________________
अच्सन्धिप्रकरणम् । देश इत्यादिभाष्योक्तरीत्या 'तुल्यास्यप्रयत्नं सवर्णम्' 'नाज्झ लावि त्येताभ्यां प्राक् ग्रहण. कशास्त्रस्यासिध्या नाज्झलावित्यस्य वाक्यार्थवोधावसरेऽच्पदेन वर्णसमाम्नायस्थानां हस्वानामेव ग्रहणात्तेषामेव सवर्णसंज्ञानिषेधेन दीर्घाणां हल्भिः सावर्ण्य स्यादेवेत्याशये. नाह-कुमारी शेते । इति भावः .. ननु 'अक: सवर्णे दीर्घ' इत्यनेन ऋल एतयोर्द्विमात्रिकयोविधानेनोपपत्तौ वार्तिकद्वयं व्यर्थमिति चेन्न । दीर्घशब्देन विधीयमानापेक्षया वात्तिकद्वयेन विहितस्य विलक्षणत्वात् । किन्तद्वैलक्षण्यमिति दर्शयति--आद्यस्य मध्ये द्वौ रेफो तयोरेका मात्राऽभितोज्भक्तेरपरा मात्रा, एवं द्वितीयस्य मध्ये द्वौ लकारौ तयोरेका मात्राऽभितोऽज्भक्तेरपरा मात्रा इत्थम्भू. तयोः ऋलवर्णयोरकः सवणे दीर्घ इत्यनेनोपपत्यभावाद्वार्तिकद्वयमावश्यकमित्यत आहऋति सवणे ऋ वेति । नच वात्तिकद्वयस्यावश्यकत्वेऽपि संज्ञाशब्दस्यार्द्धमात्रिकत्वाति सवर्ण लोपो वेतिन्यासेनैव सिद्धौ ऋकारविधान निष्फलमिति वाच्यम् । लोपेन प्रयोग. सिद्धावपि वार्तिकद्वयविहितविधेययोरनिष्पत्या ऋकारविधानस्य साफल्यात् । तुल्यास्य. सूत्रस्थभाष्ये तु सूत्रेणैव ऋकारद्वयस्य स्थाने रेफद्वयवत्तारूपगुणकृतान्तय्र्येण कदाचिद्रेफड. यगर्भस्य, विवृतत्वान्तर्येण कदाचिद्विवृतस्य, लकारे लकारवत्तान्तय्येण कदाचिद्विल. कारस्य, कदाचिद्विवृतत्वसाम्येन रेफवत्तासाम्येन च ताशस्य ऋकारस्य च विधानेन विकल्पफलमाश्रित्य वात्तिकद्वयं प्रत्याचख्यौ। वार्तिकद्वयविहितविधेययोरचत्वं तु अइउण. सूत्रानन्तरं पाठाद्वोध्यमित्यलम् । अभितोऽज्भकरिति । 'ए ओङ' सूत्रे भाष्ये यथा मातृणामित्यादौ गत्वाद्युपपत्तयेऽङ्गीक्रियमाणे वर्णकदेशा वर्णग्रहणेन गृह्यन्ते इति पक्षे खट्वाभिर्मालाभिः वाचा तरतीत्यादौ प्राप्ताः तुगै-स्-द्वयज्लक्षणष्ठन: 'दीर्घादिति तुविधानसामर्थ्य-तपरकरगलामर्थ्य-नौद्वयच इति सूत्रस्थनौग्रहणसाचैरभेदेन प्रतिभासमानेषु अवयवसशस्वतन्त्रवर्णाश्रयकार्याभावज्ञापनेन वारिताः तथा प्रातर्मतमित्यत्र 'रोरीति लोपस्य तदलकार इत्यत्र 'तोर्ली' त्यस्य च शङ्कासमाधानकरणेन यत्तद्रेफात्परं भक्तिरिति 'हयवस्ट' सूत्रस्थभाष्येण च वात्तिकद्वयविधेययोः अलुवर्णयोरभितोऽजभागस्य समुचित. त्वमिति भावः ॥
ननु अवङ स्फोटायनस्येत्यत्र (१)धाराप्रवाहन्यायेनातीत्यस्य सम्बन्ध आहोस्वित् मण्डूकप्लुत्याऽचीत्यस्येति शङ्का समाधत्ते-प्रतीति निवृत्त मिति । इत्थं हि समाधातु. राशयः, 'प्लुतप्रगृह्या' इत्यत्र नित्यग्रहणं किमर्थमिन्द्रे चेत्यारम्भसामर्थ्यादेव नित्यत्वला. भादिति भाष्योक्तमेव मण्डूकानुवृत्तौ ज्ञापकम् । अन्यथा गवेन्द्र इत्यादावत्परत्वाभावादवडोऽप्राप्त्या तदर्थ सूत्रस्यावश्यकत्वादारम्भसामर्थ्यानित्यत्वलाभ इति भगवदुनिस्संगता
(१) *धाराप्रवाहेति । यथाऽविच्छिन्नेन धारा बहति तथाऽविच्छिन्नेन यत्किञ्चित्सू. त्रस्थपदानामुत्तरोत्तरं सूत्रान्तरेषु सम्बन्धो भवति । इयमेव धाराप्रवाहन्यायेनानुवृत्तिरि. त्यभिधीयते । यथा मण्डूका उप्लुत्योत्प्लुत्य गच्छन्ति तथा सूत्रस्थपदान्यपि व्यवधानेनोत्तरोत्तरं सूत्रान्तरेषु सम्बद्धानि भवन्ति । मण्डूकोत्प्लुतौ मध्ये कियत्स्थानं परित्यज्योत्तरस्थानेन सम्बन्धो भवति । तथा सूत्रस्थपदानां मध्ये कियत्सूत्रं परित्यज्योत्तरसूत्रसम्बन्धी भवति । इयमेव मण्डूकप्लुतिन्यायेनानुवृत्तिरित्यभिधीयते ।
Aho ! Shrutgyanam