________________
अचसन्धिप्रकरणम् ।
१७ ननु चकारेण प्रकृतिभावोऽनुकृष्यते तस्य च हस्वविधानसामध्येनैव सिद्धिरित्यत माह-हस्वविधिसामर्थ्यादेवेति । नच हस्व-यणोविधानसामर्थ्याद्विकल्पसिद्धिरूपफ. लस्य सत्वेन हस्वविधेः सफलत्वान्मूलोक्तमसङ्गतमिति वाच्यम् (१) अपदान्तादौ यणश्चारितायेन सामर्थ्य बिरहादुभयोविधानसामाद्विकल्पासिध्या हस्वबिधेयर्थ्यस्य स्पष्ट. स्वेन तस्मात्प्रकृतिभावसिद्धिः मुलभैवेति भावः ॥
चकारो न कर्तव्य इति । इत्थं हि तत्खण्डनप्रकार:-प्रकृतिभावस्य चकारेणानुकदणेऽपि तस्य चानुकृष्टत्वेन चानुकृष्टं नोत्तरनेति परिभाषाया 'ऋत्यक' इत्यत्र सम्बन्धाभावात्त - दर्थ हस्बविधानस्यावश्यकत्वमिति तेनैव प्रकृतिभावसिद्धौ तदनुकर्षणार्थश्चकारो व्यर्थ एवेति । 'अव्यये यथाभिप्रेताख्याने क्त्वाणमुलावितिः सुत्रे णमुल्ग्रहणमेवोक्तपरिभाषायां ज्ञापक बोध्यम् । तथा हि परिभाषाऽसत्त्वे क्त्वा चेत्येव सूत्रमस्तु चकारेण 'स्वादुमि णमुलित्यतो णमुलोऽनुकर्षणादेव सिद्धौ तत्सूत्रस्थं णमुल्ग्रहणं व्यर्थ सज्ज्ञापयति चानुकृष्टं नोत्तरत्रेति । ज्ञापितायामस्यां तु उत्तरत्र तिर्यच्यपवर्ग' इत्यादौ णमुलः सम्बन्धो न स्यात्तस्य चानुकृष्टत्वादिति तदर्थं णमुल्ग्रहणमावश्यकमिति तस्य स्वांशे चारितार्थ्यं जातमिति भावः । भाष्ये स्थितमिति । प्रकृतसूत्रस्थभाष्ये पूर्वोक्तो भावः स्थित इति तदर्थः । __ननु हस्वाभावपक्षे प्रकृतिभावाय चकारस्यावश्यकत्वेन चक्री अत्र चक्रि अत्र चक्रयत्रेति रूपत्रयसिद्धिरिति चेन्न । चकारस्य समुच्चायकत्वे तत्प्रत्याख्यानपरभाष्यविरोधात् । संहिताया अविवक्षयैव त्वदुक्तरूपस्य निष्पत्तेश्च । चक्रयत्रेत्यत्र न 'स्कोः संयोगाद्योरिणत लोपप्राप्तिः 'अचः परस्मिन्निति यणः स्थानिवत्वात् । न च ( पूर्वत्रासिद्धे न स्थानि. वदि )ति शयः। तस्य दोषः संयोगादिलोपलवणत्वेष्विति तनिषेधात् । ननु ऋत्यक इति पृथक् पाठाकरणरूपलाघवादकोऽसवर्णे शाकल्यस्येत्येव सूत्रमस्त्विति वाच्यम् । होतृ ऋकारो ब्रह्मपिरित्यादौ सवर्णार्थमनिगर्थञ्च तस्य पृथक् पाठावश्यकत्वादित्यलम् ॥
ननु अप्लुत इत्युक्ते प्लुतस्याध्याहार आवश्यकस्तथा च प्लुतोऽप्लुतो भवतीत्यर्थेनैव सिन्धौ वत्करणं व्यर्थमित्याशयेन शंकते-वकिमिति । इत्थं हि समाधातुराशयः, वद्ग्रहणसचे चन्द्रवन्मुखमित्यादौ मुखे चन्द्रगताऽऽह्लादकत्ववत्प्लुतेऽप्लुतगतसन्ध्यादिरूपकार्यमतिदिश्यते न तु प्लुतस्य निवृत्तिः क्रियतेऽतिदेशानां स्वभावात् तथा च अग्नी इती. त्यादावनीति प्रेषणे परस्य चेत्येतद्विहितप्लुताश्रयः प्रकृतिभावः प्राप्नोति परञ्च प्लुतस्यासिद्धत्वादीदूदेद्विवचनमित्यनेन कृते प्रगृह्यत्वे तदाश्रये प्रकृतिभावेऽपि प्लुतः श्रूयेत वद्ग्र. हणाभावे प्लुतो नैव श्रयेत प्लुतस्याप्लुतत्वविधानादतो वद्ग्रहणमावश्यकमिति । न च सत्यपि वदग्रहणे प्रसज्यप्रतिषेधाश्रयणात्प्लुतवन्नेत्यर्थस्यैव सम्भव इति वाच्यम् । तदा. श्रयणे गौरवात् । नचाप्लुतवदित्यत्र पर्युदासेऽमी इतोत्यादौ प्रगृह्याश्रयं प्रकृतिभावं बाधित्वा परत्वादप्लुतवद्भावे दीर्धादिकं स्यादिति वाच्यम् । इति शब्दसापेक्षाप्लुतवद्रावापेक्षया वर्णमात्रापेक्षप्रकृतिभावस्यान्तरङ्गत्वात् । नचाप्लुतवदित्यस्य प्लुतकाय्यं नेत्येवार्थः कुतो नेति वाच्यम् । शब्दमर्यादया तदलाभात् शब्दतः प्लुतेऽप्लुत सादृश्यविधा. जस्यैव लाभात् । नच भाष्ये प्लुतकार्य नेत्यर्थस्यैव दर्शनात्कथं तद्विरुद्धार्थस्वीकार इति
(१) *अपदान्तादाविति । गौय्यौँ इत्यादावित्यर्थः ।
Aho ! Shrutgyanam