादित्याशहां सप्तम्यन्तपाठेन निराचष्टे-स्थानपयत्नाभ्यामिति । अयम्भावः, सप्तम्यन्त पाठपक्षे आदेशानां येऽन्तरतमास्तत्र षष्ठी यत्र षष्ठी तत्रादेशा भवन्तीति सूत्राथें । नादेशो नियम्यते तथा च आदेशानामन्तरतमे स्थानिनि सति आदेशो भवतीत्यर्थस्य फ. लितत्वेन ताल्वादिस्थानजन्यत्वसमानाधिकरणनासिकास्थानजन्यत्ववतां जमङणनानामा. देशभूतानामनुनासिकानां विधेः स्थानप्रयत्नोभयान्तरतम्येन स्पर्श षण्णाम् एतन्मुरारिरित्यादो चरितार्थतया चतुर्मुख इत्यत्र स्थानमात्रेणान्तर्यवति रेफे न प्रवृत्तिः । नच सप्तम्यन्त. पाठपक्षे आदेशानां यणामर्द्धमात्रिकत्वेन तेषां मात्राद्वयन्यूनकालिकत्वरूपान्तरतम्येन स्था. निनोऽपि मात्रिकहस्वस्यैव समुचितत्वात्तत्र यणश्चरितार्थतया दीर्घ यणादेशाप्राप्त्या सप्तम्यन्तपाठस्य भाष्यकृता दूषितत्वेन चतुर्मुख इत्यत्रोक्तदोषस्तदवस्थ एवेति वाच्यम् । 'अनु. स्वारस्य ययि परसवर्णः इत्यतः परसवर्ण घटकसवर्णपदापकर्षणेन सवर्णोऽनुनासिको भवतीत्यथें रेफस्य सावाभावादनुनासिकाप्राप्तेः रेफोष्मणां सवर्णा न सन्तीति भाष्यात् ।
(१) *कचिदेकेति । एकयोगनिर्दिष्टानां कचिदेकदेशोऽप्यनुवर्तते इति परिभाषास्व. रूपम् । अत्र ज्ञापकं तु दामहायनान्ताच्चेति सूत्रे संख्यादेरिति वक्तव्यमितिवार्तिकप्रत्या. ख्यानपरभाष्यमेव, तत्र संख्याऽव्ययादेर्डी बित्यत एकदेशस्यापि संख्यादेरित्यनुवृत्या प्रत्या. ख्यातं वार्तिकम् , एतत्परिभाषाऽसत्त्वेऽव्ययस्याननुवृत्तये संख्यादेरित्यस्याप्यननुवृत्तेः प्रत्या. ख्यानमसङ्गतं स्यादिति ।
(२) *यत्रानेकविधमान्तर्यमिति । स्थानार्थगुणप्रमाणकृताऽऽन्तर्यमध्ये स्थानकृतान्तर्यस्यैव वलवत्त्वमित्यर्थबोधिकेयं परिभाषा । इत्थमस्याः सिद्धिप्रकारः, स्थानेन्तरतम इति सुत्रे अन्तरतम इत्येकं बाक्यं पूर्वं पठनीयं स्थाने इत्यपरं तत्र पूर्वस्मिन्वाक्वे स्थाने इत्यनु. वर्नते प्रसङ्ग इति तस्यार्थः, तथा च प्रसङ्गे सति सदृशतमो भवतीत्यर्थः । द्वितीय स्थाने इति वाक्ये पूर्ववाक्यादनुवृत्तं स्थाने इति अन्तरतम इति च पदद्वयमनुवर्तते । सूत्रस्थं स्थाने इति स्थानेनेत्यर्थकम् तथा च प्रसङ्गे सति स्थानेन स्थानघटितधर्मेण सदृशतमो भवतीत्यर्थः । पूर्ववाक्येनैव स्थानघटितधर्मेण सहशस्यापि विधानसम्भवादूव्यर्थमिदं द्वितीयवाक्यं स्थानेनैव सदृशतमो भवतीति नियमार्थ तथा च फलितैवेयं परिभाषा यत्रानेकविधमान्तर्यमिति ।
Aho ! Shrutgyanam