________________
हल्सन्धिप्रकरणम् ।
१९
ईदूदन्तं यत्सप्तम्यन्तमित्यर्थ सोमो गौरी अधिश्रित इत्यत्र प्रगृह्यत्वे सिद्ध व्यर्थमेवार्थग्रहण मिति वाच्यम् । तस्य सामर्थ्यात्सप्तम्यर्थमात्रबोधकत्वे एवेददन्तस्य संज्ञा यथा स्यान्न तदधिकार्थबोधकत्वे इत्यर्थज्ञापनेन साफल्यात् । तेन वाप्यामश्वो वाप्यश्व इत्यत्र न प्रगृ. ह्यसंज्ञा । अत्र वापीशब्दस्य वापीनिष्ठाधिकरणतानिरूपिताधेयताश्रयबोधकत्वेन सप्तम्य. र्थमात्रवृत्तित्वाभावादित्येवाह मूले-वृत्तावान्तरोपसंक्रान्ते माभदिति । तथा चायं निष्कर्षः कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपायां वृत्ताववयवार्थान्वितसमुदायार्थीपसर्जने सति प्रगृह्मसंज्ञा मा भूदिति । तत्र समासवृत्तिमुदाहरति-वाप्यश्व इति । अत्र सुप्सुपेत्यनेन संज्ञायामित्यनेन वा समासः । समर्थः पदविधिरिति सूत्रात् वृत्तौ विशिष्टवि. षयकशक्तयकोपस्थितिजनकत्वरूप एकार्थीभावः स्वीक्रियते स च राजपुरुष इतिवृत्तावेव न तु वाक्ये राज्ञः पुरुष इत्यत्र, वाक्ये पृथगर्थानि पदानि वृत्तावेकार्यानीति समर्थसूत्रभाष्यात् । एवञ्च वाप्यश्व इत्यादौ अवयवार्थसम्बलितसमुदायेन वाप्यधिकरणकद्रव्यरूपार्थ एवं समुचित इति । अर्थग्रहणसामर्थ्यात आधेयारसृष्टाधारबोधकत्वं समभिव्याहृतपदान्तरा. निन्वयित्वेनोपस्थितिविषयत्वरूपं वा सप्तम्यर्थपर्यवसन्नत्वं बोधयति। वाप्यश्व इत्यत्राधेयेऽश्वरूप द्रव्ये सप्तम्यर्थस्याधारस्य संसृष्टत्वेन प्रगृह्यसंज्ञा न भवति सोमो गौरी अधिश्रित इत्यत्राधेये सोमे सप्तम्यर्थस्याधिकरणरूपस्यासंसृष्टत्वेन भवत्येव प्रगृह्यसंज्ञा । न च कारकाणां क्रियान्वयसिद्धान्तात अधिश्रयणक्रियायां गौरीपदबोध्याधिकरणत्वस्य विशेषणत्वेनान्वयादाधारस्य कुतो नाधेयसंसृष्टत्वमिति वाच्यम् । समुदायार्थमन्तरा यस्यावयवा. र्थस्य नोपस्थितिस्तस्यैवात्रोक्तलक्षणकोटिप्रविष्टैकार्थीभावविषयत्वात् । अत्र तु अवयवार्थस्य पार्थक्येनाप्युपस्थितिरित्यदोषादित्यलम् । 'अल्पान्तरमिति सौत्रप्रयोगेण (सिद्धमनच्त्वादिति बात्तिकप्रयोगेण "कथमनच्त्वमिति भाष्यप्रयोगेण च वृत्तिघटकाच्पदे प. दान्तकार्य्यस्य तत्सन्निधानेन श्चुत्वस्य चाभावकल्पनादच्सन्धिरित्यत्र न कुत्वाद्याशङ्काक. लङ्कलेशोऽपीति भावः ॥
इत्यच्सन्धिप्रकरणम् ॥
अथ हल्सन्धिप्रकरणम् । ननु (१) परस्परान्वितार्थकपदानां सहैव प्रवृत्तिनिवृत्तिश्च भवतीत्यर्थिकाया (२) एकयोगनिर्दिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिरिति परिभाषायाः सद्भावेन 'न पदान्ताटोरनामिात्यस्मात्प्रावर्तिनःष्टुना ष्टुरित्यतष्टोरनुवृत्त्या पदान्तात्पकार-टवर्गात्परयोः स्तोः ष्टुनेंत्यर्थेऽपि पदान्तषकारम्य जश्त्वेन डकारस्यैव सम्भवात्ततः परस्य ष्टुत्वनिषेधस्येष्ट.
(१) *परस्परान्वितार्थकपदानामिति । स्वप्रयोज्यविषयतया साक्षात्परम्परया वा निरूपिता या विषयता तत्प्रयोजकानां पदानां युगपत्प्रवृत्तिनिवृत्ती भवत इत्यर्थः ।
(२) *एकयोगेति । अत्र ज्ञापकं तु ईदूदेद्विरचनमित्यत्र ईदित्येतन्मात्रानुवृत्यैव सिद्धावकाराननुवृत्यर्थ क्रियमाणम् अदसो मादित्यत्र माद्गहणमेव, ज्ञापितायान्त्वस्यां तत्रै. कारानुवृत्तिनिरासाय माद्ग्रहणं चरितार्थम् । लिङसिचावित्यतः सिग्रहणानुवृत्त्दैव सिद्धौ हनः सिच इत्यत्र सिग्रहणञ्च ज्ञापकं बोध्यम् ।
Aho ! Shrutgyanam