________________
फक्किकारत्नमञ्जूषायाम्
ननु परश्रुतेरन्यत्र चारितार्थेन प्र ऋच्छतीत्यत्र वृद्धौ कृतायां रपरत्वे च कृते पूर्वान्तवद्भावेन रेफस्य पदान्तत्वाश्रयणात्तस्य 'खरवसानयोरिति विसर्गः स्यादित्यत आहइह पूर्वान्तवद्भावेन पदान्तरेफस्य न विसर्ग इति । अत्र प्रमाणमाह उभयविति । अयम्भावः, यद्येकादेशस्थले रेफस्य पदान्तत्वाश्रयणेन बिसर्गः स्यात्तदा उभयथक्ष्वित्यादावपि तदापत्या निर्देशासङ्गतिस्यादित्येतन्निर्देशादुक्तस्थले रेफस्य तत्त्वाश्रयणेन विसर्गो न भवतीति कल्पनादुक्तप्रयोगे न काप्यनुपपत्तिरिति । न चोक्तनिर्देशे गुणस्य पदद्वयसम्बन्धिवर्णद्वयाऽऽश्रितत्वाद्वहिरङ्गत्वेनाऽसिद्धत्वाद्रेफाभावेन विसर्गो नेति वाच्यम् । विसर्गस्यापि रेफषकारात्मकवर्णद्वयाश्रितत्वेन बहिरङ्गत्वात् । न च गुणस्य परनिमित्तकत्वरूपवहिरङ्गत्वसत्वा द्विसर्ग दृष्ट्याऽसिद्धत्वेन रेफाभावान्न विसर्ग इति वाच्यम् । उक्तरूपवहिरङ्गत्वस्यो भयोस्तुल्यत्वादिति । वस्तुतस्तु नात्र (१) बहिरङ्गपरिभाषाप्रवृत्तिः सम्भावनीया त्रिपादीस्थेऽन्तरंगे कर्त्तव्ये कार्य्यकालपक्षेऽप्युक्तपरिभाषाया अप्रवृत्तेः । अत एव 'उरण् रपर' इति सूत्रे नार्कुटो नार्कल्पिरित्यादौ रेफस्य विसर्गाभावाय (रेफस्य पूर्वान्तबच्चे विसर्जनीयप्रतिषेधो वक्तव्य ) इत्यपूर्ववचनमङ्गीचकार भगवाञ्च्छ्रोपतञ्जलिः, अन्यथा बहिरङ्ग परिभाषया विसर्गदृष्ट्या वृद्धेरसिद्धत्वेन विसर्गाप्राप्त्या भगवताऽङ्गीकृतमपूर्ववचनमसंगतं स्यादिति दिक् ॥
१४
ननु ( येन विना यदनुपपन्नं तत्तेनाक्षिप्यते ) यथाssकृतिः पदार्थ इति नये घटमानयेत्यादौ जाते मूर्त्तत्वादानयनासम्भवेन जात्या व्यक्तेराक्षेपस्तथोपसर्गसंज्ञा क्रियाम्बिना नोपपद्यते इत्युपसर्गेण क्रियाक्षेपः, क्रिया च धात्वर्थस्तस्याश्चाक्षेपो न सम्भवतीति तद्वाचिनो धातोरेवाक्षेपात्सिद्धे धाताविति व्यर्थमेवेत्याशयेन शङ्कते - उपसर्गेणैवेति । पुनर्वृद्धीति । योगविभागसामर्थ्यावृद्धिरेव न कदाचिदपि वृद्धयभाव इति भावः । नचोपसर्गेणाक्षिप्तेऽपि धातौ प्रगत ऋद्धः प्रर्द्ध: इत्यत्र प्रस्योपसर्गत्वादृद्धस्य ऋकारादिधातुनिष्पन्नत्वाच्च प्राप्तवृद्धिवारणायोपसर्गताप्रयोजकधातुत्वलाभार्थं धातुग्रहणस्यावश्यकत्वेन तस्य कथं पुनर्वृद्धिविधानार्थत्वमिति वाच्यम् । प्रशब्दस्य गमनिरूपितोपसर्गत्वेऽपि ऋकारादिधातुनिरूपितोपसर्गत्वाभावाद् वृद्ध्यप्राप्त्या धातुग्रहणस्योक्तार्थत्वाक्षतेः । उक्त हि यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञे भवत इति । न च लाघवादुपसर्ग पर्द तिरस्कृत्य तत्स्थाने गतेरित्येवास्त्विति वाच्यम् । 'अच्छगत्यर्थवदेष्विति गतिसंज्ञत्वादच्छच्र्च्छतीत्यादौ वृद्धयापत्तेरिति दिक् ॥
ननु नाज्झला वित्यज्झलोः सावर्ण्यनिषेधादकः सवर्णस्याच एव प्रसिद्धत्वेन सवर्णेऽ च्येव दीर्घप्रवृत्तावचीति व्यर्थमेवेत्यभिप्रायेण शङ्कते - श्रचि किमिति । पूर्व वर्णानामुप
(१) *बहिरङ्गपरिभाषेति । ( असिद्धं बहिरङ्गमन्तरंगे ) इति परिभाषास्वरूपम् । अन्तरङ्गे कर्तव्ये जातं तत्कालप्राप्तिकं च बहिरङ्गमसिद्धमित्यर्थः । वाह ऊठ् एतत्सूत्रस्थोट्ग्र हणज्ञापितेयं परिभाषा, इत्थं हि ज्ञापनप्रकारः, ऊठ्ग्रहणाभावे सम्प्रसारणमात्रविधानेन लघुपधगुणे वृद्धिरेचीति वृद्धौ विश्वोह इत्यादिसिद्धावूठ ग्रहणं व्यर्थं सत्परिभाषां ज्ञापयति • ज्ञापितायामस्यां तु लघूपधगुणदृष्ट्या सम्प्रसारणस्यासिद्धत्वाल्लघूपधगुणाप्राप्त्या वृच्यभावेन रूपासिद्धेः स्वांशे चरितार्थमूटग्रहणमिति बोध्यम् ।
Aho! Shrutgyanam