________________
अच्सन्धिप्रकरणम् । , ननु अव एहीति स्थितौ पूर्वान्तवद्भावेनाऽऽत्वात् 'ओमाडोश्व' 'एत्येधत्यूठम'एङि पररूपमिः त्येतेषु प्राप्तेषु वृद्धधकत्वादेङि पररूपमित्यस्य तया बाधे बाध्यसामान्यचिन्ताश्रयणादोमाडोश्चेत्यस्यापि बाधः स्यादित्याह-पुरस्तादिति । (पुरस्तादपवादा अनन्तरान्विधीन्वाधन्ते नोत्तरानि ) ति न्यायाकारः । अवश्यं स्वपरस्मिन्वाधनीये प्रथमोपस्थितानन्तरवाधेन चारितायें पश्चादुपस्थितस्य परस्य वाधे मानाभावः, आकांक्षाया निवृत्तेविप्रतिषेधशास्त्रवाधे बीजाभावाच्चेत्येनस्य बीजम् । प्रागवत्तिनोऽपवादा अव्यवहितोत्तरत्तिनो विधीन्वाधन्ते न व्यवहितत्र्तिन इति तदर्थः । तथा च प्रकृते एत्येधत्यूस्वित्यनेन एङि पररूपमित्यस्यैव वाधो न त्वोमालोश्चेत्यस्येति वृधेर्बाधकस्वादेङि पररूपमित्यस्य वाधेन लब्धावकाशायास्तस्याः सामर्थ्यविरहात्परेण(१) पररूपेण बाधादिति भावः । ___ननु प्रौढ इत्यत्रेव प्रोढवानित्यत्राप्यूढशब्दपरत्वावृद्धिः स्यादित्याशंक्य समाधतेअर्थवद्रहणे नाऽनर्थकस्यति । शाब्दिकनये वृत्तिविषये समुदायशक्त्यङ्गीकारेण भूतकालिकवहनकर्तृरूपार्थस्योढवानिति समुदायवृत्तित्वादूढवत एकदेशस्योढस्यार्थवाचकत्वाभावान्न तस्मिन्वृद्धि र्वक्ष्यमाणज्ञापकज्ञापितयाऽर्थवत्परिभाषयाऽर्थवदूढशब्दावयवेऽचि परे तद्विधानादिति भावः । 'ब्रश्चेतिः सूने राजेः पृथक भ्राजिग्रहणमन्त्र ज्ञापकम् । तथा हि परिभा. पाऽभावेऽर्थवदनर्थकोभयविधराजशब्दस्य ग्रहणे बाधकाभावाद् भ्राजौ राजेरपि सत्त्वेन राजिग्रहणेनैव भ्राजेरपि षत्वसिद्धौ व्यर्थ भ्राजिग्रहणमर्थवत्परिभाषां ज्ञापयतीति । न च श्राजिग्रहणसत्त्वे फणादिराजिना साहचर्येण फणादेरेव भ्राजेग्रहणात्षत्वं सिद्ध्यति तदभावे राजिना फणादेस्तदतिरिक्तस्य च भ्राजतेर्ग्रहणापत्तौ षत्वं स्यादिति फगादेोजेर्ग्रहणाय सदतिरिक्तस्य तस्याग्रहणाय च भ्राजिग्रहणस्यावश्यकत्वेन तस्य ज्ञापकत्वमयुक्तमिति वाच्यम् । 'ब्रश्चादिसुत्रे' राज़ इति पाठकरणाकारानुबन्धकस्य राजोषत्वविधानलाहचर्यादुक्तानुबन्धकस्यैव फगादेओजतेर्ग्रहणात्पत्वे तदतिरिक्तभ्राजेः प्राक् ऋकारमनुवध्य ऋभ्राज इति पाठेन 'भ्राजभासेति' विकल्पस्य वाचिकत्वाकारस्यात्मनेपदमात्रफलकत्वेन तत्स्थानेऽकारमनुबध्य भ्राज इति पाठेन वा राजिना तस्याग्रहणात्कुत्वे च विभ्राट विभ्रागिति रुपद्वयसाधुत्वस्य सुलभत्वेन भ्राजिग्राहणज्ञापकत्वस्य युक्तत्वादिति केचित् । वस्तुतस्तु ब्रश्चादिसाहचय्येण धातुसंज्ञकराजेब्रहणेन न भ्राजघटकराजो ग्रहणं तस्य धातुसंज्ञकत्वा. भावात् साहचर्यपरिभाषाया अनित्यत्वेऽपि ऋकारानुबन्धकस्य राजतेहणेन भ्राजघटकराजशब्दस्योक्तानुबन्धकत्वाभावादाजिनाऽस्य ग्रहणं न स्याहकारस्य समुदायानुबन्धत्वात् एवञ्च भ्राजिग्रहणस्यावश्यकत्वे परिभाषायां किं ज्ञापकमिति चेदत्र, भाष्यतत्वविदः, उप. स्थितार्थस्य शब्दं प्रति विशेषणत्वेनान्वयसम्भवे तत्त्यागे मानाभावोऽस्या ज्ञापकः किञ्च "स्वं रूपमिः ति सूत्रे स्वशब्देनाऽऽत्मीयवाचिनाऽर्थो गृह्यते रूपशब्देन स्वरूपं तेन तदुभयं शब्दस्य संज्ञीति सूत्रार्थः सम्पन्नः तत्रार्थो न बिशेष्यस्तत्र शास्त्रीयकार्याऽसम्भवाकिन्तु शब्दस्य विशेषणम् एवञ्चार्थविशिष्टः शब्दः संज्ञीति फलितं तेनाऽर्थवत्परिभाषा सिद्धति भाष्ये स्पष्टमिति दिक् ॥ (१) पररुपेणेति* । ओमाङोश्चेतिसूत्रविहितेनेत्यर्थः । २ फ० र०
Aho! Shrutgyanam