________________
फक्किकारत्नमञ्जूषायाम्--
वाच्यम् । तस्य फलितार्थाभिप्रायकत्वादिति दिक् ॥
ननु क्लीवे स्त्रीलिङ्गे वा अमू आसाते इत्यत्र मुत्वस्यासिद्धत्वादेकारान्तत्वेन ईदूदेवि. बचनमित्यनेनैव प्रगृह्यत्वे सिद्धेऽदसोमादित्यस्य तदुदाहरणमयुक्तमित्याशंक्य समाधत्तेरामकृष्णावम् प्रासाते इति । अयम्भावः, क्लीव-स्त्रीलिङ्गन्योः प्रगृह्यत्वे सिद्धेऽपि पुलिङ्गेन तेन प्रगृह्यत्वसिद्धिर्मुत्वस्यासिद्धत्वेन तत्रौकारान्तत्वात् । अदसोमादित्येतत्प्रति न मुत्वस्याद्धित्वम् आरम्भसामर्थ्यादिति ।
ननु 'मय उजो वो वेति वत्वविधानस्य प्रकृतिभावबाधनानुस्वारख्यावृत्तिरूपफलद्वयस्य सत्त्वात्प्रकृते किमित्याकांक्षायामाह-वत्वस्यासिद्धत्वान्नानुस्वार इति । 'मय उजो वो वे'त्यस्य चैपादिकत्वादनुस्वारदृष्टयाऽसिद्धत्वेन हल्परत्वाभावादनुस्वाराप्राप्तिः । (१) अन्यथा इको यणचीत्यस्यानन्तरमस्य पाठेन यणोऽनुवृत्त्यैव सिद्धे वत्व विधानस्य वैय. र्थ्य स्यात् । वस्तुतस्तु न त्रिपाद्यां पाठस्यानुस्वाराभावः फलं किन्तु वत्वस्यासिद्धत्वादुकाररूपेऽचि परे प्रत्यङवास्ते । प्रत्यङवकरोदित्यादौ मुसिद्धिरूपं तत् , अनुस्वारवारणन्तु (२)सन्निपातपरिभाषयैव सिद्धमिति भावः ॥
ननु 'ईदूतौ सप्तमी'त्येवं लाघवात्सूत्रमस्तु सप्तम्याः प्रत्ययत्वेन (३)प्रत्ययग्रहणपरिभाषया तदन्तविधानादीदूदन्तं यत्सप्तम्यन्तं तत्प्रगृह्मसंज्ञमित्यर्थेनैव सोमो गौरी अधिश्रित इत्यादी प्रत्ययलक्षणेन सप्तम्यन्तत्वात् प्रगृह्यत्वे सिद्धेऽर्थग्रहणं व्यर्थमित्याशयेन शंकतेअर्थग्रहणं किमिति । इत्थं समाधातुराशयः, अर्थग्रहणाभाचे (४)संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्तीत्यनया परिभाषया तदन्तविधिनिषेधादीदेदूद्विवचनमितिवदीदूदन्ता या सप्तमीत्यर्थापत्तावेकादेशस्य परादिवद्भावात्सप्तमीत्वेन ययी आस्ते इत्यादावेव प्रगृह्मसंज्ञा स्यात्सोमो गौरी अधिश्रित इत्यादौ सप्तम्या लुकापहारेणाभावात्सा न स्यादिति तदर्थमावश्यकमर्थग्रहणमिति । नच ययीत्यादेरनभिधानात्किञ्चकारांशे चारितायेंप्यूकारांशे वैयर्थ्यस्य सद्भावेन सूत्रारम्भसामर्थ्यात् ईदूतौ सप्तमी प्रगृह्यम् अदस एच द्विव वनमिति लघुभूतन्यासेनैव निर्वाहे गुरुभूतन्यासरकरगाच्च संज्ञाविधावित्यस्या अप्रवृत्तौ तदन्तविधिसत्वे
(१) *अन्यथेति । वत्वविधानस्य प्रकृतिभावमात्रवाधनार्थत्वे ।
(२) सन्निपातपरिभाषयेति । सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति परि. भाषास्वरूपम् । द्वयोः सम्बन्धः सन्निपातस्तल्लक्षणजायमानो विधिः स्वातिरिक्तसम्बन्ध. विघातकशास्त्रेनिमित्तं भवतीत्यर्थः । प्रकते किमु उक्तमित्यनयोः उकाराव्यवहितोत्तरत्व. रूपोऽजव्यवहितपूर्वत्वरूपश्च सम्बन्ध एवं सन्निपातस्तल्लक्षणजायमानो वत्वविधिः स्वा. तिरिक्त सम्बन्धविधोतकेऽनुरूबारे निमित्तं न स्यादित्थमनुस्वारवारणमवधेयम् ।।
(३) *प्रत्ययग्रहणेति । प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् इति परिभाषास्वरूपम् । प्रत्ययग्रहणे शास्त्रे प्रत्ययबोधक पदं विशेष्यान्तरासत्त्वे तदादिविशेष्य. मादाय तदन्तोपस्थापकमिति तदर्थः ।
(४) संज्ञा विधाविति । संज्ञाविधायकशास्त्रे प्रत्ययबोधक पदं तदन्तबोधकं नेत्यर्थः । सु. प्तिङन्तं पदमित्यत्रान्तग्रहणमस्यां ज्ञापकम् । तथा हि, सुपस्तिश्च प्रत्ययत्वात्प्रत्ययग्रहणपरिभाषया तदादिपदोपस्थापने तदन्तविधिना मूलोक्तार्थलाभे व्यर्थमन्तग्रहणं परिभाषां ज्ञापयति ।
Aho ! Shrutgyanam