________________
१६
फक्किकारश्नमञ्जूषायाम् -
स्यात् । मण्डूकानुवृत्तिस्वीकारे तु पूर्वसूत्रेणैव तत्रावसिद्धाविन्द्रेचेत्यस्य वैयथ्न तत्सामर्थ्यान्नित्यत्वलाभसम्भवान्नित्यमिति किमिति तदुक्तेः सामञ्जस्यमेवेति । एत्तदुत्तरन्तु हरी एतावित्यादावयमेव प्रकृतिभावो यथा स्यादिति मूले एव स्फुरमस्तीति दिक् ॥
1
ननु गो अग्रमित्यादाविव गवाक्ष इत्यत्रापि प्रकृतिभावो दुबर इत्यत आहव्यवस्थितविभाषयति । विगताऽवस्था विकल्परूपा जाताऽस्यामिति व्यवस्थिता सा arat विभाषा चेति व्यवस्थितविभाषा तथा नैमित्तिकप्रवृत्येत्यर्थः । विभाषारूपे विकल्पे सामान्येन विधिनिषेधरूपांशद्वयमुपस्थितम् । प्रकृते विशेषविधिरूपा व्यवस्थिता, क्वचिन्निषे. धरूपा व्यवस्थिता, यथा क्वचिन्न पापेऽभिनिवेश इत्यादि तदुदाहरणं मूले एव वक्ष्यति । देवarat गलो ग्राह इतियोगे च सद्विधिः । मिथस्तेन विभाष्यन्ते गवाक्षः संसितव्रतस्तेन प्राण्यवयवे नेति शरछोरित्यत्र भाष्ये स्पष्टमिति न गवाक्ष इत्यत्रोक्तदोषः 'अग्नीत्प्रेषणे परस्य चेति सूत्रेणाग्नीदग्नीन्विहर इत्यत्र प्राप्तप्तवारणाय तत्र वार्तिककृताकृतस्य बहुलग्रहणस्य प्रत्याख्यानाय भाष्यकृता कृतेन विभाषा पृष्ठप्रतिवचने हेरित्यत्र विभाषेति योगविभागेन विभाषेत्यस्य व्यवस्थितविभाषात्वध्वननात् । नच व्यवस्थितविभाषयैवेन्द्र freeras: सिद्धाविन्द्रे चेति व्यर्थमिति वाच्यम् । भाष्योक्तातिरिक्तानां व्यवस्थितविभापाणामप्रामाणिकत्वबोधनाय तस्य सखादिति भावः ॥
ननु 'नान्तः पादमव्यपरे' इत्थमेव सूत्रं लाघवाद्विधेयम् एतस्मान्नकारानुवृच्या गोशकदस्य यत्प्राप्नोति तन्नेति 'सर्व्वत्र विभाषा गोः' इत्यस्यार्थकरणेऽपि न कश्चिद्दोष इति चेन्न । तथा सति 'लुतप्रगृह्या अचि नित्यमित्यत्रापि नकारानुवृत्त्याऽचि परे प्लुतप्रगृह्ययोरेव निषेधेन दोषस्य दुर्व्वारित्वात् । एवञ्च प्रकृत्यान्तः पादमव्यपरे' इत्येव सूत्रपाठः समुचित इत्यत आह- श्रथ प्रकृति भाव इति ।
म्भावः,
ननु 'प्लुत - प्रगृह्या अचि नित्यमित्येतद्धटकळुतादिपदार्थज्ञानाय तत्संज्ञाविधायकसूत्रानन्तरमेवोक्तसूत्रपाठस्य समुचितत्वात्तथाऽकरणेन प्राचीनपठितेन्द्वे च नित्यमित्यत्र नित्यग्रहणस्य प्रामादिकत्वज्ञापनान्नित्यस्यानुवृत्त्यभावेऽपि वाग्रहणनिवृत्यैव नित्यत्वलाभात्प्लुत-प्रगृह्या इत्यत्र नित्यग्रहणं व्यर्थमित्यत आत- - नित्यमिति किमिति । अयfreeग्रहणाभावे हरी ईशावित्यत्र लब्धावकाशस्य प्लुतप्रगृह्या अचि नित्यमित्यस्य चक्रि अत्रेत्यत्र सावकाशेन 'इकोऽसवणें शाकल्यस्य ह्रस्वश्चेत्यनेन हरी एतावित्यादाभयोः प्राप्तौ विप्रतिषेधेन परत्वाद्वाधे विकल्परूपो दोषः स्यात् । कृते तु नित्यग्रहणे नोक्तदोषः नित्यग्रहणसामर्थ्यात्परस्यापीको सवर्ण इत्यस्य प्लुत-प्रगृह्या इत्यनेन वाधादिति । नच प्रकृतिभावदृष्ट्या प्लुतत्वासिद्धत्वेन कथं प्रकृतिभाव इति वाच्यम् । प्रकृतिभावविधानसामर्थ्यात्तस्य सिद्धत्वकल्पनादिति दिक् ॥
ननु 'अव स्फोटायनस्येत्यतोऽचीत्यनुवृत्यैव सिद्धे 'प्लुत प्रगृह्या अचि नित्यमि त्यत्राचीति व्यर्थमिति चेन्न । तस्य सामर्थ्यात्प्रत्यासत्या यस्मिन्नचि प्लुत-प्रगृह्ययोः प्रकृतिभावस्तदज्निमित्तकाय्र्यस्यैव तेनाभाव इत्यर्थज्ञापनेन साफल्यात् । तेन जानु ङ अस्य रुजतीत्यादावु निपातस्य प्रगृह्यत्वेऽपि जानू अस्य रुजतीत्यत्र सवर्णदीर्घ रूपसन्धिभवत्येवेत्यलम् ।
Aho! Shrutgyanam